विश्वास-प्रस्तुतिः
पशुश्चेदुपाकृतः पलायते वायवे तमनुदिश्यान्यं तद्वर्णं तद्वयसमालभेत १
मूलम्

उपलभ्य वायवे तम् २
मूलम्
उपलभ्य वायवे तम् २
विश्वास-प्रस्तुतिः
अनादरणं वा ३
मूलम्
अनादरणं वा ३
विश्वास-प्रस्तुतिः
प्राक् प्रयाजेभ्यश्चेन्नियुक्तो म्रियेतान्यमालभेत ४

पूर्वस्य वपां दक्षिणाग्नौ जुहुयात् ५
मूलम्
पूर्वस्य वपां दक्षिणाग्नौ जुहुयात् ५
विश्वास-प्रस्तुतिः
सोमश्चेन्मार्जालीये ईजानाः पितरो ये पितामहा येऽनीजाना यज्ञियाः सोमपास्तेषामेष पशुरालब्धोऽग्नौ स्वाहा देवेभ्यः सुहुतो यमायेति ६

अनपनयो वाऽदुष्टत्वात् ७
मूलम्
अनपनयो वाऽदुष्टत्वात् ७
विश्वास-प्रस्तुतिः
अवदानहानौ नाद्रि येत ८
मूलम्
अवदानहानौ नाद्रि येत ८
विश्वास-प्रस्तुतिः
हृदयनाशे त्वन्यमालभेतेत्येके हृदयं पशुरिति श्रुतेः ९

सर्वेषां वाज्यस्य यजेत् १०
मूलम्
सर्वेषां वाज्यस्य यजेत् १०
विश्वास-प्रस्तुतिः
अर्थवादमात्रं पशुवचनम् ११
मूलम्
अर्थवादमात्रं पशुवचनम् ११
विश्वास-प्रस्तुतिः
सञ्ज्ञप्यमानश्चेद्वाश्येताहुति जुहुयाद्यत्पशुर्मायुमकृतोरो वा पद्भिराहते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहस इति १२

इमं मे वरुणेति च प्रत्यृचं द्वाभ्याम् १३

पशूखाचेत्स्त्रवेत्सान्नाय्योखा वा तामभिमन्त्रयते ॐ खां स्त्रवन्तीमगदामगन्म त्वष्टा वायुः पृथिव्यन्तरिक्षम् । यतश्चुतद्धुतमग्नौ तदस्तु न तत्प्राप्नोति निरृतिः परस्तादिति १४