०८

विश्वास-प्रस्तुतिः

सञ्चयनं चतुर्थ्यामयुग्मान् ब्राह्मणान्भोजयित्वा पलाशवृन्तेनास्थीनि परिवर्त्य परिवर्त्याङ्गुष्ठकनिष्ठिकाभ्यामादाय पलाशपुटे प्रास्यति १

मूलम्

सञ्चयनं चतुर्थ्यामयुग्मान् ब्राह्मणान्भोजयित्वा पलाशवृन्तेनास्थीनि परिवर्त्य परिवर्त्याङ्गुष्ठकनिष्ठिकाभ्यामादाय पलाशपुटे प्रास्यति १

विश्वास-प्रस्तुतिः

शम्यावकाः कर्दमं च श्मशाने २

मूलम्

शम्यावकाः कर्दमं च श्मशाने २

विश्वास-प्रस्तुतिः

अक्त्वास्थीनि सर्वसुरभिमिश्राणि दक्षिणपूर्वायतां कर्षूं खात्वा कुशानास्तीर्य वस्त्रावकृतं च हारिद्रं वागिति निवपत्यस्मिन् ३

मूलम्

अक्त्वास्थीनि सर्वसुरभिमिश्राणि दक्षिणपूर्वायतां कर्षूं खात्वा कुशानास्तीर्य वस्त्रावकृतं च हारिद्रं वागिति निवपत्यस्मिन् ३

विश्वास-प्रस्तुतिः

एतद्वाजसनेयकम् ४

मूलम्

एतद्वाजसनेयकम् ४

विश्वास-प्रस्तुतिः

अनेन वा ५

मूलम्

अनेन वा ५

विश्वास-प्रस्तुतिः

त्वा मनसानार्तेन वाचा ब्रह्मणा त्रय्या विद्यया पृथिव्यामक्षिकायामपांरसेन निवपाम्यसाविति ६

मूलम्

त्वा मनसानार्तेन वाचा ब्रह्मणा त्रय्या विद्यया पृथिव्यामक्षिकायामपांरसेन निवपाम्यसाविति ६

विश्वास-प्रस्तुतिः

श्मशानं चिकीर्षतः कुम्भे सञ्चयनम् ७

मूलम्

श्मशानं चिकीर्षतः कुम्भे सञ्चयनम् ७

विश्वास-प्रस्तुतिः

निधानं च तूष्णीम् ८

मूलम्

निधानं च तूष्णीम् ८

विश्वास-प्रस्तुतिः

प्रोषितश्चेत्प्रेयात्प्राचीनावीती निवान्यां दुग्ध्वा दक्षिणतोऽधिश्रयणोद्वासने ९

मूलम्

प्रोषितश्चेत्प्रेयात्प्राचीनावीती निवान्यां दुग्ध्वा दक्षिणतोऽधिश्रयणोद्वासने ९

विश्वास-प्रस्तुतिः

तत एव हरणम् १०

मूलम्

तत एव हरणम् १०

विश्वास-प्रस्तुतिः

अधस्तात्समिधे धारयन् ११

मूलम्

अधस्तात्समिधे धारयन् ११

विश्वास-प्रस्तुतिः

उदगग्रान् कुशान् दक्षिणाग्रान् कृत्वा १२

मूलम्

उदगग्रान् कुशान् दक्षिणाग्रान् कृत्वा १२

विश्वास-प्रस्तुतिः

सकृद्वा पितृवत्पर्यस्य १३

मूलम्

सकृद्वा पितृवत्पर्यस्य १३

विश्वास-प्रस्तुतिः

शरीराण्याहृत्य कृष्णाजिने पुरुषविधिं विधायोर्णाभिः प्रच्छाद्याज्येनाभिघार्य पूर्ववद्दाहः १४

मूलम्

शरीराण्याहृत्य कृष्णाजिने पुरुषविधिं विधायोर्णाभिः प्रच्छाद्याज्येनाभिघार्य पूर्ववद्दाहः १४

विश्वास-प्रस्तुतिः

शरीरनाशे त्रीणि षष्टिशतानि पलाशवृन्तानां कृष्णाजिने पूर्ववत् १५

मूलम्

शरीरनाशे त्रीणि षष्टिशतानि पलाशवृन्तानां कृष्णाजिने पूर्ववत् १५

विश्वास-प्रस्तुतिः

अनिष्ट्वाग्रयणेन नवस्याश्नीयाद्भुक्त्वा पतितस्य प्रतिगृह्य विद्विषाणयोर्वाऽयाज्यं याजयित्वाविं प्रतिगृह्योभयादद्वा यस्याग्निभिरन्यं याजयेयुर्यो वा यजेत वैश्वानरं निर्वपेत् १६

मूलम्

अनिष्ट्वाग्रयणेन नवस्याश्नीयाद्भुक्त्वा पतितस्य प्रतिगृह्य विद्विषाणयोर्वाऽयाज्यं याजयित्वाविं प्रतिगृह्योभयादद्वा यस्याग्निभिरन्यं याजयेयुर्यो वा यजेत वैश्वानरं निर्वपेत् १६

विश्वास-प्रस्तुतिः

कृष्णं वासो दक्षिणा १७

मूलम्

कृष्णं वासो दक्षिणा १७

विश्वास-प्रस्तुतिः

पुरोडाशे क्षामेऽवशिष्टं समाप्य तदेव पुनर्निर्वपेत् १८

मूलम्

पुरोडाशे क्षामेऽवशिष्टं समाप्य तदेव पुनर्निर्वपेत् १८

विश्वास-प्रस्तुतिः

एकदेशदग्धेऽपि संयोगात् १९

मूलम्

एकदेशदग्धेऽपि संयोगात् १९

विश्वास-प्रस्तुतिः

दर्शनाच्च २०

मूलम्

दर्शनाच्च २०

विश्वास-प्रस्तुतिः

न नित्यत्वात् २१

मूलम्

न नित्यत्वात् २१

विश्वास-प्रस्तुतिः

कर्मार्थं दर्शनम् २२

मूलम्

कर्मार्थं दर्शनम् २२