०७

विश्वास-प्रस्तुतिः

सायमाहुत्यां हुतायां चेद्दुर्बलः स्यात्तदैव प्रातराहुतिस्तत्संस्थाश्रुतेरग्निहोत्रस्य १

मूलम्

सायमाहुत्यां हुतायां चेद्दुर्बलः स्यात्तदैव प्रातराहुतिस्तत्संस्थाश्रुतेरग्निहोत्रस्य १

विश्वास-प्रस्तुतिः

जीवेच्चेत्पुनः काले २

मूलम्

जीवेच्चेत्पुनः काले २

विश्वास-प्रस्तुतिः

न वा कृतत्वात् ३

मूलम्

न वा कृतत्वात् ३

विश्वास-प्रस्तुतिः

पौर्णमासान्ते चामावास्यमग्निहोत्रवत् ४

मूलम्

पौर्णमासान्ते चामावास्यमग्निहोत्रवत् ४

विश्वास-प्रस्तुतिः

हविष्येषु चेदाह्रियमाणेषु मरणं दक्षिणाग्नावेनान्त्सन्दहेत् ५

मूलम्

हविष्येषु चेदाह्रियमाणेषु मरणं दक्षिणाग्नावेनान्त्सन्दहेत् ५

विश्वास-प्रस्तुतिः

न वाऽयुक्तत्वात् ६

मूलम्

न वाऽयुक्तत्वात् ६

विश्वास-प्रस्तुतिः

गार्हपत्ये ग्रहणादि प्रागासादनात् ७

मूलम्

गार्हपत्ये ग्रहणादि प्रागासादनात् ७

विश्वास-प्रस्तुतिः

आसादनाद्याहवनीये ८

मूलम्

आसादनाद्याहवनीये ८

विश्वास-प्रस्तुतिः

मरणान्तं भवति ९

मूलम्

मरणान्तं भवति ९

विश्वास-प्रस्तुतिः

संस्थाप्यं वा प्रकॢप्तत्वात् १०

मूलम्

संस्थाप्यं वा प्रकॢप्तत्वात् १०

विश्वास-प्रस्तुतिः

हविष्यवद्धौम्यम् ११

मूलम्

हविष्यवद्धौम्यम् ११

विश्वास-प्रस्तुतिः

सन्दीपनवतीः प्रत्यग्न्यधिश्रयत्युखाः १२

मूलम्

सन्दीपनवतीः प्रत्यग्न्यधिश्रयत्युखाः १२

विश्वास-प्रस्तुतिः

सन्तापजानग्नीनादाय सशरीरा दक्षिणा गच्छन्ति १३

मूलम्

सन्तापजानग्नीनादाय सशरीरा दक्षिणा गच्छन्ति १३

विश्वास-प्रस्तुतिः

अनसा १४

मूलम्

अनसा १४

विश्वास-प्रस्तुतिः

वितानं साधयित्वा समे बहुलतृणेऽन्तराग्नी चितिं चिनोति १५

मूलम्

वितानं साधयित्वा समे बहुलतृणेऽन्तराग्नी चितिं चिनोति १५

विश्वास-प्रस्तुतिः

उद्धृत्यक्षीरिणा पुरुषाह्वतीः १६

मूलम्

उद्धृत्यक्षीरिणा पुरुषाह्वतीः १६

विश्वास-प्रस्तुतिः

विशाखशराश्मगन्धापृश्निपर्ण्यध्याण्डाश्च १७

मूलम्

विशाखशराश्मगन्धापृश्निपर्ण्यध्याण्डाश्च १७

विश्वास-प्रस्तुतिः

केशश्मश्रुनखलोमनिकृन्तनानि कृत्वा विपुरीषं चेच्छन् १८

मूलम्

केशश्मश्रुनखलोमनिकृन्तनानि कृत्वा विपुरीषं चेच्छन् १८

विश्वास-प्रस्तुतिः

केशादि निखाय सर्पिषान्तरक्त्वा चितावेनमादधाति कृष्णाजिनमास्तीर्य प्राक्शिरसम् १९

मूलम्

केशादि निखाय सर्पिषान्तरक्त्वा चितावेनमादधाति कृष्णाजिनमास्तीर्य प्राक्शिरसम् १९

विश्वास-प्रस्तुतिः

सप्तसु प्राणायतनेषु सप्तहिरण्यशकलान्प्रास्यति मुखे प्रथमम् २०

मूलम्

सप्तसु प्राणायतनेषु सप्तहिरण्यशकलान्प्रास्यति मुखे प्रथमम् २०

विश्वास-प्रस्तुतिः

दक्षिणहस्ते जुहूं सादयति घृतपूर्णाम् २१

मूलम्

दक्षिणहस्ते जुहूं सादयति घृतपूर्णाम् २१

विश्वास-प्रस्तुतिः

स्फ्यं च २२

मूलम्

स्फ्यं च २२

विश्वास-प्रस्तुतिः

उपभृतं सव्ये २३

मूलम्

उपभृतं सव्ये २३

विश्वास-प्रस्तुतिः

उरसि ध्रुवाम् २४

मूलम्

उरसि ध्रुवाम् २४

विश्वास-प्रस्तुतिः

मुखेऽग्निहोत्रहवणीम् २५

मूलम्

मुखेऽग्निहोत्रहवणीम् २५

विश्वास-प्रस्तुतिः

नासिकयोः स्रुचौ २६

मूलम्

नासिकयोः स्रुचौ २६

विश्वास-प्रस्तुतिः

कर्णयोः प्राशित्रहरणे शिरसि चमसं प्रणीताप्रणयनम् २७

मूलम्

कर्णयोः प्राशित्रहरणे शिरसि चमसं प्रणीताप्रणयनम् २७

विश्वास-प्रस्तुतिः

कपालानि चैके २८

मूलम्

कपालानि चैके २८

विश्वास-प्रस्तुतिः

पार्श्वयोः शूर्पे २९

मूलम्

पार्श्वयोः शूर्पे २९

विश्वास-प्रस्तुतिः

उदरे पात्रीं समवत्तधानीं पृषदाज्यवतीं शिश्ने शम्यामरणी वृषणयोः ३०

मूलम्

उदरे पात्रीं समवत्तधानीं पृषदाज्यवतीं शिश्ने शम्यामरणी वृषणयोः ३०

विश्वास-प्रस्तुतिः

अन्तरोरू यज्ञपात्राण्यन्यानि ३१

मूलम्

अन्तरोरू यज्ञपात्राण्यन्यानि ३१

विश्वास-प्रस्तुतिः

अप्स्ववहरणं मृन्मयाश्ममयानाम् ३२

मूलम्

अप्स्ववहरणं मृन्मयाश्ममयानाम् ३२

विश्वास-प्रस्तुतिः

अयस्मयानि वा ब्राह्मणाय दद्यात् ३३

मूलम्

अयस्मयानि वा ब्राह्मणाय दद्यात् ३३

विश्वास-प्रस्तुतिः

अनुस्तरणी चेत्पश्चात्कर्णमाहत्य हस्तयोर्वृक्कौ ३४

मूलम्

अनुस्तरणी चेत्पश्चात्कर्णमाहत्य हस्तयोर्वृक्कौ ३४

विश्वास-प्रस्तुतिः

अङ्गेष्वङ्गानीति जातूकर्ण्यः ३५

मूलम्

अङ्गेष्वङ्गानीति जातूकर्ण्यः ३५

विश्वास-प्रस्तुतिः

न वाऽस्थिसन्देहात् ३६

मूलम्

न वाऽस्थिसन्देहात् ३६

विश्वास-प्रस्तुतिः

वपया मुखमवच्छाद्याग्निभिरादीपयन्ति ३७

मूलम्

वपया मुखमवच्छाद्याग्निभिरादीपयन्ति ३७

विश्वास-प्रस्तुतिः

आहुतिं जुहोति पुत्रो भ्राताऽन्यो वा ब्राह्मणोऽस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः असौ स्वर्गाय लोकाय स्वाहेति ३८

मूलम्

आहुतिं जुहोति पुत्रो भ्राताऽन्यो वा ब्राह्मणोऽस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः असौ स्वर्गाय लोकाय स्वाहेति ३८

विश्वास-प्रस्तुतिः

अनपेक्षमेत्योपस्पृशन्त्यपः ३९

मूलम्

अनपेक्षमेत्योपस्पृशन्त्यपः ३९