०६

विश्वास-प्रस्तुतिः

परमेष्ठ्यादींश्च चतुस्त्रिंशतं जुहोति १

मूलम्

परमेष्ठ्यादींश्च चतुस्त्रिंशतं जुहोति १

विश्वास-प्रस्तुतिः

घर्मघुग्ध्वाले चादोहे चौदीच्या २

मूलम्

घर्मघुग्ध्वाले चादोहे चौदीच्या २

विश्वास-प्रस्तुतिः

दोहस्थानेऽन्यस्याः ३

मूलम्

दोहस्थानेऽन्यस्याः ३

विश्वास-प्रस्तुतिः

शालाया वा पुरस्तात्प्राच्याः ४

मूलम्

शालाया वा पुरस्तात्प्राच्याः ४

विश्वास-प्रस्तुतिः

पुच्छकाण्डाद्दक्षिणेऽस्थनि हुत्वा दोहयेत् ५

मूलम्

पुच्छकाण्डाद्दक्षिणेऽस्थनि हुत्वा दोहयेत् ५

विश्वास-प्रस्तुतिः

पृषदाज्यस्कन्दने चैके ६

मूलम्

पृषदाज्यस्कन्दने चैके ६

विश्वास-प्रस्तुतिः

सोमज्योपपाते चैकेकां यथाकालं हुत्वा यज्ञस्य दोह इति वाचयति आग्नीध्रीये सुत्यासु ७

मूलम्

सोमज्योपपाते चैकेकां यथाकालं हुत्वा यज्ञस्य दोह इति वाचयति आग्नीध्रीये सुत्यासु ७

विश्वास-प्रस्तुतिः

आपवस्व हिरण्यवदित्युद्गातृहोमो ध्वाङ्क्षारोहणे यूपस्य ८

मूलम्

आपवस्व हिरण्यवदित्युद्गातृहोमो ध्वाङ्क्षारोहणे यूपस्य ८

विश्वास-प्रस्तुतिः

पृषदाज्यस्कन्दने जुहुयादयाविष्ठा जनयन्कर्पराणि स हि घृणिरुरुर्वराय गातुः स प्रत्युदैद्धरुणो मृध्वोऽग्रं स्वायां यत्तन्वां तनूमैरयत स्वाहेति ९

मूलम्

पृषदाज्यस्कन्दने जुहुयादयाविष्ठा जनयन्कर्पराणि स हि घृणिरुरुर्वराय गातुः स प्रत्युदैद्धरुणो मृध्वोऽग्रं स्वायां यत्तन्वां तनूमैरयत स्वाहेति ९

विश्वास-प्रस्तुतिः

घर्मधुक्शार्दूलहता चेत्स्पृतीर्जुहुयात् चन्द्रा त्ते मन स्पृणोमि स्वाहा सूर्यात्ते चक्षु स्पृणोमि स्वाहा वातात्ते प्राणान् स्पृणोमि स्वाहा दिग्भ्यस्ते श्रोत्रं स्पृणोमि स्वाहाऽद्भ्यस्ते लोहितं स्पृणोमि स्वाहा पृथिव्यै ते शरीरं स्पृणोमि स्वाहेति १०

हुत्वान्यामाजतेति ब्रूयात् ११

मूलम्

हुत्वान्यामाजतेति ब्रूयात् ११

विश्वास-प्रस्तुतिः

स्वयं होम्यशक्ता उपासीत १२

मूलम्

स्वयं होम्यशक्ता उपासीत १२

विश्वास-प्रस्तुतिः

उपसर्पणाशक्तावासनमधः १३

मूलम्

उपसर्पणाशक्तावासनमधः १३