विश्वास-प्रस्तुतिः
उद्वास्यमानं चेत्कपालं नश्येदाश्विनः १
मूलम्
उद्वास्यमानं चेत्कपालं नश्येदाश्विनः १
विश्वास-प्रस्तुतिः
सायं प्रातर्दोहार्त्तावैन्द्रं पञ्चशरावमोदनं निर्वपेत् पुरोडाशं वा २
मूलम्
सायं प्रातर्दोहार्त्तावैन्द्रं पञ्चशरावमोदनं निर्वपेत् पुरोडाशं वा २
विश्वास-प्रस्तुतिः
भेदेनाप्युपपातात् ३
मूलम्
भेदेनाप्युपपातात् ३
विश्वास-प्रस्तुतिः
तत्प्रतिनिधिः ४
मूलम्
तत्प्रतिनिधिः ४
विश्वास-प्रस्तुतिः
प्रायश्चित्तं वा देवताश्रुतेः ५
मूलम्
प्रायश्चित्तं वा देवताश्रुतेः ५
विश्वास-प्रस्तुतिः
चरू सान्नाय्यालाभे ६
मूलम्
चरू सान्नाय्यालाभे ६
विश्वास-प्रस्तुतिः
सायं दोहस्थाने वा पुरोडाशः ७
मूलम्
सायं दोहस्थाने वा पुरोडाशः ७
विश्वास-प्रस्तुतिः
असान्नाय्यवद्वा ८
मूलम्
असान्नाय्यवद्वा ८
विश्वास-प्रस्तुतिः
दुष्टस्य हविषोऽप्स्ववहरणम् ९
मूलम्
दुष्टस्य हविषोऽप्स्ववहरणम् ९
विश्वास-प्रस्तुतिः
उष्णे वा भस्मनि १०
मूलम्
उष्णे वा भस्मनि १०
विश्वास-प्रस्तुतिः
शिष्टभक्षप्रतिषिद्धं दुष्टम् ११
मूलम्
शिष्टभक्षप्रतिषिद्धं दुष्टम् ११
विश्वास-प्रस्तुतिः
एकस्यानिष्टे तदुक्तम् १२
मूलम्
एकस्यानिष्टे तदुक्तम् १२
विश्वास-प्रस्तुतिः
सान्निपातिकानि वा तस्य १३
मूलम्
सान्निपातिकानि वा तस्य १३
विश्वास-प्रस्तुतिः
इष्टं चेदाज्येन शेषम् १४
मूलम्
इष्टं चेदाज्येन शेषम् १४
विश्वास-प्रस्तुतिः
हविरन्तरेण प्राक्प्राधानेज्यायाः स्मृत्वान्वाहरेत् १५
मूलम्
हविरन्तरेण प्राक्प्राधानेज्यायाः स्मृत्वान्वाहरेत् १५
विश्वास-प्रस्तुतिः
प्राग्वा समिष्टयजुषः संस्थाश्रुतेः १६
मूलम्
प्राग्वा समिष्टयजुषः संस्थाश्रुतेः १६
विश्वास-प्रस्तुतिः
हुतं चेत्संस्थाप्य तदेव पुनर्निर्वपेत् १७
मूलम्
हुतं चेत्संस्थाप्य तदेव पुनर्निर्वपेत् १७
विश्वास-प्रस्तुतिः
देवताविपर्यासे पुष्कलं दत्वा यथानुपूर्व्यकरणम् १८
मूलम्
देवताविपर्यासे पुष्कलं दत्वा यथानुपूर्व्यकरणम् १८
विश्वास-प्रस्तुतिः
अवदानयाज्यानुवाक्यासु च १९
मूलम्
अवदानयाज्यानुवाक्यासु च १९
विश्वास-प्रस्तुतिः
स्रुच्ये दुष्टे पुनर्ग्रहणम् २०
मूलम्
स्रुच्ये दुष्टे पुनर्ग्रहणम् २०
विश्वास-प्रस्तुतिः
ध्रुवाया वा ततो यज्ञः प्रभवतीति श्रुतेः २१
मूलम्
ध्रुवाया वा ततो यज्ञः प्रभवतीति श्रुतेः २१
विश्वास-प्रस्तुतिः
अदुष्टाद्वानयनमेके २२
मूलम्
अदुष्टाद्वानयनमेके २२
विश्वास-प्रस्तुतिः
नोपभृतो ध्रुवायाम् २३
मूलम्
नोपभृतो ध्रुवायाम् २३
विश्वास-प्रस्तुतिः
आज्यस्थालीदोषेऽन्यत् २४
मूलम्
आज्यस्थालीदोषेऽन्यत् २४
विश्वास-प्रस्तुतिः
अदोषो वा न वै देवाः कस्माच्चन बीभत्सन्त इति श्रुतेः २५
मूलम्
अदोषो वा न वै देवाः कस्माच्चन बीभत्सन्त इति श्रुतेः २५
विश्वास-प्रस्तुतिः
अधिकं निरूप्य तच्च यजेत् २६
मूलम्
अधिकं निरूप्य तच्च यजेत् २६
विश्वास-प्रस्तुतिः
न वाचोदितत्वात् २७
मूलम्
न वाचोदितत्वात् २७
विश्वास-प्रस्तुतिः
ऐतु राजावरुणो रेवतीभिरास्मिन्स्थाने तिष्ठतु मोदमानः । अरिष्टा अस्माकं वीरा मा परासेचि मत्पय इति प्रणीता स्कन्ना अभिमृशेत् २८
मूलम्
ऐतु राजावरुणो रेवतीभिरास्मिन्स्थाने तिष्ठतु मोदमानः । अरिष्टा अस्माकं वीरा मा परासेचि मत्पय इति प्रणीता स्कन्ना अभिमृशेत् २८
विश्वास-प्रस्तुतिः
भूमिर्भुमिमवागात्माता मातरमप्यगात् । भूयाम पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति मृन्मयं भिन्नमभिमृशेत् २९
मूलम्
भूमिर्भुमिमवागात्माता मातरमप्यगात् । भूयाम पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति मृन्मयं भिन्नमभिमृशेत् २९
विश्वास-प्रस्तुतिः
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः सन्धाता सन्धिं मघवा पुरुवसुरिष्कर्ता विह्रुरतं पुनरिति च घर्म्यम् ३०
मूलम्
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः सन्धाता सन्धिं मघवा पुरुवसुरिष्कर्ता विह्रुरतं पुनरिति च घर्म्यम् ३०