०४

विश्वास-प्रस्तुतिः

मथ्यमानश्चेन्न जायेत यमदूरात्पश्येत्तमाहृत्याभिजुहुयात् १

मूलम्

मथ्यमानश्चेन्न जायेत यमदूरात्पश्येत्तमाहृत्याभिजुहुयात् १

विश्वास-प्रस्तुतिः

ब्राह्मणहस्ते वा २

मूलम्

ब्राह्मणहस्ते वा २

विश्वास-प्रस्तुतिः

वासानपनोदश्च ३

मूलम्

वासानपनोदश्च ३

विश्वास-प्रस्तुतिः

अजकर्णे वा दक्षिणे ४

मूलम्

अजकर्णे वा दक्षिणे ४

विश्वास-प्रस्तुतिः

अभोजनं तस्य ५

मूलम्

अभोजनं तस्य ५

विश्वास-प्रस्तुतिः

कुशस्तम्बे वा ६

मूलम्

कुशस्तम्बे वा ६

विश्वास-प्रस्तुतिः

अनासनं तस्मिन् ७

मूलम्

अनासनं तस्मिन् ७

विश्वास-प्रस्तुतिः

अप्सु वा ८

मूलम्

अप्सु वा ८

विश्वास-प्रस्तुतिः

नाद्भ्यो बीभत्सेतेति श्रुतेः ९

मूलम्

नाद्भ्यो बीभत्सेतेति श्रुतेः ९

विश्वास-प्रस्तुतिः

अहुताम्युदित उन्नीयातमितोरासीत १०

मूलम्

अहुताम्युदित उन्नीयातमितोरासीत १०

विश्वास-प्रस्तुतिः

हुत्वा भूरित्यनुमन्त्रणम् ११

मूलम्

हुत्वा भूरित्यनुमन्त्रणम् ११

विश्वास-प्रस्तुतिः

वरदानं च १२

मूलम्

वरदानं च १२

विश्वास-प्रस्तुतिः

सर्वनाशे हविषां दोषे वा तदुक्तम् १३

मूलम्

सर्वनाशे हविषां दोषे वा तदुक्तम् १३

विश्वास-प्रस्तुतिः

आज्येन वा प्रतिसङ्ख्याय देवतेज्या १४

मूलम्

आज्येन वा प्रतिसङ्ख्याय देवतेज्या १४

विश्वास-प्रस्तुतिः

पुनः क्रिया च १५

मूलम्

पुनः क्रिया च १५

विश्वास-प्रस्तुतिः

भेदे विप्रकॢप्त्युपपाताभ्याम् १६

मूलम्

भेदे विप्रकॢप्त्युपपाताभ्याम् १६

विश्वास-प्रस्तुतिः

अन्तरा गमनेऽनाद्रि यते १७

मूलम्

अन्तरा गमनेऽनाद्रि यते १७

विश्वास-प्रस्तुतिः

श्वैडवराहेषूदधारा प्राचीदं विष्णुरिति १८

मूलम्

श्वैडवराहेषूदधारा प्राचीदं विष्णुरिति १८

विश्वास-प्रस्तुतिः

भस्मनो वा १९

मूलम्

भस्मनो वा १९

विश्वास-प्रस्तुतिः

चक्रीवत्यग्नये पथिकृते २०

मूलम्

चक्रीवत्यग्नये पथिकृते २०

विश्वास-प्रस्तुतिः

प्रज्ञातेष्ट्यतिपत्तौ च २१

मूलम्

प्रज्ञातेष्ट्यतिपत्तौ च २१

विश्वास-प्रस्तुतिः

नियतास्वतिपत्तिश्रुतेः २२

मूलम्

नियतास्वतिपत्तिश्रुतेः २२

विश्वास-प्रस्तुतिः

स्तोत्रमोहे शस्त्रस्य च २३

मूलम्

स्तोत्रमोहे शस्त्रस्य च २३

विश्वास-प्रस्तुतिः

जनमरणे च २४

मूलम्

जनमरणे च २४

विश्वास-प्रस्तुतिः

उपपातसामर्थ्यात्स्वजने २५

मूलम्

उपपातसामर्थ्यात्स्वजने २५

विश्वास-प्रस्तुतिः

आहिताग्नेरार्त्यश्रुकरणेऽग्नये व्रतभृते २८

मूलम्

आहिताग्नेरार्त्यश्रुकरणेऽग्नये व्रतभृते २८

विश्वास-प्रस्तुतिः

संसर्गे नाद्रि येत २९

मूलम्

संसर्गे नाद्रि येत २९

विश्वास-प्रस्तुतिः

अनुक्रोशेऽग्नये संसर्गायाहुतिर्वा ग्रामाग्निना चेत् ३०

मूलम्

अनुक्रोशेऽग्नये संसर्गायाहुतिर्वा ग्रामाग्निना चेत् ३०

विश्वास-प्रस्तुतिः

अग्नये विविचये मिथश्चेत् ३१

मूलम्

अग्नये विविचये मिथश्चेत् ३१

विश्वास-प्रस्तुतिः

अग्नये संवर्गाय प्रदव्याच्चेत् ३२

मूलम्

अग्नये संवर्गाय प्रदव्याच्चेत् ३२

विश्वास-प्रस्तुतिः

अग्नयेऽप्सुमते वैद्युताच्चेत् ३३

मूलम्

अग्नयेऽप्सुमते वैद्युताच्चेत् ३३

विश्वास-प्रस्तुतिः

अग्नये शुचयेऽशुच्यायतनाच्चेत् ३४

मूलम्

अग्नये शुचयेऽशुच्यायतनाच्चेत् ३४

विश्वास-प्रस्तुतिः

भार्यागोषु यमजनने मारुतं त्रयोदशकपालं निर्वपेत् ३५

मूलम्

भार्यागोषु यमजनने मारुतं त्रयोदशकपालं निर्वपेत् ३५

विश्वास-प्रस्तुतिः

गेहदाहेऽग्नये क्षामवते पुरोडशः ३६

मूलम्

गेहदाहेऽग्नये क्षामवते पुरोडशः ३६

विश्वास-प्रस्तुतिः

चन्द्र मसाभ्युदित आमावास्ये पुरस्तात्तद्व्रतः स्यात् ३७

मूलम्

चन्द्र मसाभ्युदित आमावास्ये पुरस्तात्तद्व्रतः स्यात् ३७

विश्वास-प्रस्तुतिः

दधि हविरातञ्चनं निदध्यात् ३८

मूलम्

दधि हविरातञ्चनं निदध्यात् ३८

विश्वास-प्रस्तुतिः

संसृज्य वत्सान्पुनरपाकरणम् ३९

मूलम्

संसृज्य वत्सान्पुनरपाकरणम् ३९

विश्वास-प्रस्तुतिः

निरुप्ते व्रताशक्तौ वा त्रैधं तण्डुलान्विभज्य मध्यमानग्नये दात्रे स्थविष्ठानिन्द्रा य प्रदात्रे दधनि चरुमणिष्ठान्विष्णवे शिपिविष्ठाय शृते चरुम् ४०

मूलम्

निरुप्ते व्रताशक्तौ वा त्रैधं तण्डुलान्विभज्य मध्यमानग्नये दात्रे स्थविष्ठानिन्द्रा य प्रदात्रे दधनि चरुमणिष्ठान्विष्णवे शिपिविष्ठाय शृते चरुम् ४०

विश्वास-प्रस्तुतिः

संस्कारात्सान्नाय्यम् ४१

मूलम्

संस्कारात्सान्नाय्यम् ४१

विश्वास-प्रस्तुतिः

अन्यद्वेज्यायोगात् ४२

मूलम्

अन्यद्वेज्यायोगात् ४२

विश्वास-प्रस्तुतिः

तस्य तण्डुलापनयो वचनात् ४३

मूलम्

तस्य तण्डुलापनयो वचनात् ४३

विश्वास-प्रस्तुतिः

प्रकृत्या पूर्वम् ४४

मूलम्

प्रकृत्या पूर्वम् ४४

विश्वास-प्रस्तुतिः

सर्वं वा निमित्तात् ४५

मूलम्

सर्वं वा निमित्तात् ४५

विश्वास-प्रस्तुतिः

पश्चादभ्युद्दृष्ट आमावास्येनेष्ट्वा तदहर्वैव श्वो वाऽग्नये पथिकृत इन्द्रा य वृत्रघ्न एकादशकपालो वैश्वानरश्च ४६

मूलम्

पश्चादभ्युद्दृष्ट आमावास्येनेष्ट्वा तदहर्वैव श्वो वाऽग्नये पथिकृत इन्द्रा य वृत्रघ्न एकादशकपालो वैश्वानरश्च ४६

विश्वास-प्रस्तुतिः

त्रीषुकं धनुर्दक्षिणा ४७

मूलम्

त्रीषुकं धनुर्दक्षिणा ४७

विश्वास-प्रस्तुतिः

दण्डो वा ४८

मूलम्

दण्डो वा ४८

विश्वास-प्रस्तुतिः

प्राकृताश्चेच्छन् ४९

मूलम्

प्राकृताश्चेच्छन् ४९

विश्वास-प्रस्तुतिः

अनभ्युद्दृष्टस्यापि पशुकामस्य ५०

मूलम्

अनभ्युद्दृष्टस्यापि पशुकामस्य ५०