विश्वास-प्रस्तुतिः
पूर्वाहुतौ हुतायां चेदाहवनीयोऽनुगच्छेत्तदुक्तम् १
मूलम्
पूर्वाहुतौ हुतायां चेदाहवनीयोऽनुगच्छेत्तदुक्तम् १
विश्वास-प्रस्तुतिः
काष्ठं हिरण्यं वाभिजुहुयाच्छ्रुतेः २
मूलम्
काष्ठं हिरण्यं वाभिजुहुयाच्छ्रुतेः २
विश्वास-प्रस्तुतिः
त्रिरुद्धृतश्चेदाहवनीयोऽनुगच्छेदुदक्स्थानान्युपलिप्य निर्मथ्य सकृदुद्धृते तस्मिन्त्सायम्प्रातर्होममेके ३
मूलम्
त्रिरुद्धृतश्चेदाहवनीयोऽनुगच्छेदुदक्स्थानान्युपलिप्य निर्मथ्य सकृदुद्धृते तस्मिन्त्सायम्प्रातर्होममेके ३
विश्वास-प्रस्तुतिः
गार्हपत्येऽनुगते भस्मनाऽरणी संस्पृश्य मन्थनम् ४
मूलम्
गार्हपत्येऽनुगते भस्मनाऽरणी संस्पृश्य मन्थनम् ४
विश्वास-प्रस्तुतिः
आहवनीयजागरणे वा तत एवोद्धरणम् ५
मूलम्
आहवनीयजागरणे वा तत एवोद्धरणम् ५
विश्वास-प्रस्तुतिः
आहृत्य वा ६
मूलम्
आहृत्य वा ६
विश्वास-प्रस्तुतिः
उपलराज्यागताद्वा ७
मूलम्
उपलराज्यागताद्वा ७
विश्वास-प्रस्तुतिः
निर्मन्थ्य वा ८
मूलम्
निर्मन्थ्य वा ८
विश्वास-प्रस्तुतिः
समारोह्यासमारोह्य वा पूर्वमुपशमय्य पूर्ववद्धोमः ९
मूलम्
समारोह्यासमारोह्य वा पूर्वमुपशमय्य पूर्ववद्धोमः ९
विश्वास-प्रस्तुतिः
त्रिराहृतो दक्षिणाऽग्निरनुगच्छेच्चेदनाहरणमस्य तदहरेके १०
मूलम्
त्रिराहृतो दक्षिणाऽग्निरनुगच्छेच्चेदनाहरणमस्य तदहरेके १०
विश्वास-प्रस्तुतिः
जाग्रतमाहवनीयमभ्युद्धरेच्चेत्तदुक्तम् ११
मूलम्
जाग्रतमाहवनीयमभ्युद्धरेच्चेत्तदुक्तम् ११
विश्वास-प्रस्तुतिः
पश्चान्निधाय पुरस्ताद्वोभयत्र होममेके १२
मूलम्
पश्चान्निधाय पुरस्ताद्वोभयत्र होममेके १२
विश्वास-प्रस्तुतिः
अभिनिधानेऽग्नयेऽग्निमते पुरोडशः १३
मूलम्
अभिनिधानेऽग्नयेऽग्निमते पुरोडशः १३
विश्वास-प्रस्तुतिः
समितमिति वोपस्थानं द्वाभ्याम् १४
मूलम्
समितमिति वोपस्थानं द्वाभ्याम् १४
विश्वास-प्रस्तुतिः
गृहीतानुगमने चान्वग्निरित्याहृत्य १५
मूलम्
गृहीतानुगमने चान्वग्निरित्याहृत्य १५
विश्वास-प्रस्तुतिः
अनादेशे पुरोडाशः सर्वत्र १६
मूलम्
अनादेशे पुरोडाशः सर्वत्र १६
विश्वास-प्रस्तुतिः
अनुद्धृताभ्यस्तमये कुशबद्धे हिरण्ये पश्चाद्ध्रियमाण इध्मेनोऽद्धरेदार्षेयो ब्राह्मणः १७
मूलम्
अनुद्धृताभ्यस्तमये कुशबद्धे हिरण्ये पश्चाद्ध्रियमाण इध्मेनोऽद्धरेदार्षेयो ब्राह्मणः १७
विश्वास-प्रस्तुतिः
वैष्णव्याहुतिः १८
मूलम्
वैष्णव्याहुतिः १८
विश्वास-प्रस्तुतिः
अग्नये च सूर्यवते १९
मूलम्
अग्नये च सूर्यवते १९
विश्वास-प्रस्तुतिः
अभ्युदये रजतधारणं पुरस्तात् २०
मूलम्
अभ्युदये रजतधारणं पुरस्तात् २०
विश्वास-प्रस्तुतिः
वैश्यदेव्याहुतिः २१
मूलम्
वैश्यदेव्याहुतिः २१
विश्वास-प्रस्तुतिः
सूर्याय च ज्योतिष्मते २२
मूलम्
सूर्याय च ज्योतिष्मते २२
विश्वास-प्रस्तुतिः
समानमुद्धरणम् २३
मूलम्
समानमुद्धरणम् २३
विश्वास-प्रस्तुतिः
वैश्वदेवी वोभयत्रापुरोडाशा २४
मूलम्
वैश्वदेवी वोभयत्रापुरोडाशा २४
विश्वास-प्रस्तुतिः
उभयानुगमने पुनराधेयं वा २५
मूलम्
उभयानुगमने पुनराधेयं वा २५
विश्वास-प्रस्तुतिः
भेदेनाप्युपपात् २६
मूलम्
भेदेनाप्युपपात् २६
विश्वास-प्रस्तुतिः
न सह प्रकृप्तेः २७
मूलम्
न सह प्रकृप्तेः २७