विश्वास-प्रस्तुतिः
तस्यै पयसा जुहोति १
मूलम्
तस्यै पयसा जुहोति १
विश्वास-प्रस्तुतिः
लोहितदोहे दक्षिणाग्निं परिश्रित्य व्युत्क्रामतेत्युक्त्वोष्णे भस्मनि रुद्रा य हुत्वा पूर्ववद्दानम् २
मूलम्
लोहितदोहे दक्षिणाग्निं परिश्रित्य व्युत्क्रामतेत्युक्त्वोष्णे भस्मनि रुद्रा य हुत्वा पूर्ववद्दानम् २
विश्वास-प्रस्तुतिः
हौम्यं गवि सद्रौ द्र म् ३
मूलम्
हौम्यं गवि सद्रौ द्र म् ३
विश्वास-प्रस्तुतिः
उपसृष्टं वायव्यम् ४
मूलम्
उपसृष्टं वायव्यम् ४
विश्वास-प्रस्तुतिः
दुह्यमानमाश्विनम् ५
मूलम्
दुह्यमानमाश्विनम् ५
विश्वास-प्रस्तुतिः
दुग्धं सौम्यम् ६
मूलम्
दुग्धं सौम्यम् ६
विश्वास-प्रस्तुतिः
अधिश्रितं वारुणम् ७
मूलम्
अधिश्रितं वारुणम् ७
विश्वास-प्रस्तुतिः
उदन्तं पौष्णम् ८
मूलम्
उदन्तं पौष्णम् ८
विश्वास-प्रस्तुतिः
विष्यन्दमानं मारुतम् ९
मूलम्
विष्यन्दमानं मारुतम् ९
विश्वास-प्रस्तुतिः
बिन्दुमत्सारस्वतम् १०
मूलम्
बिन्दुमत्सारस्वतम् १०
विश्वास-प्रस्तुतिः
शान्तं मैत्रम् ११
मूलम्
शान्तं मैत्रम् ११
विश्वास-प्रस्तुतिः
उद्वास्यमानं सवितुः १२
मूलम्
उद्वास्यमानं सवितुः १२
विश्वास-प्रस्तुतिः
उद्वासितमदितेः १३
मूलम्
उद्वासितमदितेः १३
विश्वास-प्रस्तुतिः
उन्नीयमानं वैश्वदेवम् १४
मूलम्
उन्नीयमानं वैश्वदेवम् १४
विश्वास-प्रस्तुतिः
उन्नीतं बार्हस्पत्यम् १५
मूलम्
उन्नीतं बार्हस्पत्यम् १५
विश्वास-प्रस्तुतिः
प्रह्रियमाणं धात्रम् १६
मूलम्
प्रह्रियमाणं धात्रम् १६
विश्वास-प्रस्तुतिः
प्रहृतं वैश्वकर्मणम् १७
मूलम्
प्रहृतं वैश्वकर्मणम् १७
विश्वास-प्रस्तुतिः
अन्तराग्नी वैश्वानराय १८
मूलम्
अन्तराग्नी वैश्वानराय १८
विश्वास-प्रस्तुतिः
उपसन्नं द्यावापृथिव्योः १९
मूलम्
उपसन्नं द्यावापृथिव्योः १९
विश्वास-प्रस्तुतिः
पूर्वाहुतिरिन्द्रा ग्न्योः २०
मूलम्
पूर्वाहुतिरिन्द्रा ग्न्योः २०
विश्वास-प्रस्तुतिः
उत्तरा प्रजापतेः २१
मूलम्
उत्तरा प्रजापतेः २१
विश्वास-प्रस्तुतिः
हुतमैन्द्र म् २२
मूलम्
हुतमैन्द्र म् २२
विश्वास-प्रस्तुतिः
यथाकालोपपाते तद्देवते तद्देवतं हुत्वा तद्वाऽतिदिश्यान्येन जुहुयात् २३
मूलम्
यथाकालोपपाते तद्देवते तद्देवतं हुत्वा तद्वाऽतिदिश्यान्येन जुहुयात् २३
विश्वास-प्रस्तुतिः
स्कन्देच्चेदस्कन्नमधित प्राजनीत्यभिमृश्य शेषेण जुहुयात् २४
मूलम्
स्कन्देच्चेदस्कन्नमधित प्राजनीत्यभिमृश्य शेषेण जुहुयात् २४
विश्वास-प्रस्तुतिः
भिद्येत चेदवापद्येत स्कन्नप्रायश्चित्तेनाभिमृश्य व्याहृतिभिश्चाद्भिरुपनिनीय कपालानि भस्मोद्वापे कुर्यात् २५
मूलम्
भिद्येत चेदवापद्येत स्कन्नप्रायश्चित्तेनाभिमृश्य व्याहृतिभिश्चाद्भिरुपनिनीय कपालानि भस्मोद्वापे कुर्यात् २५
विश्वास-प्रस्तुतिः
भुवपतय इति हाविर्यज्ञियम् २६
मूलम्
भुवपतय इति हाविर्यज्ञियम् २६
विश्वास-प्रस्तुतिः
देवान्दिवमगन्निति सोमे २७
मूलम्
देवान्दिवमगन्निति सोमे २७
विश्वास-प्रस्तुतिः
ययोरोजसेति वोदकेनोपसिञ्चेत् २८
मूलम्
ययोरोजसेति वोदकेनोपसिञ्चेत् २८
विश्वास-प्रस्तुतिः
उन्नीतसर्वस्कन्दनस्रुग्भेदयोस्तत्रैवासनम् २९
मूलम्
उन्नीतसर्वस्कन्दनस्रुग्भेदयोस्तत्रैवासनम् २९
विश्वास-प्रस्तुतिः
अन्यदुन्नीयान्योऽस्मै प्रयच्छेत्तेन होमः ३०
मूलम्
अन्यदुन्नीयान्योऽस्मै प्रयच्छेत्तेन होमः ३०