०१

(प्रायश्चित्तानि)

विश्वास-प्रस्तुतिः

कर्मोपपाते प्रायश्चित्तं तत्कालम् १

मूलम्

कर्मोपपाते प्रायश्चित्तं तत्कालम् १

विश्वास-प्रस्तुतिः

चोदना वाऽकालशब्दात् २

मूलम्

चोदना वाऽकालशब्दात् २

विश्वास-प्रस्तुतिः

कालो वा प्रत्ययात् ३

मूलम्

कालो वा प्रत्ययात् ३

विश्वास-प्रस्तुतिः

महाव्याहृतिहोमोऽनादेशे ४

मूलम्

महाव्याहृतिहोमोऽनादेशे ४

विश्वास-प्रस्तुतिः

हौत्रिके भूरिति गार्हपत्ये ५

मूलम्

हौत्रिके भूरिति गार्हपत्ये ५

विश्वास-प्रस्तुतिः

दक्षिणाग्नावाध्वर्यवे भुव इति ६

मूलम्

दक्षिणाग्नावाध्वर्यवे भुव इति ६

विश्वास-प्रस्तुतिः

आग्नीध्रीये सोमे ७

मूलम्

आग्नीध्रीये सोमे ७

विश्वास-प्रस्तुतिः

स्वरित्यौद्गात्र आहवनीये ८

मूलम्

स्वरित्यौद्गात्र आहवनीये ८

विश्वास-प्रस्तुतिः

चतुर्गृहीतान्येतानि सर्वत्र ९

मूलम्

चतुर्गृहीतान्येतानि सर्वत्र ९

विश्वास-प्रस्तुतिः

सर्वप्रायश्चित्तं च पञ्चभिः प्रत्यृचम् १०

मूलम्

सर्वप्रायश्चित्तं च पञ्चभिः प्रत्यृचम् १०

विश्वास-प्रस्तुतिः

त्वन्नोऽअग्ने इति द्वाभ्याम् याश्चाग्नेऽस्यनभिशस्तिपाश्च सत्यमित्वमयाऽअसि । अया नो यज्ञं वहास्यया नो धेहि भेषजं स्वाहा ये ते शतं वरुण ये सहस्रं ये यज्ञियाः पाशा वितता महान्तः । तेभिर्नोऽअद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहोदुत्तममिति च ११

अविज्ञाते प्रतिमहाव्याहृति सर्वामिश्चतुर्थं सर्वप्रायश्चित्तं च १२

मूलम्

अविज्ञाते प्रतिमहाव्याहृति सर्वामिश्चतुर्थं सर्वप्रायश्चित्तं च १२

विश्वास-प्रस्तुतिः

अग्निहोत्री चेद्दुहोनोपविशेद्यजुषोत्थापनमेकऽउदस्थाद्देव्यदितिरायुर्यज्ञपतावधादिन्द्रा य कृण्वती भागं मित्राय वरुणाय चेति १३

मूलम्

अग्निहोत्री चेद्दुहोनोपविशेद्यजुषोत्थापनमेकऽउदस्थाद्देव्यदितिरायुर्यज्ञपतावधादिन्द्रा य कृण्वती भागं मित्राय वरुणाय चेति १३

विश्वास-प्रस्तुतिः

दुग्ध्वा ब्राह्मणायैनां दद्याद्यमनभ्यागमिष्यन्त्स्यात् १४

मूलम्

दुग्ध्वा ब्राह्मणायैनां दद्याद्यमनभ्यागमिष्यन्त्स्यात् १४

विश्वास-प्रस्तुतिः

दण्डेन वाऽनुपिष्योत्थाप्य वा दोहनम् १५

मूलम्

दण्डेन वाऽनुपिष्योत्थाप्य वा दोहनम् १५

विश्वास-प्रस्तुतिः

अदानं च १६

मूलम्

अदानं च १६

विश्वास-प्रस्तुतिः

अदुहानायामन्याम् १७

मूलम्

अदुहानायामन्याम् १७

विश्वास-प्रस्तुतिः

वाश्येत चेत्तृणान्यालुप्य ग्रासयेत्सूयवसाद्भगवति हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्तीति १८

मूलम्

वाश्येत चेत्तृणान्यालुप्य ग्रासयेत्सूयवसाद्भगवति हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्तीति १८