विश्वास-प्रस्तुतिः
तुरायणं वैशाखीशुक्लस्य पञ्चम्याम् १
मूलम्
तुरायणं वैशाखीशुक्लस्य पञ्चम्याम् १
विश्वास-प्रस्तुतिः
चैत्रस्य वा २
मूलम्
चैत्रस्य वा २
विश्वास-प्रस्तुतिः
प्रातराहुत्यन्तेऽदीक्षितो दीक्षारूपाण्यासजते तूष्णीं कृष्णाजिनादीनि ३
मूलम्
प्रातराहुत्यन्तेऽदीक्षितो दीक्षारूपाण्यासजते तूष्णीं कृष्णाजिनादीनि ३
विश्वास-प्रस्तुतिः
हवींषि निर्वपत्याग्नेयमैन्द्र वैश्वदेवं चरुं सवनकालेष्वेकैकम् ४
मूलम्
हवींषि निर्वपत्याग्नेयमैन्द्र वैश्वदेवं चरुं सवनकालेष्वेकैकम् ४
विश्वास-प्रस्तुतिः
तन्त्रेन वा ५
मूलम्
तन्त्रेन वा ५
विश्वास-प्रस्तुतिः
अन्वहम् ६
मूलम्
अन्वहम् ६
विश्वास-प्रस्तुतिः
वा हविःशेषभक्षः ७
मूलम्
वा हविःशेषभक्षः ७
विश्वास-प्रस्तुतिः
संवत्सरं यजते ८
मूलम्
संवत्सरं यजते ८
विश्वास-प्रस्तुतिः
अनियतोदकं दार्षद्वतवदवभृथादि ९
मूलम्
अनियतोदकं दार्षद्वतवदवभृथादि ९
विश्वास-प्रस्तुतिः
द्वादशाहविकल्पाः १०
मूलम्
द्वादशाहविकल्पाः १०
विश्वास-प्रस्तुतिः
सर्वाग्निष्टोमो भरतद्वादशाहः ११
मूलम्
सर्वाग्निष्टोमो भरतद्वादशाहः ११
विश्वास-प्रस्तुतिः
सङ्क्रमद्वादशाहे दशरात्रस्य त्र्यहप्रथमानि प्रथमस्त्र्यहः १२
मूलम्
सङ्क्रमद्वादशाहे दशरात्रस्य त्र्यहप्रथमानि प्रथमस्त्र्यहः १२
विश्वास-प्रस्तुतिः
त्र्यहद्वितीयानिः द्वितीयत्र्यहस्त्र्यहतृतीयानि तृतीयस्त्र्यहः १३
मूलम्
त्र्यहद्वितीयानिः द्वितीयत्र्यहस्त्र्यहतृतीयानि तृतीयस्त्र्यहः १३
विश्वास-प्रस्तुतिः
प्रकृत्या दशमम् १४
मूलम्
प्रकृत्या दशमम् १४
विश्वास-प्रस्तुतिः
अग्निष्टुदिन्द्र स्तुत्सूर्यस्तुद्वैश्वदेवस्तुतां वैकैकेन १५
मूलम्
अग्निष्टुदिन्द्र स्तुत्सूर्यस्तुद्वैश्वदेवस्तुतां वैकैकेन १५
विश्वास-प्रस्तुतिः
त्रिकद्रुकैर्वाऽहीनैकाहानां वैकैकेनाप्तोर्यामराजसूयवर्जम् १६
मूलम्
त्रिकद्रुकैर्वाऽहीनैकाहानां वैकैकेनाप्तोर्यामराजसूयवर्जम् १६
विश्वास-प्रस्तुतिः
गोऽआयुर्भ्यां वा १७
मूलम्
गोऽआयुर्भ्यां वा १७
विश्वास-प्रस्तुतिः
अभ्यासानुपपत्तौ ज्योतिष्टोमः पूरणः १८
मूलम्
अभ्यासानुपपत्तौ ज्योतिष्टोमः पूरणः १८
विश्वास-प्रस्तुतिः
यथोक्तस्य स्तोत्रं स्तोत्रियं वर्चं वा साम वा यजुर्वाऽहर्वाऽन्यत्कृत्वा यजेत १९
मूलम्
यथोक्तस्य स्तोत्रं स्तोत्रियं वर्चं वा साम वा यजुर्वाऽहर्वाऽन्यत्कृत्वा यजेत १९
विश्वास-प्रस्तुतिः
व्यत्यासमन्ततः २०
मूलम्
व्यत्यासमन्ततः २०
विश्वास-प्रस्तुतिः
नास्त्येषामन्तः २१
मूलम्
नास्त्येषामन्तः २१
विश्वास-प्रस्तुतिः
अयनमुत्सर्गिणां गवामयनविकल्पाः २२
मूलम्
अयनमुत्सर्गिणां गवामयनविकल्पाः २२
विश्वास-प्रस्तुतिः
पञ्चोक्थ्यांस्त्रीनभिप्लवानुपेत्य चतुर्थं चतुरुक्थ्यमुपयान्ति २३
मूलम्
पञ्चोक्थ्यांस्त्रीनभिप्लवानुपेत्य चतुर्थं चतुरुक्थ्यमुपयान्ति २३
विश्वास-प्रस्तुतिः
स्तोमोत्सर्गो वैकस्याह्नः २४
मूलम्
स्तोमोत्सर्गो वैकस्याह्नः २४
विश्वास-प्रस्तुतिः
पशोर्वा सवनविधिक्रिया २५
मूलम्
पशोर्वा सवनविधिक्रिया २५
विश्वास-प्रस्तुतिः
अनारम्भो वा २६
मूलम्
अनारम्भो वा २६
विश्वास-प्रस्तुतिः
तापश्चितविकल्पः २७
मूलम्
तापश्चितविकल्पः २७
विश्वास-प्रस्तुतिः
अयमेव प्रायणीयोऽतिरात्रः सर्वं सत्त्रं स्याद्यथोक्तपृष्ठः २८
मूलम्
अयमेव प्रायणीयोऽतिरात्रः सर्वं सत्त्रं स्याद्यथोक्तपृष्ठः २८
विश्वास-प्रस्तुतिः
अथापरम् २९
मूलम्
अथापरम् २९
विश्वास-प्रस्तुतिः
ज्योतिष्टोमाश्चत्वारोऽभिजित्तैः षण्मासान् ३०
मूलम्
ज्योतिष्टोमाश्चत्वारोऽभिजित्तैः षण्मासान् ३०
विश्वास-प्रस्तुतिः
व्रतं विषुवत्स्थाने ३१
मूलम्
व्रतं विषुवत्स्थाने ३१
विश्वास-प्रस्तुतिः
विश्वजिज्ज्योतिष्टोमाश्चत्वारस्तैरुत्तमान् ३२
मूलम्
विश्वजिज्ज्योतिष्टोमाश्चत्वारस्तैरुत्तमान् ३२
विश्वास-प्रस्तुतिः
एतत्पुरुषस्य नारायणस्योत्तममेतत्पुरुषस्य नारायणस्योत्तमम् ३३
मूलम्
एतत्पुरुषस्य नारायणस्योत्तममेतत्पुरुषस्य नारायणस्योत्तमम् ३३