विश्वास-प्रस्तुतिः
यथास्थितं यज्ञाङ्गानि हरन्ति १
मूलम्
यथास्थितं यज्ञाङ्गानि हरन्ति १
विश्वास-प्रस्तुतिः
पांसूनादाय भौमानां यथादेशं निवपन्ति २
मूलम्
पांसूनादाय भौमानां यथादेशं निवपन्ति २
विश्वास-प्रस्तुतिः
यजनीययोरह्नोर्गोऽआयुषी ३
मूलम्
यजनीययोरह्नोर्गोऽआयुषी ३
विश्वास-प्रस्तुतिः
पर्वान्तरेषु दर्शपूर्णमासौ ४
मूलम्
पर्वान्तरेषु दर्शपूर्णमासौ ४
विश्वास-प्रस्तुतिः
शम्याप्रासे शम्याप्रासे वसन्तो यजमानाश्च यन्ति दक्षिणेन तीरेण ५
मूलम्
शम्याप्रासे शम्याप्रासे वसन्तो यजमानाश्च यन्ति दक्षिणेन तीरेण ५
विश्वास-प्रस्तुतिः
दृषद्वत्यप्ययेऽपोनप्त्रियश्चरुः ६
मूलम्
दृषद्वत्यप्ययेऽपोनप्त्रियश्चरुः ६
विश्वास-प्रस्तुतिः
अग्नये कामायेष्टिः ह्प्लक्षे प्रास्रवणे ७
मूलम्
अग्नये कामायेष्टिः ह्प्लक्षे प्रास्रवणे ७
विश्वास-प्रस्तुतिः
तस्यामश्वपुरुष्यौ धेनुके दद्युः ८
मूलम्
तस्यामश्वपुरुष्यौ धेनुके दद्युः ८
विश्वास-प्रस्तुतिः
अवशिष्टं चैके यज्ञोपकरणमुदयनीयान्ते ९
मूलम्
अवशिष्टं चैके यज्ञोपकरणमुदयनीयान्ते ९
विश्वास-प्रस्तुतिः
अवभृथमभ्यवयन्ति यमुनां कारपचवं प्रति १०
मूलम्
अवभृथमभ्यवयन्ति यमुनां कारपचवं प्रति १०
विश्वास-प्रस्तुतिः
पुरस्ताद्वाऽवभृथादग्नये कामाय ११
मूलम्
पुरस्ताद्वाऽवभृथादग्नये कामाय ११
विश्वास-प्रस्तुतिः
उदवसानीयान्ते वा १२
मूलम्
उदवसानीयान्ते वा १२
विश्वास-प्रस्तुतिः
यथार्थं विप्रव्रजेयुः १३
मूलम्
यथार्थं विप्रव्रजेयुः १३
विश्वास-प्रस्तुतिः
अपृष्ठशमनानि सारस्वतानि १४
मूलम्
अपृष्ठशमनानि सारस्वतानि १४
विश्वास-प्रस्तुतिः
त्रीण्येषां साम्युथानान्यतिरात्रैः सहस्रपूरणगृहपतिमरणसर्वज्यान्यः १५
मूलम्
त्रीण्येषां साम्युथानान्यतिरात्रैः सहस्रपूरणगृहपतिमरणसर्वज्यान्यः १५
विश्वास-प्रस्तुतिः
सहस्रपूरणे गौः १६
मूलम्
सहस्रपूरणे गौः १६
विश्वास-प्रस्तुतिः
तदेव दत्त्वा १७
मूलम्
तदेव दत्त्वा १७
विश्वास-प्रस्तुतिः
आयुर्गृहपतिमरणे १८
मूलम्
आयुर्गृहपतिमरणे १८
विश्वास-प्रस्तुतिः
सर्वज्यान्यां विश्वजित् १९
मूलम्
सर्वज्यान्यां विश्वजित् १९
विश्वास-प्रस्तुतिः
ज्योतिष्टोमो वा सर्वेषाम् २०
मूलम्
ज्योतिष्टोमो वा सर्वेषाम् २०
विश्वास-प्रस्तुतिः
नावभृथं सरस्वत्याम् २१
मूलम्
नावभृथं सरस्वत्याम् २१
विश्वास-प्रस्तुतिः
परिपार्श्वेषूदकेषु २२
मूलम्
परिपार्श्वेषूदकेषु २२
विश्वास-प्रस्तुतिः
असत्सूद्धृत्य ततः २३
मूलम्
असत्सूद्धृत्य ततः २३
विश्वास-प्रस्तुतिः
द्वितीये दृतिवातवतोरयनस्याहनी त्रिवृत्पञ्चदशस्तोमे पर्वान्तरेषु व्यत्यासम् २४
मूलम्
द्वितीये दृतिवातवतोरयनस्याहनी त्रिवृत्पञ्चदशस्तोमे पर्वान्तरेषु व्यत्यासम् २४
विश्वास-प्रस्तुतिः
तयोश्चेदसमाप्तयोरागच्छेद्यजनीयकालस्तमुपेत्य शेषमनु समापयेयुः २५
मूलम्
तयोश्चेदसमाप्तयोरागच्छेद्यजनीयकालस्तमुपेत्य शेषमनु समापयेयुः २५
विश्वास-प्रस्तुतिः
शुक्लपक्षश्चेत्त्रिवृदग्निष्टोम इत्यके पञ्चदश उक्थ्यः कृष्णे २६
मूलम्
शुक्लपक्षश्चेत्त्रिवृदग्निष्टोम इत्यके पञ्चदश उक्थ्यः कृष्णे २६
विश्वास-प्रस्तुतिः
तृतीये यजनीययोरह्नोरभिजिद्विश्वजितौ २७
मूलम्
तृतीये यजनीययोरह्नोरभिजिद्विश्वजितौ २७
विश्वास-प्रस्तुतिः
पर्वान्तरेषु त्रिकद्रुकाः २८
मूलम्
पर्वान्तरेषु त्रिकद्रुकाः २८
विश्वास-प्रस्तुतिः
पूर्ववदनुसमापनम् २९
मूलम्
पूर्ववदनुसमापनम् २९
विश्वास-प्रस्तुतिः
चार्षद्वतमृत्विगाचार्ययोरन्यतरस्य गा रक्षेत्संवत्सरम् ३०
मूलम्
चार्षद्वतमृत्विगाचार्ययोरन्यतरस्य गा रक्षेत्संवत्सरम् ३०
विश्वास-प्रस्तुतिः
अपरं व्यर्णे नैतन्धवेऽग्निमिन्धीत ३१
मूलम्
अपरं व्यर्णे नैतन्धवेऽग्निमिन्धीत ३१
विश्वास-प्रस्तुतिः
कुरुक्षेत्रे परिणहिस्थलेऽग्न्याधेयमन्वारम्भणीयान्तं भवति ३२
मूलम्
कुरुक्षेत्रे परिणहिस्थलेऽग्न्याधेयमन्वारम्भणीयान्तं भवति ३२
विश्वास-प्रस्तुतिः
दर्शपूर्णमासान्तं वा ३३
मूलम्
दर्शपूर्णमासान्तं वा ३३
विश्वास-प्रस्तुतिः
आहिताग्निश्चेद व्यर्णेऽग्निहोत्रमेव जुहुयात् ३४
मूलम्
आहिताग्निश्चेद व्यर्णेऽग्निहोत्रमेव जुहुयात् ३४
विश्वास-प्रस्तुतिः
पुरोडाशोऽग्नये तेन यजमानः पूर्ववत् ३५
मूलम्
पुरोडाशोऽग्नये तेन यजमानः पूर्ववत् ३५
विश्वास-प्रस्तुतिः
एत्य च दृषद्वतीतीरेणावभृथमभ्यवयन्ति यमुनां त्रिप्लक्षावहरणं प्रति ३६
मूलम्
एत्य च दृषद्वतीतीरेणावभृथमभ्यवयन्ति यमुनां त्रिप्लक्षावहरणं प्रति ३६
विश्वास-प्रस्तुतिः
स्वयमेव सामगानम् ३७
मूलम्
स्वयमेव सामगानम् ३७
विश्वास-प्रस्तुतिः
आप्लवनमात्रं वा ३८
मूलम्
आप्लवनमात्रं वा ३८
विश्वास-प्रस्तुतिः
उदेत्यैतयैवेष्ट्या यजेत ३९
मूलम्
उदेत्यैतयैवेष्ट्या यजेत ३९
विश्वास-प्रस्तुतिः
पशुना वा तद्देवतेन ४०
मूलम्
पशुना वा तद्देवतेन ४०
विश्वास-प्रस्तुतिः
अग्निष्टोमेन वा ४१
मूलम्
अग्निष्टोमेन वा ४१