विश्वास-प्रस्तुतिः
तापश्चितं दीक्षाः संवत्सरमुपसदश्च तथा सुत्याः १
मूलम्
तापश्चितं दीक्षाः संवत्सरमुपसदश्च तथा सुत्याः १
विश्वास-प्रस्तुतिः
गवामयनेनेयुः २
मूलम्
गवामयनेनेयुः २
विश्वास-प्रस्तुतिः
अग्निष्टोमेन वा ३
मूलम्
अग्निष्टोमेन वा ३
विश्वास-प्रस्तुतिः
सर्वजिदभिजिद्विश्वजितां वैकैकेन ४
मूलम्
सर्वजिदभिजिद्विश्वजितां वैकैकेन ४
विश्वास-प्रस्तुतिः
त्रिकद्रुकैर्वा ५
मूलम्
त्रिकद्रुकैर्वा ५
विश्वास-प्रस्तुतिः
महातापश्चितं त्रिषंवत्सरोपसत्कम् ६
मूलम्
महातापश्चितं त्रिषंवत्सरोपसत्कम् ६
विश्वास-प्रस्तुतिः
तुल्यमन्यत् ७
मूलम्
तुल्यमन्यत् ७
विश्वास-प्रस्तुतिः
क्षुल्लकतापश्चिते चतुर्मासशो दीक्षोपसत्सुत्यानि ८
मूलम्
क्षुल्लकतापश्चिते चतुर्मासशो दीक्षोपसत्सुत्यानि ८
विश्वास-प्रस्तुतिः
विषुवन्तमभितो गवामयनपक्षयोः प्रथमोत्तमौ प्रथमोत्तमौ ९
मूलम्
विषुवन्तमभितो गवामयनपक्षयोः प्रथमोत्तमौ प्रथमोत्तमौ ९
विश्वास-प्रस्तुतिः
सहस्रसाव्यमग्नेः १०
मूलम्
सहस्रसाव्यमग्नेः १०
विश्वास-प्रस्तुतिः
अभिप्लवानां चतुःषष्टं शतं चतुरहश्च ११
मूलम्
अभिप्लवानां चतुःषष्टं शतं चतुरहश्च ११
विश्वास-प्रस्तुतिः
त्रिषंवत्सरं षष्टिदीक्षम् १२
मूलम्
त्रिषंवत्सरं षष्टिदीक्षम् १२
विश्वास-प्रस्तुतिः
यथाशक्ति वा १३
मूलम्
यथाशक्ति वा १३
विश्वास-प्रस्तुतिः
आदितस्त्रयः संवत्सराः सौत्याः १४
मूलम्
आदितस्त्रयः संवत्सराः सौत्याः १४
विश्वास-प्रस्तुतिः
महासत्त्राण्यतः १५
मूलम्
महासत्त्राण्यतः १५
विश्वास-प्रस्तुतिः
चतुर्भागं चतुर्भागमेकैकस्य ज्यौतिष्टोमिकैः स्तोमैः १६
मूलम्
चतुर्भागं चतुर्भागमेकैकस्य ज्यौतिष्टोमिकैः स्तोमैः १६
विश्वास-प्रस्तुतिः
तेष्वतिरात्रविषुवन्तः स्युर्वा न वा १७
मूलम्
तेष्वतिरात्रविषुवन्तः स्युर्वा न वा १७
विश्वास-प्रस्तुतिः
आद्यन्तयोर्वाऽतिरात्रौ विषुवांश्च मध्ये मध्ये १८
मूलम्
आद्यन्तयोर्वाऽतिरात्रौ विषुवांश्च मध्ये मध्ये १८
विश्वास-प्रस्तुतिः
द्वादशसंवत्सरं प्रजापतेः १९
मूलम्
द्वादशसंवत्सरं प्रजापतेः १९
विश्वास-प्रस्तुतिः
षट्त्रिंशत्संवत्सरं शाक्त्यानां तरसमयाः पुरोडाशाः २०
मूलम्
षट्त्रिंशत्संवत्सरं शाक्त्यानां तरसमयाः पुरोडाशाः २०
विश्वास-प्रस्तुतिः
सर्वत्राविशेषात् २१
मूलम्
सर्वत्राविशेषात् २१
विश्वास-प्रस्तुतिः
सवनीया वा बहुश्रुतेः २२
मूलम्
सवनीया वा बहुश्रुतेः २२
विश्वास-प्रस्तुतिः
शतसंवत्सरं साध्यानाम् २३
मूलम्
शतसंवत्सरं साध्यानाम् २३
विश्वास-प्रस्तुतिः
सहस्रसंवत्सरं विश्वसृजाम् २४
मूलम्
सहस्रसंवत्सरं विश्वसृजाम् २४
विश्वास-प्रस्तुतिः
यात्सत्राणि सारस्वतानि २७
मूलम्
यात्सत्राणि सारस्वतानि २७
विश्वास-प्रस्तुतिः
सदोहविर्द्धाप्ताग्नीध्राणि चक्रीवन्ति २६
मूलम्
सदोहविर्द्धाप्ताग्नीध्राणि चक्रीवन्ति २६
विश्वास-प्रस्तुतिः
उलूखलबुघ्नो यूपः प्रकृष्यः २७
मूलम्
उलूखलबुघ्नो यूपः प्रकृष्यः २७
विश्वास-प्रस्तुतिः
वत्सतरीशतमृषभाधिकं गर्भिणीनामुत्सृजन्ति सहस्रपूरणाय २८
मूलम्
वत्सतरीशतमृषभाधिकं गर्भिणीनामुत्सृजन्ति सहस्रपूरणाय २८
विश्वास-प्रस्तुतिः
उपकिरन्त्युपरवस्थानेषु न खनन्ति २९
मूलम्
उपकिरन्त्युपरवस्थानेषु न खनन्ति २९
विश्वास-प्रस्तुतिः
शुक्लपक्षसप्तम्यां दीक्षा सरस्वतीविनशने ३०
मूलम्
शुक्लपक्षसप्तम्यां दीक्षा सरस्वतीविनशने ३०
विश्वास-प्रस्तुतिः
द्वादशाहवद्दीक्षोपसदः ३१
मूलम्
द्वादशाहवद्दीक्षोपसदः ३१
विश्वास-प्रस्तुतिः
अषोडशिकावतिरात्रौ ३२
मूलम्
अषोडशिकावतिरात्रौ ३२
विश्वास-प्रस्तुतिः
तत्रैव प्रायणीयोऽतिरात्रः ३३
मूलम्
तत्रैव प्रायणीयोऽतिरात्रः ३३
विश्वास-प्रस्तुतिः
सान्नायञ्च तस्मिन् ३४
मूलम्
सान्नायञ्च तस्मिन् ३४
विश्वास-प्रस्तुतिः
सं स्थितेऽध्वर्युराहवनीयसमीपे स्थित्वाभ्यध्वं शम्यां प्रास्यति तद्गार्हपत्यस्थानम् ३५
मूलम्
सं स्थितेऽध्वर्युराहवनीयसमीपे स्थित्वाभ्यध्वं शम्यां प्रास्यति तद्गार्हपत्यस्थानम् ३५
विश्वास-प्रस्तुतिः
यथोक्तमाहवनीयस्य ३६
मूलम्
यथोक्तमाहवनीयस्य ३६