विश्वास-प्रस्तुतिः
कौसुरुबिन्दः प्रथमस्त्र्यह उक्थ्यौ तूत्तरौ १
मूलम्
कौसुरुबिन्दः प्रथमस्त्र्यह उक्थ्यौ तूत्तरौ १
विश्वास-प्रस्तुतिः
षोडशिदशमा उक्थ्याः २
मूलम्
षोडशिदशमा उक्थ्याः २
विश्वास-प्रस्तुतिः
पृष्ठ्यं चाभितो द्वादश द्वादश ३
मूलम्
पृष्ठ्यं चाभितो द्वादश द्वादश ३
विश्वास-प्रस्तुतिः
वर्गान्तरेष्वतिरात्राः ४
मूलम्
वर्गान्तरेष्वतिरात्राः ४
विश्वास-प्रस्तुतिः
यमातिरात्रम् ५
मूलम्
यमातिरात्रम् ५
विश्वास-प्रस्तुतिः
अभिप्लवौ गोआयुषी अतिरात्रावभिप्लवावभिजिद्विश्वजितावतिरात्रावभिप्लवः सर्वस्तोमनवसप्तदशावतिरात्रौ ६
मूलम्
अभिप्लवौ गोआयुषी अतिरात्रावभिप्लवावभिजिद्विश्वजितावतिरात्रावभिप्लवः सर्वस्तोमनवसप्तदशावतिरात्रौ ६
विश्वास-प्रस्तुतिः
आञ्जनाभ्यञ्जनीयेऽभिप्लवाः षट् ७
मूलम्
आञ्जनाभ्यञ्जनीयेऽभिप्लवाः षट् ७
विश्वास-प्रस्तुतिः
चतुर्भ्यः सर्वस्तोमोऽतिरात्रः ८
मूलम्
चतुर्भ्यः सर्वस्तोमोऽतिरात्रः ८
विश्वास-प्रस्तुतिः
तस्मिन्नुपसत्सु सर्पिर्विपचेयुर्गार्हपत्ये गुल्गुलुसुगन्धितेजनपीतुदारुभिः ९
मूलम्
तस्मिन्नुपसत्सु सर्पिर्विपचेयुर्गार्हपत्ये गुल्गुलुसुगन्धितेजनपीतुदारुभिः ९
विश्वास-प्रस्तुतिः
यथासवनन्तैः सवनेष्वाञ्जनाभ्यञ्जने कुर्वीरन्नाग्नीध्रेऽहरहः १०
मूलम्
यथासवनन्तैः सवनेष्वाञ्जनाभ्यञ्जने कुर्वीरन्नाग्नीध्रेऽहरहः १०
विश्वास-प्रस्तुतिः
पृष्ठ्ये वा ११
मूलम्
पृष्ठ्ये वा ११
विश्वास-प्रस्तुतिः
सवनमुखीयेषु भक्षयिष्यन्तो वा १२
मूलम्
सवनमुखीयेषु भक्षयिष्यन्तो वा १२
विश्वास-प्रस्तुतिः
य आत्मानं नैव जानीरंस्तेषामेतत् १३
मूलम्
य आत्मानं नैव जानीरंस्तेषामेतत् १३
विश्वास-प्रस्तुतिः
संवत्सरसम्मिते चतुर्विंशमहः १४
मूलम्
संवत्सरसम्मिते चतुर्विंशमहः १४
विश्वास-प्रस्तुतिः
अभिप्लवाश्चत्वारः १५
मूलम्
अभिप्लवाश्चत्वारः १५
विश्वास-प्रस्तुतिः
गोआयुषी त्रिभ्यो विषुवन्मध्यो नवरात्रः १६
मूलम्
गोआयुषी त्रिभ्यो विषुवन्मध्यो नवरात्रः १६
विश्वास-प्रस्तुतिः
एकषष्टिरात्रे पृष्ठ्यो नवरात्रमभितः १७
मूलम्
एकषष्टिरात्रे पृष्ठ्यो नवरात्रमभितः १७
विश्वास-प्रस्तुतिः
प्रतिलोमः परः १८
मूलम्
प्रतिलोमः परः १८
विश्वास-प्रस्तुतिः
सवितुः कुभः १९
मूलम्
सवितुः कुभः १९
विश्वास-प्रस्तुतिः
नवरात्राश्चत्वारः २०
मूलम्
नवरात्राश्चत्वारः २०
विश्वास-प्रस्तुतिः
अग्निष्टोमाः प्रथमसप्तमोत्तमा नववर्गाणामुक्थ्या इतरे २१
मूलम्
अग्निष्टोमाः प्रथमसप्तमोत्तमा नववर्गाणामुक्थ्या इतरे २१
विश्वास-प्रस्तुतिः
परे षडभिप्लवे २२
मूलम्
परे षडभिप्लवे २२
विश्वास-प्रस्तुतिः
पूर्वस्य चतुर्भ्यो व्रतम् २३
मूलम्
पूर्वस्य चतुर्भ्यो व्रतम् २३
विश्वास-प्रस्तुतिः
प्रजातिकामानामेतत् २४
मूलम्
प्रजातिकामानामेतत् २४
विश्वास-प्रस्तुतिः
प्रकृतिविहितं शतरात्रं चतुर्दशाभिप्लवं चतुरहश्च २५
मूलम्
प्रकृतिविहितं शतरात्रं चतुर्दशाभिप्लवं चतुरहश्च २५
विश्वास-प्रस्तुतिः
सदोहविर्धानानि चक्रीवन्ति २६
मूलम्
सदोहविर्धानानि चक्रीवन्ति २६
विश्वास-प्रस्तुतिः
अभिप्रयायमभिषुण्वन्ति देशानुपरोधेन २७
मूलम्
अभिप्रयायमभिषुण्वन्ति देशानुपरोधेन २७
विश्वास-प्रस्तुतिः
अहरहरभिप्लवेषु त्रिकद्रुकेषु वा २८
मूलम्
अहरहरभिप्लवेषु त्रिकद्रुकेषु वा २८
विश्वास-प्रस्तुतिः
अभिप्लवाभ्यासेनाभिपूरणम् २९
मूलम्
अभिप्लवाभ्यासेनाभिपूरणम् २९
विश्वास-प्रस्तुतिः
सकृत्प्रयोगी दशरात्रः ३०
मूलम्
सकृत्प्रयोगी दशरात्रः ३०
विश्वास-प्रस्तुतिः
व्रतवन्ति सर्वजिद्दीक्षाणि । सप्तदशरात्रादीनि त्रिंशदन्तान्येक एकान्नपञ्चाशद्रा त्रे चाष्टादशदीक्षाणि पर्णमासीप्रक्रमाणि ३१
मूलम्
व्रतवन्ति सर्वजिद्दीक्षाणि । सप्तदशरात्रादीनि त्रिंशदन्तान्येक एकान्नपञ्चाशद्रा त्रे चाष्टादशदीक्षाणि पर्णमासीप्रक्रमाणि ३१
विश्वास-प्रस्तुतिः
शतातिरात्रेऽहानि शतरात्रसामान्यात् ३२
मूलम्
शतातिरात्रेऽहानि शतरात्रसामान्यात् ३२
विश्वास-प्रस्तुतिः
द्वादशाहाद्यं वा तत्प्रकृतेः ३३
मूलम्
द्वादशाहाद्यं वा तत्प्रकृतेः ३३
विश्वास-प्रस्तुतिः
शताग्निष्टोमे शतोक्थ्ये च ३४
मूलम्
शताग्निष्टोमे शतोक्थ्ये च ३४
विश्वास-प्रस्तुतिः
आश्विनस्याग्नेयान्ते प्रतिप्रस्थास्ता व्युत्क्रामतादि कृत्वा मैवावरुणाय प्रातरनुवाकमुपाकृत्यान्तर्यामं हुत्वा प्रपीड्य पवित्रं द्रो णकलशे निदधाति ३५
मूलम्
आश्विनस्याग्नेयान्ते प्रतिप्रस्थास्ता व्युत्क्रामतादि कृत्वा मैवावरुणाय प्रातरनुवाकमुपाकृत्यान्तर्यामं हुत्वा प्रपीड्य पवित्रं द्रो णकलशे निदधाति ३५
विश्वास-प्रस्तुतिः
सशषं होतृचमसम् ३६
मूलम्
सशषं होतृचमसम् ३६
विश्वास-प्रस्तुतिः
तिरोऽह्न्यादि करोति पूर्वस्याह्नः ३७
मूलम्
तिरोऽह्न्यादि करोति पूर्वस्याह्नः ३७
विश्वास-प्रस्तुतिः
ग्रहग्रहणाद्या विप्प्रुड्ढोमात्कृवा ३८
मूलम्
ग्रहग्रहणाद्या विप्प्रुड्ढोमात्कृवा ३८