विश्वास-प्रस्तुतिः

द्व्यहास्त्रयः १

मूलम्

द्व्यहास्त्रयः १

विश्वास-प्रस्तुतिः

अषोडशिकावतिरात्रा उत्तरयोः २

मूलम्

अषोडशिकावतिरात्रा उत्तरयोः २

विश्वास-प्रस्तुतिः

आङ्गिरसचैत्ररथकापिवनाः ३

मूलम्

आङ्गिरसचैत्ररथकापिवनाः ३

विश्वास-प्रस्तुतिः

द्वितीयमुक्थ्यपूर्वमेके ४

मूलम्

द्वितीयमुक्थ्यपूर्वमेके ४

विश्वास-प्रस्तुतिः

प्रथमेन यजेत यः पौण्यो हीन इव स्यात् ५

मूलम्

प्रथमेन यजेत यः पौण्यो हीन इव स्यात् ५

विश्वास-प्रस्तुतिः

द्वितीयेन प्रजाकामः ६

मूलम्

द्वितीयेन प्रजाकामः ६

विश्वास-प्रस्तुतिः

तृतीयेन स्वर्गकामः पशुकामो वा ७

मूलम्

तृतीयेन स्वर्गकामः पशुकामो वा ७

विश्वास-प्रस्तुतिः

त्र्यहाः पञ्च ८

मूलम्

त्र्यहाः पञ्च ८

विश्वास-प्रस्तुतिः

गर्गबैदछन्दोमान्तर्वसुपराकाः ९

मूलम्

गर्गबैदछन्दोमान्तर्वसुपराकाः ९

विश्वास-प्रस्तुतिः

द्वितीय त्रिवृतोऽतिरात्राः सर्वे राज्यकामस्य १०

मूलम्

द्वितीय त्रिवृतोऽतिरात्राः सर्वे राज्यकामस्य १०

विश्वास-प्रस्तुतिः

अन्तर्वसुः पशुकामस्य ११

मूलम्

अन्तर्वसुः पशुकामस्य ११

विश्वास-प्रस्तुतिः

पराकः स्वर्गकामस्य १२

मूलम्

पराकः स्वर्गकामस्य १२

विश्वास-प्रस्तुतिः

चतुरहाश्चत्वारः १३

मूलम्

चतुरहाश्चत्वारः १३

विश्वास-प्रस्तुतिः

अत्रिवचतुर्वीरजामदग्नवसिष्ठसंसर्पविश्वामित्रा १४

मूलम्

अत्रिवचतुर्वीरजामदग्नवसिष्ठसंसर्पविश्वामित्रा १४

विश्वास-प्रस्तुतिः

जामदग्नो विंशतिदीक्षः पुष्टिकामस्य १५

मूलम्

जामदग्नो विंशतिदीक्षः पुष्टिकामस्य १५

विश्वास-प्रस्तुतिः

उपसदः पुरोडाशिन्यः १६

मूलम्

उपसदः पुरोडाशिन्यः १६

विश्वास-प्रस्तुतिः

अनूपसदं जुहोति १७

मूलम्

अनूपसदं जुहोति १७

विश्वास-प्रस्तुतिः

आज्यधर्माः स्थानापत्तेः १८

मूलम्

आज्यधर्माः स्थानापत्तेः १८

विश्वास-प्रस्तुतिः

औषधधर्माः वा द्र व्यसामान्यात् १९

मूलम्

औषधधर्माः वा द्र व्यसामान्यात् १९

विश्वास-प्रस्तुतिः

अनुहोमाश्च पुरोडाशाः २०

मूलम्

अनुहोमाश्च पुरोडाशाः २०

विश्वास-प्रस्तुतिः

प्रत्युपसदसेकोच्चयेन कपालान्येककपालप्रभृतीनामाग्नेयाश्विनवैष्णवसौम्यसावित्रधात्रमारुतबार्हस्पत्यमैत्रवारुणैन्द्र वैश्वदेवाः २१

मूलम्

प्रत्युपसदसेकोच्चयेन कपालान्येककपालप्रभृतीनामाग्नेयाश्विनवैष्णवसौम्यसावित्रधात्रमारुतबार्हस्पत्यमैत्रवारुणैन्द्र वैश्वदेवाः २१