(अहीनसोमाः)
विश्वास-प्रस्तुतिः
द्वादशोपसत्का अहीना मासापवर्गाः १
मूलम्
द्वादशोपसत्का अहीना मासापवर्गाः १
विश्वास-प्रस्तुतिः
दीक्षाः सुत्योपसच्छेषेण २
मूलम्
दीक्षाः सुत्योपसच्छेषेण २
विश्वास-प्रस्तुतिः
द्व्यहप्रभृतयो द्वादशाहपर्यन्ताः ३
मूलम्
द्व्यहप्रभृतयो द्वादशाहपर्यन्ताः ३
विश्वास-प्रस्तुतिः
तत्राऽम्नानादतिरात्रांश्चैके ४
मूलम्
तत्राऽम्नानादतिरात्रांश्चैके ४
विश्वास-प्रस्तुतिः
दाशरात्रिकाण्यहानि द्व्यहादिष्वेकोच्चयेन तद्गुणदर्शनात् ५
मूलम्
दाशरात्रिकाण्यहानि द्व्यहादिष्वेकोच्चयेन तद्गुणदर्शनात् ५
विश्वास-प्रस्तुतिः
सहस्रदक्षिणाः ६
मूलम्
सहस्रदक्षिणाः ६
विश्वास-प्रस्तुतिः
चतूरात्रादिष्वधिकम् ७
मूलम्
चतूरात्रादिष्वधिकम् ७
विश्वास-प्रस्तुतिः
प्राकृतं वा प्रत्यहम् ८
मूलम्
प्राकृतं वा प्रत्यहम् ८
विश्वास-प्रस्तुतिः
पौण्डरीकेऽयुतम् ९
मूलम्
पौण्डरीकेऽयुतम् ९
विश्वास-प्रस्तुतिः
समविभक्ताः प्रत्यहं ददाति १०
मूलम्
समविभक्ताः प्रत्यहं ददाति १०
विश्वास-प्रस्तुतिः
अन्त्येऽहन्यधिकाः त्रयोदशातिरात्राः १२
मूलम्
अन्त्येऽहन्यधिकाः त्रयोदशातिरात्राः १२
विश्वास-प्रस्तुतिः
चत्वारोऽषोडशिकाः प्रथमाः १३
मूलम्
चत्वारोऽषोडशिकाः प्रथमाः १३
विश्वास-प्रस्तुतिः
प्रजातिकामस्य नवसप्तदशः १४
मूलम्
प्रजातिकामस्य नवसप्तदशः १४
विश्वास-प्रस्तुतिः
ज्येष्ठस्य ज्यैष्ठिनेयस्य विषुवान् १५
मूलम्
ज्येष्ठस्य ज्यैष्ठिनेयस्य विषुवान् १५
विश्वास-प्रस्तुतिः
गौर्भ्रातृव्यवतः १६
मूलम्
गौर्भ्रातृव्यवतः १६
विश्वास-प्रस्तुतिः
स्वर्गकामस्याऽऽयुः १७
मूलम्
स्वर्गकामस्याऽऽयुः १७
विश्वास-प्रस्तुतिः
आमयाविनो वा १८
मूलम्
आमयाविनो वा १८
विश्वास-प्रस्तुतिः
ज्योतिष्टोमविश्वजित्त्रिवृत्पञ्चदशसप्तदशैकविंशा यथासङ्ख्यामृद्धिपशुब्रह्मवर्चसवीर्यान्नाद्यप्रतिष्ठाकामानाम् १९
मूलम्
ज्योतिष्टोमविश्वजित्त्रिवृत्पञ्चदशसप्तदशैकविंशा यथासङ्ख्यामृद्धिपशुब्रह्मवर्चसवीर्यान्नाद्यप्रतिष्ठाकामानाम् १९
विश्वास-प्रस्तुतिः
अप्तोर्यामः प्र प्रेव यस्मात्पशवो भ्रंशेरन् २०
मूलम्
अप्तोर्यामः प्र प्रेव यस्मात्पशवो भ्रंशेरन् २०
विश्वास-प्रस्तुतिः
अभिजिद्भ्रातृव्यवतः २१
मूलम्
अभिजिद्भ्रातृव्यवतः २१
विश्वास-प्रस्तुतिः
सर्वस्तोमो बुभूषतः २२
मूलम्
सर्वस्तोमो बुभूषतः २२
विश्वास-प्रस्तुतिः
यूपैकादशिनी चास्मिन् २३
मूलम्
यूपैकादशिनी चास्मिन् २३