विश्वास-प्रस्तुतिः
दीक्षणीयायां हिरण्यं द्वादशमानं ददाति १
मूलम्
दीक्षणीयायां हिरण्यं द्वादशमानं ददाति १
विश्वास-प्रस्तुतिः
उत्तरेषु च द्विगुणं पूर्वं पूर्वम् । प्रायणीयाऽतिथ्योपसत्सु २
मूलम्
उत्तरेषु च द्विगुणं पूर्वं पूर्वम् । प्रायणीयाऽतिथ्योपसत्सु २
विश्वास-प्रस्तुतिः
पशुवपान्ते प्रतिसवनं निहितेषु सवनमुखीयेषूदयनीयायामनूबन्ध्यायामुदवसानीयायां स्रजं चोद्गात्र ३
मूलम्
पशुवपान्ते प्रतिसवनं निहितेषु सवनमुखीयेषूदयनीयायामनूबन्ध्यायामुदवसानीयायां स्रजं चोद्गात्र ३
विश्वास-प्रस्तुतिः
रुक्मं होत्रे ४
मूलम्
रुक्मं होत्रे ४
विश्वास-प्रस्तुतिः
अनडुच्छतं कालेसर्वेभ्यः ५
मूलम्
अनडुच्छतं कालेसर्वेभ्यः ५
विश्वास-प्रस्तुतिः
वैश्यपशुकामयोर्वैश्यस्तोमः ६
मूलम्
वैश्यपशुकामयोर्वैश्यस्तोमः ६
विश्वास-प्रस्तुतिः
सवनान्याशीर्वन्ति ७
मूलम्
सवनान्याशीर्वन्ति ७
विश्वास-प्रस्तुतिः
प्रातःसवने प्रतिदुहा श्रयणम् ८
मूलम्
प्रातःसवने प्रतिदुहा श्रयणम् ८
विश्वास-प्रस्तुतिः
शृतेन माध्यन्दिने ९
मूलम्
शृतेन माध्यन्दिने ९
विश्वास-प्रस्तुतिः
तृतीयसवने दध्ना दक्षिणा वत्सतराः पञ्चवर्षाः पृश्नयः १०
मूलम्
तृतीयसवने दध्ना दक्षिणा वत्सतराः पञ्चवर्षाः पृश्नयः १०
विश्वास-प्रस्तुतिः
वत्सतर्यश्च त्रिहायण्योऽप्रवीताः पञ्चवर्षा राजीवपृश्नयो नवनीतपृश्नयोऽरुण्यः पिशङ्ग्य सारङ्ग्य इति ११
मूलम्
वत्सतर्यश्च त्रिहायण्योऽप्रवीताः पञ्चवर्षा राजीवपृश्नयो नवनीतपृश्नयोऽरुण्यः पिशङ्ग्य सारङ्ग्य इति ११
विश्वास-प्रस्तुतिः
उभयस्य सहस्रं द्वादशं वा शतम् १२
मूलम्
उभयस्य सहस्रं द्वादशं वा शतम् १२
विश्वास-प्रस्तुतिः
सोमातिपूतस्य तीव्रसुदुक्थ्यः १३
मूलम्
सोमातिपूतस्य तीव्रसुदुक्थ्यः १३
विश्वास-प्रस्तुतिः
अपरुद्धराजन्यस्य १४
मूलम्
अपरुद्धराजन्यस्य १४
विश्वास-प्रस्तुतिः
दीर्घव्याधिग्रामकामप्रजाकामपशुकामानां वा १५
मूलम्
दीर्घव्याधिग्रामकामप्रजाकामपशुकामानां वा १५
विश्वास-प्रस्तुतिः
पूर्ववत्सोमाः १६
मूलम्
पूर्ववत्सोमाः १६