विश्वास-प्रस्तुतिः
प्रातःसवनीयाननु हवींषि निर्वपति १
मूलम्
प्रातःसवनीयाननु हवींषि निर्वपति १
विश्वास-प्रस्तुतिः
पयसी अग्निहोत्रयोः २
मूलम्
पयसी अग्निहोत्रयोः २
विश्वास-प्रस्तुतिः
अन्त्यदेवताऽनूबन्ध्याऽद्या सवनीया ३
मूलम्
अन्त्यदेवताऽनूबन्ध्याऽद्या सवनीया ३
विश्वास-प्रस्तुतिः
एकदेवतेषूभयम् ४
मूलम्
एकदेवतेषूभयम् ४
विश्वास-प्रस्तुतिः
चातुर्मास्येषुचैके ५
मूलम्
चातुर्मास्येषुचैके ५
विश्वास-प्रस्तुतिः
सप्तदशाः पञ्च ६
मूलम्
सप्तदशाः पञ्च ६
विश्वास-प्रस्तुतिः
उपहव्योऽनिरुक्तो ग्रामकामस्य ७
मूलम्
उपहव्योऽनिरुक्तो ग्रामकामस्य ७
विश्वास-प्रस्तुतिः
अनृतं वाऽभिशस्यमानस्य ८
मूलम्
अनृतं वाऽभिशस्यमानस्य ८
विश्वास-प्रस्तुतिः
श्यावोऽश्वो दक्षिणा तं ब्रह्मणे ददाति ९
मूलम्
श्यावोऽश्वो दक्षिणा तं ब्रह्मणे ददाति ९
विश्वास-प्रस्तुतिः
स्वर्गकामस्यर्तपेयः १०
मूलम्
स्वर्गकामस्यर्तपेयः १०
विश्वास-प्रस्तुतिः
दीक्षोपसदो द्वादश ११
मूलम्
दीक्षोपसदो द्वादश ११
विश्वास-प्रस्तुतिः
तिस्र उपसदः १२
मूलम्
तिस्र उपसदः १२
विश्वास-प्रस्तुतिः
षड्वा १३
मूलम्
षड्वा १३
विश्वास-प्रस्तुतिः
उभयत्र वा द्वादशता गुणत्वात् १४
मूलम्
उभयत्र वा द्वादशता गुणत्वात् १४
विश्वास-प्रस्तुतिः
घृतं व्रतयति १५
मूलम्
घृतं व्रतयति १५
विश्वास-प्रस्तुतिः
चमसं पूर्णमङ्गुलिपर्वणा मौल्येन सर्वतः प्रमितमाद्यायामुपसदि १६
मूलम्
चमसं पूर्णमङ्गुलिपर्वणा मौल्येन सर्वतः प्रमितमाद्यायामुपसदि १६
विश्वास-प्रस्तुतिः
द्वितीयेन द्वितीयायाम् १७
मूलम्
द्वितीयेन द्वितीयायाम् १७
विश्वास-प्रस्तुतिः
तृतीयेन तृतीयायाम् १८
मूलम्
तृतीयेन तृतीयायाम् १८
विश्वास-प्रस्तुतिः
भक्षयिष्यन्तः सत्यं ब्रूयुः १९
मूलम्
भक्षयिष्यन्तः सत्यं ब्रूयुः १९
विश्वास-प्रस्तुतिः
सदो वा स्रपस्यन्तः २०
मूलम्
सदो वा स्रपस्यन्तः २०
विश्वास-प्रस्तुतिः
सोमचमसो दक्षिणौदुम्बरः सगोत्राय ब्रह्मणे देयः २१
मूलम्
सोमचमसो दक्षिणौदुम्बरः सगोत्राय ब्रह्मणे देयः २१
विश्वास-प्रस्तुतिः
पूतभृतः सर्वार्थत्वात् २२
मूलम्
पूतभृतः सर्वार्थत्वात् २२
विश्वास-प्रस्तुतिः
अंशुचमसमेके तेन स यजेतेति श्रुतेः २३
मूलम्
अंशुचमसमेके तेन स यजेतेति श्रुतेः २३
विश्वास-प्रस्तुतिः
अश्ववत् २४
मूलम्
अश्ववत् २४
विश्वास-प्रस्तुतिः
पशूपवादाच्च २५
मूलम्
पशूपवादाच्च २५
विश्वास-प्रस्तुतिः
द्विनामोत्तरो बहुहिरण्यो दूणाशश्च २६
मूलम्
द्विनामोत्तरो बहुहिरण्यो दूणाशश्च २६