विश्वास-प्रस्तुतिः
चातुर्मास्याः सोमास्त्रिषु पर्वस्थानेषु पार्ष्ठिकानि पृष्ठयो विहृत इति श्रुतेः १
मूलम्
चातुर्मास्याः सोमास्त्रिषु पर्वस्थानेषु पार्ष्ठिकानि पृष्ठयो विहृत इति श्रुतेः १
विश्वास-प्रस्तुतिः
वैश्वदेवस्थाने प्रथमम् २
मूलम्
वैश्वदेवस्थाने प्रथमम् २
विश्वास-प्रस्तुतिः
अपूपम् ३
मूलम्
अपूपम् ३
विश्वास-प्रस्तुतिः
उत्तरवेद्यकरणं च ४
मूलम्
उत्तरवेद्यकरणं च ४
विश्वास-प्रस्तुतिः
परिधौ पशुनियोजनम् ५
मूलम्
परिधौ पशुनियोजनम् ५
विश्वास-प्रस्तुतिः
द्वितीये द्विदिवाख्यो द्व्यहः ६
मूलम्
द्वितीये द्विदिवाख्यो द्व्यहः ६
विश्वास-प्रस्तुतिः
अग्निष्टोमं प्रथममेके ७
मूलम्
अग्निष्टोमं प्रथममेके ७
विश्वास-प्रस्तुतिः
तृतीये त्र्यहोऽतिरात्र उत्तमः ८
मूलम्
तृतीये त्र्यहोऽतिरात्र उत्तमः ८
विश्वास-प्रस्तुतिः
अग्निष्टोमं प्रथममेके ९
मूलम्
अग्निष्टोमं प्रथममेके ९
विश्वास-प्रस्तुतिः
ज्योतिष्टोमः शुनासीरीयस्थाने १०
मूलम्
ज्योतिष्टोमः शुनासीरीयस्थाने १०
विश्वास-प्रस्तुतिः
पञ्चसु सवनीया वैश्वदेववारुणमारुताग्नेयैन्द्रा ग्नाः ११
मूलम्
पञ्चसु सवनीया वैश्वदेववारुणमारुताग्नेयैन्द्रा ग्नाः ११
विश्वास-प्रस्तुतिः
षष्ठे चैकादशिनाः १२
मूलम्
षष्ठे चैकादशिनाः १२
विश्वास-प्रस्तुतिः
वायव्यः सप्तमे १३
मूलम्
वायव्यः सप्तमे १३
विश्वास-प्रस्तुतिः
पञ्चाशतं पञ्चाशतं प्रत्यहं ददात्युत्तमे द्वादशं शतम् १४
मूलम्
पञ्चाशतं पञ्चाशतं प्रत्यहं ददात्युत्तमे द्वादशं शतम् १४
विश्वास-प्रस्तुतिः
वत्सा वा पञ्चाशतो यथर्तुजाः १५
मूलम्
वत्सा वा पञ्चाशतो यथर्तुजाः १५
विश्वास-प्रस्तुतिः
प्रतिपर्वावभृथाः १६
मूलम्
प्रतिपर्वावभृथाः १६
विश्वास-प्रस्तुतिः
पर्वान्तरेष्वहतं वस्ते १७
मूलम्
पर्वान्तरेष्वहतं वस्ते १७
विश्वास-प्रस्तुतिः
अस्त्र्युपायी १८
मूलम्
अस्त्र्युपायी १८
विश्वास-प्रस्तुतिः
अमांसाशी १९
मूलम्
अमांसाशी १९
विश्वास-प्रस्तुतिः
अनुबन्ध्या बार्हस्पत्या मैत्रावरुणीसौर्याश्विन्यो यथाऽवभृथम २०
मूलम्
अनुबन्ध्या बार्हस्पत्या मैत्रावरुणीसौर्याश्विन्यो यथाऽवभृथम २०
विश्वास-प्रस्तुतिः
प्रतिकर्मसोमाः २१
मूलम्
प्रतिकर्मसोमाः २१
विश्वास-प्रस्तुतिः
अग्न्याधेयपुनराधेयाग्निहोत्रदर्शपूर्णमासदाक्षायणाग्रयणाः २२
मूलम्
अग्न्याधेयपुनराधेयाग्निहोत्रदर्शपूर्णमासदाक्षायणाग्रयणाः २२
विश्वास-प्रस्तुतिः
उक्थ्यं पशुबन्धमेके २३
मूलम्
उक्थ्यं पशुबन्धमेके २३