विश्वास-प्रस्तुतिः
मरणकामस्य सर्वस्वारः १
मूलम्
मरणकामस्य सर्वस्वारः १
विश्वास-प्रस्तुतिः
कृतान्नदक्षिणः २
मूलम्
कृतान्नदक्षिणः २
विश्वास-प्रस्तुतिः
दीक्षाद्यवजिघ्रत्येव भक्षान् ३
मूलम्
दीक्षाद्यवजिघ्रत्येव भक्षान् ३
विश्वास-प्रस्तुतिः
अप्स्ववहरणमसोमानाम् ४
मूलम्
अप्स्ववहरणमसोमानाम् ४
विश्वास-प्रस्तुतिः
आर्भवे स्तूयमाने दक्षिणेनौदुम्बरीं कृष्णाजिने संविशति दक्षिणाशिराः प्रावृतः ५
मूलम्
आर्भवे स्तूयमाने दक्षिणेनौदुम्बरीं कृष्णाजिने संविशति दक्षिणाशिराः प्रावृतः ५
विश्वास-प्रस्तुतिः
तदेव म्रियते ६
मूलम्
तदेव म्रियते ६
विश्वास-प्रस्तुतिः
जीवेच्चेद्दैर्घश्रवसं स्वासु यज्ञायज्ञियस्थाने कुर्युः ७
मूलम्
जीवेच्चेद्दैर्घश्रवसं स्वासु यज्ञायज्ञियस्थाने कुर्युः ७
विश्वास-प्रस्तुतिः
मृते तदन्तमर्थाभावात् ८
मूलम्
मृते तदन्तमर्थाभावात् ८
विश्वास-प्रस्तुतिः
यजमानपात्रर्जीषहवींष्याहवनीये प्रास्य यथार्थं गच्छेयुः ९
मूलम्
यजमानपात्रर्जीषहवींष्याहवनीये प्रास्य यथार्थं गच्छेयुः ९
विश्वास-प्रस्तुतिः
समाप्तिर्वोभयचोदनात् १०
मूलम्
समाप्तिर्वोभयचोदनात् १०
विश्वास-प्रस्तुतिः
समिष्टयजुरन्ते सं त्वा हिन्वन्तीति दार्वाहरणम् ११
मूलम्
समिष्टयजुरन्ते सं त्वा हिन्वन्तीति दार्वाहरणम् ११
विश्वास-प्रस्तुतिः
सं त्वा ततक्षुरिति तक्षणम् १२
मूलम्
सं त्वा ततक्षुरिति तक्षणम् १२
विश्वास-प्रस्तुतिः
सं त्वा रिणन्तीति प्रक्षालनम् १३
मूलम्
सं त्वा रिणन्तीति प्रक्षालनम् १३
विश्वास-प्रस्तुतिः
सं त्वा शिशन्तीत्यासन्दीविवानम् १४
मूलम्
सं त्वा शिशन्तीत्यासन्दीविवानम् १४
विश्वास-प्रस्तुतिः
आसन्द्यैनमवभृथं हृत्वाऽभ्युक्ष्य सोमोपनहनेन प्रच्छाद्याऽनूबन्ध्यवपाहोमान्ते दक्षिणस्यां वेदिश्रोणौ सर्वकेशश्मश्रुलोमवपनम् १५
मूलम्
आसन्द्यैनमवभृथं हृत्वाऽभ्युक्ष्य सोमोपनहनेन प्रच्छाद्याऽनूबन्ध्यवपाहोमान्ते दक्षिणस्यां वेदिश्रोणौ सर्वकेशश्मश्रुलोमवपनम् १५
विश्वास-प्रस्तुतिः
मृताहिताग्न्यावृच्च १६
मूलम्
मृताहिताग्न्यावृच्च १६
विश्वास-प्रस्तुतिः
अनूबन्ध्यान्तेऽग्नीनाहृत्य वेदिमध्यमाग्नीध्राद्दक्षिणं दक्षिणाशिरस चितावाहितमुद्गाता त्रिर्यामेन परिगायन्नाके सुपर्णमित्येतस्याम् १७
मूलम्
अनूबन्ध्यान्तेऽग्नीनाहृत्य वेदिमध्यमाग्नीध्राद्दक्षिणं दक्षिणाशिरस चितावाहितमुद्गाता त्रिर्यामेन परिगायन्नाके सुपर्णमित्येतस्याम् १७
विश्वास-प्रस्तुतिः
धूमप्राप्तं त्वेषस्ते धूम ऋण्वतीति १८
मूलम्
धूमप्राप्तं त्वेषस्ते धूम ऋण्वतीति १८
विश्वास-प्रस्तुतिः
अग्निप्राप्तमग्ने मृड महां३ असीत्यन्यतरेण १९
मूलम्
अग्निप्राप्तमग्ने मृड महां३ असीत्यन्यतरेण १९
विश्वास-प्रस्तुतिः
उदवसानीयान्ते वा सर्वस्य समाप्तेः २०
मूलम्
उदवसानीयान्ते वा सर्वस्य समाप्तेः २०
विश्वास-प्रस्तुतिः
जीवेच्चेदेतेनैवाऽऽरम्भेण मुमूर्षेत् २१
मूलम्
जीवेच्चेदेतेनैवाऽऽरम्भेण मुमूर्षेत् २१
विश्वास-प्रस्तुतिः
जिजीविषेद्वा २२
मूलम्
जिजीविषेद्वा २२
विश्वास-प्रस्तुतिः
ऋत्विगपोहनीयास्त्रयः २३
मूलम्
ऋत्विगपोहनीयास्त्रयः २३
विश्वास-प्रस्तुतिः
सर्वस्तोमः २४
मूलम्
सर्वस्तोमः २४
विश्वास-प्रस्तुतिः
अहनी चोत्तमे छान्दोमिके पृथक् कृत्वा २५
मूलम्
अहनी चोत्तमे छान्दोमिके पृथक् कृत्वा २५
विश्वास-प्रस्तुतिः
वाचस्तोमाश्चत्वारः २६
मूलम्
वाचस्तोमाश्चत्वारः २६
विश्वास-प्रस्तुतिः
छान्दोग्ये विशेषः २७
मूलम्
छान्दोग्ये विशेषः २७
विश्वास-प्रस्तुतिः
पृष्ठ्यस्तोमास्त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशाः २८
मूलम्
पृष्ठ्यस्तोमास्त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशाः २८