०५

विश्वास-प्रस्तुतिः

छान्दोग्ये विशेषो यथाकामम् १

मूलम्

छान्दोग्ये विशेषो यथाकामम् १

विश्वास-प्रस्तुतिः

सुब्रह्मण्याग्नेयी २

मूलम्

सुब्रह्मण्याग्नेयी २

विश्वास-प्रस्तुतिः

एवं यथास्तुत् ३

मूलम्

एवं यथास्तुत् ३

विश्वास-प्रस्तुतिः

सर्वमेके ४

मूलम्

सर्वमेके ४

विश्वास-प्रस्तुतिः

यथोत्साहं दद्यात् ५

मूलम्

यथोत्साहं दद्यात् ५

विश्वास-प्रस्तुतिः

आग्नेयानामनडुद्धिरण्याश्वाजानाम् ६

मूलम्

आग्नेयानामनडुद्धिरण्याश्वाजानाम् ६

विश्वास-प्रस्तुतिः

त्रिवृतश्चत्वारः ७

मूलम्

त्रिवृतश्चत्वारः ७

विश्वास-प्रस्तुतिः

अनिरुक्तप्रातःसवनः प्रथम ईप्सुयज्ञः ८

मूलम्

अनिरुक्तप्रातःसवनः प्रथम ईप्सुयज्ञः ८

विश्वास-प्रस्तुतिः

ग्रामकामस्य वा ९

मूलम्

ग्रामकामस्य वा ९

विश्वास-प्रस्तुतिः

दक्षिणाऽश्वरथश्चतुर्युक्श्यावोऽन्यतमः १०

मूलम्

दक्षिणाऽश्वरथश्चतुर्युक्श्यावोऽन्यतमः १०

विश्वास-प्रस्तुतिः

तेजोब्रह्मवर्चसपुरोधाकामस्य बृहस्पतिसवः ११

मूलम्

तेजोब्रह्मवर्चसपुरोधाकामस्य बृहस्पतिसवः ११

विश्वास-प्रस्तुतिः

देवहूहवींषि निर्वपति १२

मूलम्

देवहूहवींषि निर्वपति १२

विश्वास-प्रस्तुतिः

अतिग्राह्यवद्ग्रहं गृह्णाति बृहस्पते अति यदर्य इति १३

मूलम्

अतिग्राह्यवद्ग्रहं गृह्णाति बृहस्पते अति यदर्य इति १३

विश्वास-प्रस्तुतिः

उपालम्भ्यो बार्हस्पत्यः १४

मूलम्

उपालम्भ्यो बार्हस्पत्यः १४

विश्वास-प्रस्तुतिः

निहितेषु नाराशंसेषु प्रातः सवनेऽनपाकुर्वन्नेकादश दक्षिणा व्यादिशति १५

मूलम्

निहितेषु नाराशंसेषु प्रातः सवनेऽनपाकुर्वन्नेकादश दक्षिणा व्यादिशति १५

विश्वास-प्रस्तुतिः

अश्वद्वादशा माध्यन्दिने १६

मूलम्

अश्वद्वादशा माध्यन्दिने १६

विश्वास-प्रस्तुतिः

अपाकरोत्युभयीः १७

मूलम्

अपाकरोत्युभयीः १७

विश्वास-प्रस्तुतिः

एकादश तृतीयसवने १८

मूलम्

एकादश तृतीयसवने १८

विश्वास-प्रस्तुतिः

अनूबन्ध्यवपाहोमान्तेऽपाकरणम् १९

मूलम्

अनूबन्ध्यवपाहोमान्तेऽपाकरणम् १९

विश्वास-प्रस्तुतिः

अतिक्रमणं च सर्वासाम् २०

मूलम्

अतिक्रमणं च सर्वासाम् २०

विश्वास-प्रस्तुतिः

एकादशैकादश वा शतानि स्युः २१

मूलम्

एकादशैकादश वा शतानि स्युः २१

विश्वास-प्रस्तुतिः

सहस्राणि वा २२

मूलम्

सहस्राणि वा २२

विश्वास-प्रस्तुतिः

अश्वस्त्वेव माध्यान्दिनेऽधिकः २३

मूलम्

अश्वस्त्वेव माध्यान्दिनेऽधिकः २३

विश्वास-प्रस्तुतिः

वाजपेयवदाज्येनाऽभिषिच्यते कृष्णाजिने २४

मूलम्

वाजपेयवदाज्येनाऽभिषिच्यते कृष्णाजिने २४

विश्वास-प्रस्तुतिः

शुक्रामन्थिसंस्रवेण वा २५

मूलम्

शुक्रामन्थिसंस्रवेण वा २५

विश्वास-प्रस्तुतिः

अन्यतस्त्वभिवाद्यः २६

मूलम्

अन्यतस्त्वभिवाद्यः २६

विश्वास-प्रस्तुतिः

अप्रत्यवरोही स्यात् २७

मूलम्

अप्रत्यवरोही स्यात् २७

विश्वास-प्रस्तुतिः

स्थपतिरित्येनं ब्रूयुः २८

मूलम्

स्थपतिरित्येनं ब्रूयुः २८

विश्वास-प्रस्तुतिः

सराजानो ब्राह्मणा यं पुरस्कुर्वीरन्स्स एतेन यजेत २९

मूलम्

सराजानो ब्राह्मणा यं पुरस्कुर्वीरन्स्स एतेन यजेत २९

विश्वास-प्रस्तुतिः

इषुः श्येनवदसद्यः ३०

मूलम्

इषुः श्येनवदसद्यः ३०