विश्वास-प्रस्तुतिः
व्रात्यस्तोमाश्चत्वारः १
मूलम्
व्रात्यस्तोमाश्चत्वारः १
विश्वास-प्रस्तुतिः
द्वितीय उक्थ्यः २
मूलम्
द्वितीय उक्थ्यः २
विश्वास-प्रस्तुतिः
व्रात्यगणस्य ये सम्पादयेयुस्ते प्रथमेन यजेरन् ३
मूलम्
व्रात्यगणस्य ये सम्पादयेयुस्ते प्रथमेन यजेरन् ३
विश्वास-प्रस्तुतिः
द्वितीयेन निन्दिता नृशंसाः ४
मूलम्
द्वितीयेन निन्दिता नृशंसाः ४
विश्वास-प्रस्तुतिः
तृतीयेन कनिष्ठाः ५
मूलम्
तृतीयेन कनिष्ठाः ५
विश्वास-प्रस्तुतिः
ज्येष्ठाश्चतुर्थेन ६
मूलम्
ज्येष्ठाश्चतुर्थेन ६
विश्वास-प्रस्तुतिः
अपेतप्रजनना स्थविरास्तदाख्याः ७
मूलम्
अपेतप्रजनना स्थविरास्तदाख्याः ७
विश्वास-प्रस्तुतिः
तेषां यो नृशंसतमः स्याद्द्रव्यवत्तमो वाऽनूचानतमो वा तस्य गार्हपते दीक्षेरन् ८
मूलम्
तेषां यो नृशंसतमः स्याद्द्रव्यवत्तमो वाऽनूचानतमो वा तस्य गार्हपते दीक्षेरन् ८
विश्वास-प्रस्तुतिः
तस्य भक्षमनुभक्षयन्त आसीरन् ९
मूलम्
तस्य भक्षमनुभक्षयन्त आसीरन् ९
विश्वास-प्रस्तुतिः
व्रात्यधनानि भवन्ति १०
मूलम्
व्रात्यधनानि भवन्ति १०
विश्वास-प्रस्तुतिः
तिर्यङ्नद्घमुष्णीषम्प्रतोदः ११
मूलम्
तिर्यङ्नद्घमुष्णीषम्प्रतोदः ११
विश्वास-प्रस्तुतिः
ज्याह्रोडोऽयोग्यं धनुस्तदाख्यम् १२
मूलम्
ज्याह्रोडोऽयोग्यं धनुस्तदाख्यम् १२
विश्वास-प्रस्तुतिः
वासः कृष्णशं कद्रु १३
मूलम्
वासः कृष्णशं कद्रु १३
विश्वास-प्रस्तुतिः
अकृष्णं कृष्णदशं वा तदाख्यम् १४
मूलम्
अकृष्णं कृष्णदशं वा तदाख्यम् १४
विश्वास-प्रस्तुतिः
फलकास्तीर्णो विपथः १५
मूलम्
फलकास्तीर्णो विपथः १५
विश्वास-प्रस्तुतिः
अश्वाऽश्वतराभ्यां कम्प्राभ्यां युक्तः स्यादित्येके १६
मूलम्
अश्वाऽश्वतराभ्यां कम्प्राभ्यां युक्तः स्यादित्येके १६
विश्वास-प्रस्तुतिः
निष्को राजतः १७
मूलम्
निष्को राजतः १७
विश्वास-प्रस्तुतिः
अजिने पार्श्वसहिते कृष्णवलक्षे आविके १८
मूलम्
अजिने पार्श्वसहिते कृष्णवलक्षे आविके १८
विश्वास-प्रस्तुतिः
तद्गृहपतेः १९
मूलम्
तद्गृहपतेः १९
विश्वास-प्रस्तुतिः
एवमेवाऽजिनानीतरेषाम् २०
मूलम्
एवमेवाऽजिनानीतरेषाम् २०
विश्वास-प्रस्तुतिः
दामतूषाणि वलूकान्तानि द्विचूडान्याविकानि वासांसि लोहितान्तानि कृष्णान्तानि वा तदाख्यानि २१
मूलम्
दामतूषाणि वलूकान्तानि द्विचूडान्याविकानि वासांसि लोहितान्तानि कृष्णान्तानि वा तदाख्यानि २१
विश्वास-प्रस्तुतिः
दामनी द्वे द्वे २२
मूलम्
दामनी द्वे द्वे २२
विश्वास-प्रस्तुतिः
उपानहौ च कर्णिन्यौ कृष्णे स्यातामित्येके २३
मूलम्
उपानहौ च कर्णिन्यौ कृष्णे स्यातामित्येके २३
विश्वास-प्रस्तुतिः
मागधदेशीयाय ब्रह्मबन्धवे दक्षिणाकाले व्रात्यधनानि दद्युः २४
मूलम्
मागधदेशीयाय ब्रह्मबन्धवे दक्षिणाकाले व्रात्यधनानि दद्युः २४
विश्वास-प्रस्तुतिः
अविरतेभ्यो वा व्रात्यचरणात् २५
मूलम्
अविरतेभ्यो वा व्रात्यचरणात् २५
विश्वास-प्रस्तुतिः
तेष्वेव मृजाना यन्तीति श्रुतेः २६
मूलम्
तेष्वेव मृजाना यन्तीति श्रुतेः २६
विश्वास-प्रस्तुतिः
त्रयस्त्रिंशतं त्रयस्त्रिंशतं दक्षिणा दद्युः २७
मूलम्
त्रयस्त्रिंशतं त्रयस्त्रिंशतं दक्षिणा दद्युः २७
विश्वास-प्रस्तुतिः
द्विगुणा गृहपतिरित्येके २८
मूलम्
द्विगुणा गृहपतिरित्येके २८
विश्वास-प्रस्तुतिः
व्रात्यस्तोमेनेष्ट्वा व्रात्यभावाद्विरमेयुः २९
मूलम्
व्रात्यस्तोमेनेष्ट्वा व्रात्यभावाद्विरमेयुः २९
विश्वास-प्रस्तुतिः
व्यवहार्या भवन्ति ३०
मूलम्
व्यवहार्या भवन्ति ३०
विश्वास-प्रस्तुतिः
अग्निष्टुद्ब्रह्मवर्चसवीर्याऽऽन्नाद्यप्रतिष्ठाकामानां यश्चाऽपूत इव मन्येत ३१
मूलम्
अग्निष्टुद्ब्रह्मवर्चसवीर्याऽऽन्नाद्यप्रतिष्ठाकामानां यश्चाऽपूत इव मन्येत ३१
विश्वास-प्रस्तुतिः
यज्ञविभ्रष्टस्य च ३२
मूलम्
यज्ञविभ्रष्टस्य च ३२
विश्वास-प्रस्तुतिः
यस्माद्वा विभ्रंशेरन् ३३
मूलम्
यस्माद्वा विभ्रंशेरन् ३३