विश्वास-प्रस्तुतिः
श्येनोऽभिचरतः १
मूलम्
श्येनोऽभिचरतः १
विश्वास-प्रस्तुतिः
यत्रौषधयो न जायेरंस्तद्देवयजनम् २
मूलम्
यत्रौषधयो न जायेरंस्तद्देवयजनम् २
विश्वास-प्रस्तुतिः
विदाहि वा ३
मूलम्
विदाहि वा ३
विश्वास-प्रस्तुतिः
वृक्षस्तम्बच्छिन्नम् ४
मूलम्
वृक्षस्तम्बच्छिन्नम् ४
विश्वास-प्रस्तुतिः
वा निर्व्रस्कम् ५
मूलम्
वा निर्व्रस्कम् ५
विश्वास-प्रस्तुतिः
दक्षिणाप्रवणम् ६
मूलम्
दक्षिणाप्रवणम् ६
विश्वास-प्रस्तुतिः
अचषालो यूपः स्फ्याग्रः ७
मूलम्
अचषालो यूपः स्फ्याग्रः ७
विश्वास-प्रस्तुतिः
तैल्वको बाधको वा ८
मूलम्
तैल्वको बाधको वा ८
विश्वास-प्रस्तुतिः
इध्मो बैभीदकः ९
मूलम्
इध्मो बैभीदकः ९
विश्वास-प्रस्तुतिः
शरमयं बर्हिः १०
मूलम्
शरमयं बर्हिः १०
विश्वास-प्रस्तुतिः
अधिषवणे शवनभ्ये ११
मूलम्
अधिषवणे शवनभ्ये ११
विश्वास-प्रस्तुतिः
रथौ हविर्धाने १२
मूलम्
रथौ हविर्धाने १२
विश्वास-प्रस्तुतिः
लोहितः सवनीयोऽग्नये रुद्र वते १३
मूलम्
लोहितः सवनीयोऽग्नये रुद्र वते १३
विश्वास-प्रस्तुतिः
लोहितवाससो लोहितोष्णीषाः प्रचरन्त्यृत्विजः १४
मूलम्
लोहितवाससो लोहितोष्णीषाः प्रचरन्त्यृत्विजः १४
विश्वास-प्रस्तुतिः
निवीताः १५
मूलम्
निवीताः १५
विश्वास-प्रस्तुतिः
उज्ज्यधन्वानः १६
मूलम्
उज्ज्यधन्वानः १६
विश्वास-प्रस्तुतिः
कलापिनः १७
मूलम्
कलापिनः १७
विश्वास-प्रस्तुतिः
काणखोरकूटबण्डाह्रतमिश्रा नवनव दक्षिणा ददाति लिङ्गानाम् १८
मूलम्
काणखोरकूटबण्डाह्रतमिश्रा नवनव दक्षिणा ददाति लिङ्गानाम् १८
विश्वास-प्रस्तुतिः
पुरुषाणां वा दानाधिकारात् १९
मूलम्
पुरुषाणां वा दानाधिकारात् १९
विश्वास-प्रस्तुतिः
प्राकृतस्य वा नयनं भेदेन २०
मूलम्
प्राकृतस्य वा नयनं भेदेन २०
विश्वास-प्रस्तुतिः
दक्षिणाकाले कष्टकैरेना विरुजेयुः २१
मूलम्
दक्षिणाकाले कष्टकैरेना विरुजेयुः २१
विश्वास-प्रस्तुतिः
उपतप्तास्वनुपतप्तानामाज्यम् २२
मूलम्
उपतप्तास्वनुपतप्तानामाज्यम् २२
विश्वास-प्रस्तुतिः
साद्यस्क्रधर्मा हिरण्यस्रग्वत् २३
मूलम्
साद्यस्क्रधर्मा हिरण्यस्रग्वत् २३
विश्वास-प्रस्तुतिः
एकत्रिके दक्षिणा षष्टिशतं षट् च २४
मूलम्
एकत्रिके दक्षिणा षष्टिशतं षट् च २४
विश्वास-प्रस्तुतिः
साद्यस्क्रधर्माः २५
मूलम्
साद्यस्क्रधर्माः २५
विश्वास-प्रस्तुतिः
दीक्षादिः सद्यः सर्वं क्रियते २६
मूलम्
दीक्षादिः सद्यः सर्वं क्रियते २६
विश्वास-प्रस्तुतिः
सह पशूनालभते २७
मूलम्
सह पशूनालभते २७
विश्वास-प्रस्तुतिः
पुरोडाशो वाऽग्नीषोमीयस्थाने २८
मूलम्
पुरोडाशो वाऽग्नीषोमीयस्थाने २८
विश्वास-प्रस्तुतिः
वपान्ते सुब्रह्मण्यानिवृत्तिः २९
मूलम्
वपान्ते सुब्रह्मण्यानिवृत्तिः २९
विश्वास-प्रस्तुतिः
प्रतिदिशं वसन्त्यृत्विजः ३०
मूलम्
प्रतिदिशं वसन्त्यृत्विजः ३०
विश्वास-प्रस्तुतिः
पुरस्ताद्योजने होता ३१
मूलम्
पुरस्ताद्योजने होता ३१
विश्वास-प्रस्तुतिः
इ तरे क्रोशप्रत्यवायेन क्रोशप्रत्यवायेन ३२
मूलम्
इ तरे क्रोशप्रत्यवायेन क्रोशप्रत्यवायेन ३२
विश्वास-प्रस्तुतिः
उद्गातोत्तरतः ३३
मूलम्
उद्गातोत्तरतः ३३
विश्वास-प्रस्तुतिः
अध्वर्युः पश्चाद्ब्रह्मा दक्षिणतः ३४
मूलम्
अध्वर्युः पश्चाद्ब्रह्मा दक्षिणतः ३४
विश्वास-प्रस्तुतिः
चतुर्भिरश्वरथैः सक्षीरदृतिभिरावहन्त्येनान् ३५
मूलम्
चतुर्भिरश्वरथैः सक्षीरदृतिभिरावहन्त्येनान् ३५
विश्वास-प्रस्तुतिः
यथाक्रोशमश्वाः ३६
मूलम्
यथाक्रोशमश्वाः ३६
विश्वास-प्रस्तुतिः
ततो नवनीतमाज्यम् ३७
मूलम्
ततो नवनीतमाज्यम् ३७
विश्वास-प्रस्तुतिः
सोमक्रयणस्त्रिवत्सः साण्डः ३८
मूलम्
सोमक्रयणस्त्रिवत्सः साण्डः ३८
विश्वास-प्रस्तुतिः
वेदिरुर्वरा ३९
मूलम्
वेदिरुर्वरा ३९
विश्वास-प्रस्तुतिः
व्रीहीन्यवान्वा पक्वानध्यवस्यति ४०
मूलम्
व्रीहीन्यवान्वा पक्वानध्यवस्यति ४०
विश्वास-प्रस्तुतिः
खल उत्तरवेदिः ४१
मूलम्
खल उत्तरवेदिः ४१
विश्वास-प्रस्तुतिः
धान्यखलः प्रत्ययात् ४२
मूलम्
धान्यखलः प्रत्ययात् ४२
विश्वास-प्रस्तुतिः
ये वेदिमभितस्तानुत्तरवेदिदेशे मृध्नन्ति ४३
मूलम्
ये वेदिमभितस्तानुत्तरवेदिदेशे मृध्नन्ति ४३
विश्वास-प्रस्तुतिः
पांसुखलो वा प्रत्ययाविशेषात् प्रकृत्यनुग्रहाच्च ४४
मूलम्
पांसुखलो वा प्रत्ययाविशेषात् प्रकृत्यनुग्रहाच्च ४४
विश्वास-प्रस्तुतिः
खलेवाली यूपो लाङ्गलेषा ४५
मूलम्
खलेवाली यूपो लाङ्गलेषा ४५
विश्वास-प्रस्तुतिः
कलापी चषालार्थे ४६
मूलम्
कलापी चषालार्थे ४६
विश्वास-प्रस्तुतिः
निर्वृत्तग्रहणात् प्राकृतनिवृत्तिः ४७
मूलम्
निर्वृत्तग्रहणात् प्राकृतनिवृत्तिः ४७
विश्वास-प्रस्तुतिः
आवेशादनिवृत्तिः ४८
मूलम्
आवेशादनिवृत्तिः ४८
विश्वास-प्रस्तुतिः
उर्वरादि वा द्वितीयस्य सन्निधेः ४९
मूलम्
उर्वरादि वा द्वितीयस्य सन्निधेः ४९