विश्वास-प्रस्तुतिः
शताश्वरथमध्वर्यवे ददात्यग्नौ चीयमाने १
मूलम्
शताश्वरथमध्वर्यवे ददात्यग्नौ चीयमाने १
विश्वास-प्रस्तुतिः
उद्गात्रे व्रतकाले २
मूलम्
उद्गात्रे व्रतकाले २
विश्वास-प्रस्तुतिः
होत्रे शस्त्रकाले ३
मूलम्
होत्रे शस्त्रकाले ३
विश्वास-प्रस्तुतिः
ततो ब्रह्मणे ४
मूलम्
ततो ब्रह्मणे ४
विश्वास-प्रस्तुतिः
दक्षिणाकाले सर्वेभ्यः सहस्रम् ५
मूलम्
दक्षिणाकाले सर्वेभ्यः सहस्रम् ५
विश्वास-प्रस्तुतिः
साहस्राश्चत्वारः सहस्रदक्षिणाः ६
मूलम्
साहस्राश्चत्वारः सहस्रदक्षिणाः ६
विश्वास-प्रस्तुतिः
तृतीय उक्थ्यः ७
मूलम्
तृतीय उक्थ्यः ७
विश्वास-प्रस्तुतिः
ज्योतिर्विश्वज्योतिः सर्वज्योतिस्त्रिरात्रसम्मितः ८
मूलम्
ज्योतिर्विश्वज्योतिः सर्वज्योतिस्त्रिरात्रसम्मितः ८
विश्वास-प्रस्तुतिः
षट् साद्यःक्राः ९
मूलम्
षट् साद्यःक्राः ९
विश्वास-प्रस्तुतिः
स्वर्गकामपशुकामभ्रातृव्यवतां प्रथमः १०
मूलम्
स्वर्गकामपशुकामभ्रातृव्यवतां प्रथमः १०
विश्वास-प्रस्तुतिः
रुक्मललाटोऽश्वः श्वेतो दक्षिणा ११
मूलम्
रुक्मललाटोऽश्वः श्वेतो दक्षिणा ११
विश्वास-प्रस्तुतिः
अश्वाऽभावे गौः १२
मूलम्
अश्वाऽभावे गौः १२
विश्वास-प्रस्तुतिः
तमुद्गात्रे ददाति १३
मूलम्
तमुद्गात्रे ददाति १३
विश्वास-प्रस्तुतिः
प्राकृतस्याऽनिवृत्तिरुद्गातृयोगात् १४
मूलम्
प्राकृतस्याऽनिवृत्तिरुद्गातृयोगात् १४
विश्वास-प्रस्तुतिः
निवृत्तिः क्रतुयोगात् १५
मूलम्
निवृत्तिः क्रतुयोगात् १५
विश्वास-प्रस्तुतिः
वचनादेकस्य १६
मूलम्
वचनादेकस्य १६
विश्वास-प्रस्तुतिः
दीर्घव्याधिप्रतिष्ठाकामान्नाद्यकामानां द्वितीयः १७
मूलम्
दीर्घव्याधिप्रतिष्ठाकामान्नाद्यकामानां द्वितीयः १७
विश्वास-प्रस्तुतिः
अश्वैकविंशा दक्षिणाऽश्वो वा १८
मूलम्
अश्वैकविंशा दक्षिणाऽश्वो वा १८
विश्वास-प्रस्तुतिः
हीनस्यानुक्रीः १९
मूलम्
हीनस्यानुक्रीः १९
विश्वास-प्रस्तुतिः
साश्वं शतं दक्षिणाऽश्वो वा २०
मूलम्
साश्वं शतं दक्षिणाऽश्वो वा २०
विश्वास-प्रस्तुतिः
विश्वजिच्छिल्पः २१
मूलम्
विश्वजिच्छिल्पः २१
विश्वास-प्रस्तुतिः
यथाद्र व्ये जनपदे यजेत तेषां यथोत्साहं दद्यात् २२
मूलम्
यथाद्र व्ये जनपदे यजेत तेषां यथोत्साहं दद्यात् २२
विश्वास-प्रस्तुतिः
आजानेयानपरजने २३
मूलम्
आजानेयानपरजने २३
विश्वास-प्रस्तुतिः
प्राच्येषु हस्तिनः २४
मूलम्
प्राच्येषु हस्तिनः २४
विश्वास-प्रस्तुतिः
अश्वतरीरथानुदीच्येषु २५
मूलम्
अश्वतरीरथानुदीच्येषु २५
विश्वास-प्रस्तुतिः
सर्वस्वप्रतिनिधिर्वा २६
मूलम्
सर्वस्वप्रतिनिधिर्वा २६
विश्वास-प्रस्तुतिः
धेन्वनडुत्सीरधान्यपल्यदासमिथुनमहानसाऽऽरोहणविमितशयनानि २७
मूलम्
धेन्वनडुत्सीरधान्यपल्यदासमिथुनमहानसाऽऽरोहणविमितशयनानि २७