विश्वास-प्रस्तुतिः
अनुरज्जु चतस्रः सीताः कृषति वायुः पुनात्विति प्रतिमन्त्रम् १
मूलम्
अनुरज्जु चतस्रः सीताः कृषति वायुः पुनात्विति प्रतिमन्त्रम् १
विश्वास-प्रस्तुतिः
उत्तरतः प्रतीचीं प्रथमाम् २
मूलम्
उत्तरतः प्रतीचीं प्रथमाम् २
विश्वास-प्रस्तुतिः
अपरिमिता मध्ये तूष्णीम् ३
मूलम्
अपरिमिता मध्ये तूष्णीम् ३
विश्वास-प्रस्तुतिः
अनडुहो विमुच्य विमुच्यन्तामिति दक्षिणा सीरं निरस्याऽश्वत्थे व इति सर्वौषधं वपति ४
मूलम्
अनडुहो विमुच्य विमुच्यन्तामिति दक्षिणा सीरं निरस्याऽश्वत्थे व इति सर्वौषधं वपति ४
विश्वास-प्रस्तुतिः
सविता त इति शरीराणि निवपति मध्ये ५
मूलम्
सविता त इति शरीराणि निवपति मध्ये ५
विश्वास-प्रस्तुतिः
तूष्णीमन्यः कुम्भमाक्ष्णौति दक्षिणाऽनवानन्त्सृत्वा ६
मूलम्
तूष्णीमन्यः कुम्भमाक्ष्णौति दक्षिणाऽनवानन्त्सृत्वा ६
विश्वास-प्रस्तुतिः
प्रत्यागते परं मृत्यविति जपति ७
मूलम्
प्रत्यागते परं मृत्यविति जपति ७
विश्वास-प्रस्तुतिः
शं वात इति यथाङ्गं कल्पयित्वेष्टकां निदधाति मध्ये तूष्णीम् ८
मूलम्
शं वात इति यथाङ्गं कल्पयित्वेष्टकां निदधाति मध्ये तूष्णीम् ८
विश्वास-प्रस्तुतिः
प्रतिदिशमन्तेषु पराचीस्तिस्रस्तिस्रोऽलक्षणाः पादमात्रीः ९
मूलम्
प्रतिदिशमन्तेषु पराचीस्तिस्रस्तिस्रोऽलक्षणाः पादमात्रीः ९
विश्वास-प्रस्तुतिः
प्रदरात्पुरीषमाहृत्य परिकृष्य वा सर्वतोऽपुरस्तात् १०
मूलम्
प्रदरात्पुरीषमाहृत्य परिकृष्य वा सर्वतोऽपुरस्तात् १०
विश्वास-प्रस्तुतिः
शर्करा अनग्निचितः ११
मूलम्
शर्करा अनग्निचितः ११
विश्वास-प्रस्तुतिः
ऊर्द्ध्वप्रमाणमास्यं ब्राह्मणस्य १२
मूलम्
ऊर्द्ध्वप्रमाणमास्यं ब्राह्मणस्य १२
विश्वास-प्रस्तुतिः
उरः क्षत्त्रियस्य १३
मूलम्
उरः क्षत्त्रियस्य १३
विश्वास-प्रस्तुतिः
ऊर्द्ध्वबाहु वा १४
मूलम्
ऊर्द्ध्वबाहु वा १४
विश्वास-प्रस्तुतिः
ऊरु वैश्यस्य १५
मूलम्
ऊरु वैश्यस्य १५
विश्वास-प्रस्तुतिः
उपस्थः स्त्रियाः १६
मूलम्
उपस्थः स्त्रियाः १६
विश्वास-प्रस्तुतिः
जानु शूद्र स्य १७
मूलम्
जानु शूद्र स्य १७
विश्वास-प्रस्तुतिः
सर्वेषां वाऽधोजानु १८
मूलम्
सर्वेषां वाऽधोजानु १८
विश्वास-प्रस्तुतिः
अवकाभिः कुशैश्च प्रच्छाद्य १९
मूलम्
अवकाभिः कुशैश्च प्रच्छाद्य १९
विश्वास-प्रस्तुतिः
परिकृष्टं चेद्यवान्वपेत् २०
मूलम्
परिकृष्टं चेद्यवान्वपेत् २०
विश्वास-प्रस्तुतिः
दक्षिणतः कुटिले कर्षू खात्वा क्षीरोदकाभ्यां पूरयन्ति सप्तोत्तरतः प्राचीरुदकस्य २१
मूलम्
दक्षिणतः कुटिले कर्षू खात्वा क्षीरोदकाभ्यां पूरयन्ति सप्तोत्तरतः प्राचीरुदकस्य २१
विश्वास-प्रस्तुतिः
त्रींस्त्रीनावपन्त्यश्मनः २२
मूलम्
त्रींस्त्रीनावपन्त्यश्मनः २२
विश्वास-प्रस्तुतिः
अध्यधिगच्छन्त्यश्मन्वतीरिति २३
मूलम्
अध्यधिगच्छन्त्यश्मन्वतीरिति २३
विश्वास-प्रस्तुतिः
अपाघमित्यपामार्गैरपमृजते २४
मूलम्
अपाघमित्यपामार्गैरपमृजते २४
विश्वास-प्रस्तुतिः
सुमित्रिया न इति स्नात्वाऽहतवाससोऽनुडुत्पुच्छमन्वारभ्यानड्वाहमित्युद्वयमिति गच्छन्ति २५
मूलम्
सुमित्रिया न इति स्नात्वाऽहतवाससोऽनुडुत्पुच्छमन्वारभ्यानड्वाहमित्युद्वयमिति गच्छन्ति २५
विश्वास-प्रस्तुतिः
ग्रामश्मशानान्तरे मर्यादालोष्टं निदधातीमं जीवेभ्य इति २६
मूलम्
ग्रामश्मशानान्तरे मर्यादालोष्टं निदधातीमं जीवेभ्य इति २६
विश्वास-प्रस्तुतिः
अञ्जनाभ्यञ्जने कृत्वौपासनं परिस्तीर्य वारणान्परिधीन्परिधाय वारणेन स्रुवेणैकामाहुतिं जुहोत्यग्न आयूंष्यायुष्मानग्न इति २७
मूलम्
अञ्जनाभ्यञ्जने कृत्वौपासनं परिस्तीर्य वारणान्परिधीन्परिधाय वारणेन स्रुवेणैकामाहुतिं जुहोत्यग्न आयूंष्यायुष्मानग्न इति २७
विश्वास-प्रस्तुतिः
अथैषां परिदां वदति परीमे गामनेषतेति २८
मूलम्
अथैषां परिदां वदति परीमे गामनेषतेति २८
विश्वास-प्रस्तुतिः
अद्वारेणौपासनं निरस्यति क्रव्यादमिति २९
मूलम्
अद्वारेणौपासनं निरस्यति क्रव्यादमिति २९
विश्वास-प्रस्तुतिः
इहैवायमिति जपति ३०
मूलम्
इहैवायमिति जपति ३०
विश्वास-प्रस्तुतिः
आसन्दी सोपधाना दक्षिणाऽनड्वान्यवाश्च सर्वं पुराणं भूयसीश्चेच्छन् ३१
मूलम्
आसन्दी सोपधाना दक्षिणाऽनड्वान्यवाश्च सर्वं पुराणं भूयसीश्चेच्छन् ३१