विश्वास-प्रस्तुतिः

पितृमेधः संवत्सराऽस्मृतौ १

मूलम्

पितृमेधः संवत्सराऽस्मृतौ १

विश्वास-प्रस्तुतिः

अयुग्मेषु वा २

मूलम्

अयुग्मेषु वा २

विश्वास-प्रस्तुतिः

एकनक्षत्रे ३

मूलम्

एकनक्षत्रे ३

विश्वास-प्रस्तुतिः

अमावास्यायाम् ४

मूलम्

अमावास्यायाम् ४

विश्वास-प्रस्तुतिः

निदाघशरन्माघेषु ५

मूलम्

निदाघशरन्माघेषु ५

विश्वास-प्रस्तुतिः

यावन्तो धुविष्यन्तः स्युस्तावतः कुम्भानादाय छत्राणि चाऽपरिमितानि ६

मूलम्

यावन्तो धुविष्यन्तः स्युस्तावतः कुम्भानादाय छत्राणि चाऽपरिमितानि ६

विश्वास-प्रस्तुतिः

शरीराणि ग्रामसमीपमाहृत्य कुम्भेन तल्पे कृत्वाऽहतपक्षेण परितत्यायसेषु वाद्यमानेषु वीणायां चोद्घतायाममात्यास्त्रिस्त्रिः परिक्रामन्त्युत्तरीयैरुपवाजनैर्वोपवाजयन्तः ७

मूलम्

शरीराणि ग्रामसमीपमाहृत्य कुम्भेन तल्पे कृत्वाऽहतपक्षेण परितत्यायसेषु वाद्यमानेषु वीणायां चोद्घतायाममात्यास्त्रिस्त्रिः परिक्रामन्त्युत्तरीयैरुपवाजनैर्वोपवाजयन्तः ७

विश्वास-प्रस्तुतिः

स्त्रियो वा ८

मूलम्

स्त्रियो वा ८

विश्वास-प्रस्तुतिः

पूर्वरात्रमध्याऽपररात्रेषु च ९

मूलम्

पूर्वरात्रमध्याऽपररात्रेषु च ९

विश्वास-प्रस्तुतिः

विफल्फान्नमहरेतत् १०

मूलम्

विफल्फान्नमहरेतत् १०

विश्वास-प्रस्तुतिः

नृत्यगीतवादित्रवच्च ११

मूलम्

नृत्यगीतवादित्रवच्च ११

विश्वास-प्रस्तुतिः

अन्नमस्माऽउपसंहरन्त्येके १२

मूलम्

अन्नमस्माऽउपसंहरन्त्येके १२

विश्वास-प्रस्तुतिः

उपव्युषसं सशरीरा दक्षिणा गच्छन्ति १३

मूलम्

उपव्युषसं सशरीरा दक्षिणा गच्छन्ति १३

विश्वास-प्रस्तुतिः

यथा कुर्वतोऽभ्युदियात्सूर्यः १४

मूलम्

यथा कुर्वतोऽभ्युदियात्सूर्यः १४

विश्वास-प्रस्तुतिः

कक्षेऽवतापिनि १५

मूलम्

कक्षेऽवतापिनि १५

विश्वास-प्रस्तुतिः

ऊषरऽउदक्प्रवणे समे वा १६

मूलम्

ऊषरऽउदक्प्रवणे समे वा १६

विश्वास-प्रस्तुतिः

दक्षिणाप्रवणएके १७

मूलम्

दक्षिणाप्रवणएके १७

विश्वास-प्रस्तुतिः

अदर्शनाद्ग्रामात् १८

मूलम्

अदर्शनाद्ग्रामात् १८

विश्वास-प्रस्तुतिः

आरात्पथः १९

मूलम्

आरात्पथः १९

विश्वास-प्रस्तुतिः

न्यग्रोथाश्वत्थतिल्वकहरिद्रुस्फूर्जकबिभीदकपापनामभ्यश्च २०

मूलम्

न्यग्रोथाश्वत्थतिल्वकहरिद्रुस्फूर्जकबिभीदकपापनामभ्यश्च २०

विश्वास-प्रस्तुतिः

चितिवच्च २१

मूलम्

चितिवच्च २१

विश्वास-प्रस्तुतिः

शम्वति कम्वति वा २२

मूलम्

शम्वति कम्वति वा २२

विश्वास-प्रस्तुतिः

चित्रं पश्चात् २३

मूलम्

चित्रं पश्चात् २३

विश्वास-प्रस्तुतिः

तदभाव उदकमुत्तरतो वा २४

मूलम्

तदभाव उदकमुत्तरतो वा २४

विश्वास-प्रस्तुतिः

कर्षूवीरणवति २५

मूलम्

कर्षूवीरणवति २५

विश्वास-प्रस्तुतिः

ग्रामतस्तेजनीमुच्छ्रित्य न न्यस्येद्गृहेषूच्छ्रयेत् २६

मूलम्

ग्रामतस्तेजनीमुच्छ्रित्य न न्यस्येद्गृहेषूच्छ्रयेत् २६

विश्वास-प्रस्तुतिः

दिक्स्रक्ति पुरुषमात्रं मिमीते २७

मूलम्

दिक्स्रक्ति पुरुषमात्रं मिमीते २७

विश्वास-प्रस्तुतिः

उत्तरतः पृथु पश्चाच्च २८

मूलम्

उत्तरतः पृथु पश्चाच्च २८

विश्वास-प्रस्तुतिः

विहृत्य स्रक्तिषु शङ्कूनाहन्ति २९

मूलम्

विहृत्य स्रक्तिषु शङ्कूनाहन्ति २९

विश्वास-प्रस्तुतिः

पालाशं पुरस्ताच्छामीलवारणदेहशङ्कूनन्यासु ३०

मूलम्

पालाशं पुरस्ताच्छामीलवारणदेहशङ्कूनन्यासु ३०

विश्वास-प्रस्तुतिः

देहशङ्कुर्वृत्रशङ्कुः ३१

मूलम्

देहशङ्कुर्वृत्रशङ्कुः ३१

विश्वास-प्रस्तुतिः

अपसलविसृष्टया रज्ज्वा परितत्याऽपेतो यन्त्विति पलाशशाखया व्युदूहति ३२

मूलम्

अपसलविसृष्टया रज्ज्वा परितत्याऽपेतो यन्त्विति पलाशशाखया व्युदूहति ३२

विश्वास-प्रस्तुतिः

दक्षिणा शाखां निरस्य परिश्रिद्भिः परिश्रयति पूर्ववदपरिमितामिः ३३

मूलम्

दक्षिणा शाखां निरस्य परिश्रिद्भिः परिश्रयति पूर्ववदपरिमितामिः ३३

विश्वास-प्रस्तुतिः

औदुम्बरसीरऽउत्तरतो वा षड्गवे युज्यमाने युङ्क्तेति सम्प्रेष्य सविता त इति जपति ३४

मूलम्

औदुम्बरसीरऽउत्तरतो वा षड्गवे युज्यमाने युङ्क्तेति सम्प्रेष्य सविता त इति जपति ३४