विश्वास-प्रस्तुतिः
सर्वमेधः सर्वकामस्य १
मूलम्
सर्वमेधः सर्वकामस्य १
विश्वास-प्रस्तुतिः
दशरात्रः २
मूलम्
दशरात्रः २
विश्वास-प्रस्तुतिः
अग्निरुत्तमः ३
मूलम्
अग्निरुत्तमः ३
विश्वास-प्रस्तुतिः
अग्निष्टुत्रयऽउक्थ्या इन्द्र स्तुत्सूर्यस्तुद्वैश्वदेवस्तुद्व्रतं वाजपेयोऽप्तोर्यामः सर्वमस्मिन्नालभते ४
मूलम्
अग्निष्टुत्रयऽउक्थ्या इन्द्र स्तुत्सूर्यस्तुद्वैश्वदेवस्तुद्व्रतं वाजपेयोऽप्तोर्यामः सर्वमस्मिन्नालभते ४
विश्वास-प्रस्तुतिः
अवपाकानां त्वचो जुहोति ५
मूलम्
अवपाकानां त्वचो जुहोति ५
विश्वास-प्रस्तुतिः
ओषधिवनस्पतीनां संव्रश्चम् ६
मूलम्
ओषधिवनस्पतीनां संव्रश्चम् ६
विश्वास-प्रस्तुतिः
अन्नमन्नं जुहोति वपान्ते ७
मूलम्
अन्नमन्नं जुहोति वपान्ते ७
विश्वास-प्रस्तुतिः
तृतीयसवने च हुतेषु हविःषु ८
मूलम्
तृतीयसवने च हुतेषु हविःषु ८
विश्वास-प्रस्तुतिः
आश्वमेधिकं मध्यमं व्रतस्थाने ९
मूलम्
आश्वमेधिकं मध्यमं व्रतस्थाने ९
विश्वास-प्रस्तुतिः
पौरुषमेधिकं वाजपेयस्य १०
मूलम्
पौरुषमेधिकं वाजपेयस्य १०
विश्वास-प्रस्तुतिः
त्रिणवत्रयस्त्रिंशा उक्थ्यौ ११
मूलम्
त्रिणवत्रयस्त्रिंशा उक्थ्यौ ११
विश्वास-प्रस्तुतिः
अतिरात्रो विश्वजित् १२
मूलम्
अतिरात्रो विश्वजित् १२
विश्वास-प्रस्तुतिः
पुरुषमेधवद्दक्षिणा सभूमि १३
मूलम्
पुरुषमेधवद्दक्षिणा सभूमि १३