(पुरुषमेधसर्वमेधपितृमेधयज्ञाः)
विश्वास-प्रस्तुतिः
पुरुषमेधस्त्रयोविंशतिदीक्षोऽतिष्ठाकामस्य १
मूलम्
पुरुषमेधस्त्रयोविंशतिदीक्षोऽतिष्ठाकामस्य १
विश्वास-प्रस्तुतिः
ब्राह्मणराजन्ययोः २
मूलम्
ब्राह्मणराजन्ययोः २
विश्वास-प्रस्तुतिः
अग्निष्टोमावन्तरेणाऽतिरात्र उक्थ्यपक्षः ३
मूलम्
अग्निष्टोमावन्तरेणाऽतिरात्र उक्थ्यपक्षः ३
विश्वास-प्रस्तुतिः
यूपैकादशिनी भवति ४
मूलम्
यूपैकादशिनी भवति ४
विश्वास-प्रस्तुतिः
तावन्तोऽग्नीषोमीयाः ५
मूलम्
तावन्तोऽग्नीषोमीयाः ५
विश्वास-प्रस्तुतिः
पशूनुपाकरिष्यन्नतिरात्रे देव सवितरिति प्रत्यृचं तिस्रो जुहोति ६
मूलम्
पशूनुपाकरिष्यन्नतिरात्रे देव सवितरिति प्रत्यृचं तिस्रो जुहोति ६
विश्वास-प्रस्तुतिः
ऐकादशिनानुपाकृत्य ब्राह्मणादींश्च ७
मूलम्
ऐकादशिनानुपाकृत्य ब्राह्मणादींश्च ७
विश्वास-प्रस्तुतिः
नियोगनकालेऽष्टचत्वारिंशतमाद्यानग्निष्ठे ८
मूलम्
नियोगनकालेऽष्टचत्वारिंशतमाद्यानग्निष्ठे ८
विश्वास-प्रस्तुतिः
इतरेष्वेकादशैकादश ९
मूलम्
इतरेष्वेकादशैकादश ९
विश्वास-प्रस्तुतिः
द्वितीयोछ्रिते शेषान् १०
मूलम्
द्वितीयोछ्रिते शेषान् १०
विश्वास-प्रस्तुतिः
नियुक्तान्ब्रह्माऽभिष्टौति होतृवदनुवाकेन सहस्रशीर्षेति ११
मूलम्
नियुक्तान्ब्रह्माऽभिष्टौति होतृवदनुवाकेन सहस्रशीर्षेति ११
विश्वास-प्रस्तुतिः
कपिञ्जलादिवदुत्सृजन्ति ब्राह्मणादीन् १२
मूलम्
कपिञ्जलादिवदुत्सृजन्ति ब्राह्मणादीन् १२
विश्वास-प्रस्तुतिः
स्विष्टकृद्वनस्पत्यन्तरे पुरुषदेवताभ्यो जुहोति १३
मूलम्
स्विष्टकृद्वनस्पत्यन्तरे पुरुषदेवताभ्यो जुहोति १३
विश्वास-प्रस्तुतिः
सपुरुषमश्वमेधवद्दक्षिणा १४
मूलम्
सपुरुषमश्वमेधवद्दक्षिणा १४
विश्वास-प्रस्तुतिः
सर्वस्वं ब्राह्मणस्य १५
मूलम्
सर्वस्वं ब्राह्मणस्य १५
विश्वास-प्रस्तुतिः
प्रतिदैवतं तिस्रस्तिस्रोऽनूबन्ध्याः पञ्चोत्तमायाम् १६
मूलम्
प्रतिदैवतं तिस्रस्तिस्रोऽनूबन्ध्याः पञ्चोत्तमायाम् १६
विश्वास-प्रस्तुतिः
त्रैधातव्यन्ते समारोह्याऽत्मन्नग्नी सूर्यमुपस्थायाऽद्भ्यः सम्भृत इत्यनुवाकेनाऽनपेक्षमाणोऽरण्यं गत्वा न प्रत्येयात् १७
मूलम्
त्रैधातव्यन्ते समारोह्याऽत्मन्नग्नी सूर्यमुपस्थायाऽद्भ्यः सम्भृत इत्यनुवाकेनाऽनपेक्षमाणोऽरण्यं गत्वा न प्रत्येयात् १७
विश्वास-प्रस्तुतिः
ग्राम वा विवत्सन्नरण्योः १८
मूलम्
ग्राम वा विवत्सन्नरण्योः १८