विश्वास-प्रस्तुतिः
लोहितमवद्यति गोमृगकण्ठाश्वशफयोरयस्मये चरौ १
मूलम्
लोहितमवद्यति गोमृगकण्ठाश्वशफयोरयस्मये चरौ १
विश्वास-प्रस्तुतिः
वेतसशाखासु प्राजापत्यानाम् २
मूलम्
वेतसशाखासु प्राजापत्यानाम् २
विश्वास-प्रस्तुतिः
अश्वस्य वा ३
मूलम्
अश्वस्य वा ३
विश्वास-प्रस्तुतिः
स्विष्टकृद्वदनस्पत्यन्तरे शूल्यं हुत्वा देवताऽश्वाङ्गेभ्यो हुहोत्यमुष्मै स्वाहेति प्रतिदेवतं शादप्रभृतित्वगन्तेभ्यः ४
मूलम्
स्विष्टकृद्वदनस्पत्यन्तरे शूल्यं हुत्वा देवताऽश्वाङ्गेभ्यो हुहोत्यमुष्मै स्वाहेति प्रतिदेवतं शादप्रभृतित्वगन्तेभ्यः ४
विश्वास-प्रस्तुतिः
विमुखाच्च परेभ्यः ५
मूलम्
विमुखाच्च परेभ्यः ५
विश्वास-प्रस्तुतिः
मा नो मित्र इति च प्रत्यृचमनुवाकाभ्याम् ६
मूलम्
मा नो मित्र इति च प्रत्यृचमनुवाकाभ्याम् ६
विश्वास-प्रस्तुतिः
अन्त्यां द्यावापृथिवीयाम् ७
मूलम्
अन्त्यां द्यावापृथिवीयाम् ७
विश्वास-प्रस्तुतिः
स्विष्टकृदन्तेऽग्निभिः स्विष्टकृद्भ्यः स्वाहेति लोहितं जुहोति यथावत्तम् ८
मूलम्
स्विष्टकृदन्तेऽग्निभिः स्विष्टकृद्भ्यः स्वाहेति लोहितं जुहोति यथावत्तम् ८
विश्वास-प्रस्तुतिः
अश्वशफेन वाऽनुयाजान्ते ९
मूलम्
अश्वशफेन वाऽनुयाजान्ते ९
विश्वास-प्रस्तुतिः
अयस्मयेन वा पत्नीसंयाजान्ते १०
मूलम्
अयस्मयेन वा पत्नीसंयाजान्ते १०
विश्वास-प्रस्तुतिः
इमा नु कमिति च द्विपदाः ११
मूलम्
इमा नु कमिति च द्विपदाः ११
विश्वास-प्रस्तुतिः
अतिरात्र उत्तमः १२
मूलम्
अतिरात्र उत्तमः १२
विश्वास-प्रस्तुतिः
सर्वस्तोमो ज्य्तोर्गौरायुरभिजिद्विश्वजिन्महाव्रतमप्तोर्यामो वा १३
मूलम्
सर्वस्तोमो ज्य्तोर्गौरायुरभिजिद्विश्वजिन्महाव्रतमप्तोर्यामो वा १३
विश्वास-प्रस्तुतिः
आप्तोर्यामे तिरोऽह्नीयेभ्यो रात्रिपर्याय उत्तमः १४
मूलम्
आप्तोर्यामे तिरोऽह्नीयेभ्यो रात्रिपर्याय उत्तमः १४
विश्वास-प्रस्तुतिः
अग्निष्ठे प्राजापत्यौ च १५
मूलम्
अग्निष्ठे प्राजापत्यौ च १५
विश्वास-प्रस्तुतिः
अवभृथेष्ट्यन्तेऽप्सु मग्नस्य पिङ्गलखलतिविक्लिधशुक्लस्य मूर्धनि जुहोति जुम्बकाय स्वाहेति १६
मूलम्
अवभृथेष्ट्यन्तेऽप्सु मग्नस्य पिङ्गलखलतिविक्लिधशुक्लस्य मूर्धनि जुहोति जुम्बकाय स्वाहेति १६
विश्वास-प्रस्तुतिः
उत्क्रान्ते यजमाने पापकृतोऽभ्यवयन्त्यचरित्वा व्रतानि १७
मूलम्
उत्क्रान्ते यजमाने पापकृतोऽभ्यवयन्त्यचरित्वा व्रतानि १७
विश्वास-प्रस्तुतिः
अश्वमेधपूताख्यास्ते १८
मूलम्
अश्वमेधपूताख्यास्ते १८
विश्वास-प्रस्तुतिः
नानाऽवभृथानि वा १९
मूलम्
नानाऽवभृथानि वा १९
विश्वास-प्रस्तुतिः
कुम्भोपमारणान्तं पूर्वयोः २०
मूलम्
कुम्भोपमारणान्तं पूर्वयोः २०
विश्वास-प्रस्तुतिः
शेषे दीक्षाव्रताऽभावात् २१
मूलम्
शेषे दीक्षाव्रताऽभावात् २१
विश्वास-प्रस्तुतिः
सर्वं वा श्रुतेः २२
मूलम्
सर्वं वा श्रुतेः २२
विश्वास-प्रस्तुतिः
एकविंशतिरनूबन्ध्याः २३
मूलम्
एकविंशतिरनूबन्ध्याः २३
विश्वास-प्रस्तुतिः
उदवसानीयान्ते भार्या ददाति यथासम्वादं सानुचरीः २४
मूलम्
उदवसानीयान्ते भार्या ददाति यथासम्वादं सानुचरीः २४
विश्वास-प्रस्तुतिः
कुमारीं पालागलीं चाध्वर्यवे २५
मूलम्
कुमारीं पालागलीं चाध्वर्यवे २५
विश्वास-प्रस्तुतिः
अनुचरीर्वा फलाधिकारादितरासाम् २६
मूलम्
अनुचरीर्वा फलाधिकारादितरासाम् २६
विश्वास-प्रस्तुतिः
अनारभ्यत्वाच्च २७
मूलम्
अनारभ्यत्वाच्च २७
विश्वास-प्रस्तुतिः
द्वादशाहमाग्नेयः पुरोडाशः २८
मूलम्
द्वादशाहमाग्नेयः पुरोडाशः २८
विश्वास-प्रस्तुतिः
ब्रह्मौदनो वा २९
मूलम्
ब्रह्मौदनो वा २९
विश्वास-प्रस्तुतिः
प्रत्यृतु पशूनालभते षट् षड् वसन्ताद्याग्नेयानैन्द्रा न्पार्जन्यान्मारुतान्वा मैत्रावरुणानैन्द्रा वैष्णवानैन्द्रा बार्हस्पत्यान् ३०
मूलम्
प्रत्यृतु पशूनालभते षट् षड् वसन्ताद्याग्नेयानैन्द्रा न्पार्जन्यान्मारुतान्वा मैत्रावरुणानैन्द्रा वैष्णवानैन्द्रा बार्हस्पत्यान् ३०