विश्वास-प्रस्तुतिः
तिस्रः पत्न्योऽसिपथान्कल्पयन्त्यश्वस्य सूचीभिर्लौहराजतसौवर्णीभिर्मणिसङ्ख्याभिर्गायत्री त्रिष्टुबिति १
मूलम्
तिस्रः पत्न्योऽसिपथान्कल्पयन्त्यश्वस्य सूचीभिर्लौहराजतसौवर्णीभिर्मणिसङ्ख्याभिर्गायत्री त्रिष्टुबिति १
विश्वास-प्रस्तुतिः
रजतसुवर्णसीसाभिर्वा मन्त्राम्नानात् २
मूलम्
रजतसुवर्णसीसाभिर्वा मन्त्राम्नानात् २
विश्वास-प्रस्तुतिः
सौवर्णासिरश्वः ३
मूलम्
सौवर्णासिरश्वः ३
विश्वास-प्रस्तुतिः
लौहाः पर्यङ्ग्याणाम् ४
मूलम्
लौहाः पर्यङ्ग्याणाम् ४
विश्वास-प्रस्तुतिः
आयसाऽइतरेषाम् ५
मूलम्
आयसाऽइतरेषाम् ५
विश्वास-प्रस्तुतिः
अश्वं विशास्त्यनुवाकेन कस्त्वाऽऽच्छयतीति ६
मूलम्
अश्वं विशास्त्यनुवाकेन कस्त्वाऽऽच्छयतीति ६
विश्वास-प्रस्तुतिः
मेदोऽस्योद्धरन्ति वपार्थे ७
मूलम्
मेदोऽस्योद्धरन्ति वपार्थे ७
विश्वास-प्रस्तुतिः
लोहितं चाऽस्य श्रपयन्ति ८
मूलम्
लोहितं चाऽस्य श्रपयन्ति ८
विश्वास-प्रस्तुतिः
प्राजापत्यवपानामुत्तरतः श्रपणं होमो हविषश्च ९
मूलम्
प्राजापत्यवपानामुत्तरतः श्रपणं होमो हविषश्च ९
विश्वास-प्रस्तुतिः
प्राग्वपाहोमाद्घोताऽध्वर्यू च सदसि संवदेते चतसृभिः कः स्विदेकाकीति पूर्ववत् १०
मूलम्
प्राग्वपाहोमाद्घोताऽध्वर्यू च सदसि संवदेते चतसृभिः कः स्विदेकाकीति पूर्ववत् १०
विश्वास-प्रस्तुतिः
ब्रह्मोद्गातारौ च पृच्छामि त्वेति ११
मूलम्
ब्रह्मोद्गातारौ च पृच्छामि त्वेति ११
विश्वास-प्रस्तुतिः
पुनः पूर्वावपरेणोत्तरवेदिं का स्विदासीदिति १२
मूलम्
पुनः पूर्वावपरेणोत्तरवेदिं का स्विदासीदिति १२
विश्वास-प्रस्तुतिः
उत्तरौ च कत्यस्येति १३
मूलम्
उत्तरौ च कत्यस्येति १३
विश्वास-प्रस्तुतिः
यजमानोऽध्वर्यु पृच्छामि त्वेति १४
मूलम्
यजमानोऽध्वर्यु पृच्छामि त्वेति १४
विश्वास-प्रस्तुतिः
इयं वेदिरित्यध्वर्युः १५
मूलम्
इयं वेदिरित्यध्वर्युः १५
विश्वास-प्रस्तुतिः
सर्वहुतेन महिम्ना चरति यस्तेऽहन्निति जुहोति १६
मूलम्
सर्वहुतेन महिम्ना चरति यस्तेऽहन्निति जुहोति १६
विश्वास-प्रस्तुतिः
अत्र वा ग्रहणम् १७
मूलम्
अत्र वा ग्रहणम् १७
विश्वास-प्रस्तुतिः
वपाभिश्चरति १८
मूलम्
वपाभिश्चरति १८
विश्वास-प्रस्तुतिः
छागोस्रमेषाः पश्वभिधानाद्यथालिङ्गम् १९
मूलम्
छागोस्रमेषाः पश्वभिधानाद्यथालिङ्गम् १९
विश्वास-प्रस्तुतिः
गुणवचनाच्चोदनाशब्दस्य २०
मूलम्
गुणवचनाच्चोदनाशब्दस्य २०
विश्वास-प्रस्तुतिः
प्रकृतौ चाऽवचनात् २१
मूलम्
प्रकृतौ चाऽवचनात् २१
विश्वास-प्रस्तुतिः
एकविंशतिप्रदानानेकेऽन्वक्चातुर्मास्यदेवताः पितृत्रैयम्बकपुनरुक्तवर्जम् २२
मूलम्
एकविंशतिप्रदानानेकेऽन्वक्चातुर्मास्यदेवताः पितृत्रैयम्बकपुनरुक्तवर्जम् २२
विश्वास-प्रस्तुतिः
ऐन्द्रा ग्नवैश्वदेवकायानेके २३
मूलम्
ऐन्द्रा ग्नवैश्वदेवकायानेके २३
विश्वास-प्रस्तुतिः
देवतातन्त्रेण तु २४
मूलम्
देवतातन्त्रेण तु २४
विश्वास-प्रस्तुतिः
न कालभेदात् २५
मूलम्
न कालभेदात् २५
विश्वास-प्रस्तुतिः
वपान्ते द्वितीयेन पूर्ववद्यस्ते रात्राविति जुहोति २६
मूलम्
वपान्ते द्वितीयेन पूर्ववद्यस्ते रात्राविति जुहोति २६
विश्वास-प्रस्तुतिः
शूलेऽश्वशेषश्रपणम् २७
मूलम्
शूलेऽश्वशेषश्रपणम् २७
विश्वास-प्रस्तुतिः
सर्पणप्रभृत्यापश्वासादनात् कृत्वा २८
मूलम्
सर्पणप्रभृत्यापश्वासादनात् कृत्वा २८