विश्वास-प्रस्तुतिः
अग्निमन्थनादि करोति १
मूलम्
अग्निमन्थनादि करोति १
विश्वास-प्रस्तुतिः
अग्निष्ठेऽश्वतूपरगोमृगान्नियुनक्ति २
मूलम्
अग्निष्ठेऽश्वतूपरगोमृगान्नियुनक्ति २
विश्वास-प्रस्तुतिः
यथोक्तमश्वादौ देवताः ३
मूलम्
यथोक्तमश्वादौ देवताः ३
विश्वास-प्रस्तुतिः
पर्यङ्ग्यानश्वे ४
मूलम्
पर्यङ्ग्यानश्वे ४
विश्वास-प्रस्तुतिः
पञ्चदश पञ्चदश रोहितादीन्त्सौर्यान्तानितरेषु ५
मूलम्
पञ्चदश पञ्चदश रोहितादीन्त्सौर्यान्तानितरेषु ५
विश्वास-प्रस्तुतिः
कपिञ्जलादीन्पृषतान्तांस्त्रयोदश त्रयोदश यूपान्तरेषु ६
मूलम्
कपिञ्जलादीन्पृषतान्तांस्त्रयोदश त्रयोदश यूपान्तरेषु ६
विश्वास-प्रस्तुतिः
अश्वप्रोक्षणमद्भयस्त्वा वायुष्ट्वेति ७
मूलम्
अश्वप्रोक्षणमद्भयस्त्वा वायुष्ट्वेति ७
विश्वास-प्रस्तुतिः
उपगृह्णात्यपाम्पेरुरग्निः पशुरिति ८
मूलम्
उपगृह्णात्यपाम्पेरुरग्निः पशुरिति ८
विश्वास-प्रस्तुतिः
कपिञ्जलादीनुत्सृजन्ति पर्यग्निकृतात् ९
मूलम्
कपिञ्जलादीनुत्सृजन्ति पर्यग्निकृतात् ९
विश्वास-प्रस्तुतिः
हिरण्यवासोऽधीवासेष्वश्वसञ्ज्ञपनम् १०
मूलम्
हिरण्यवासोऽधीवासेष्वश्वसञ्ज्ञपनम् १०
विश्वास-प्रस्तुतिः
परिपशव्ये हुत्वा प्राणाय स्वाहेति तिस्रोऽपराः ११
मूलम्
परिपशव्ये हुत्वा प्राणाय स्वाहेति तिस्रोऽपराः ११
विश्वास-प्रस्तुतिः
वाचयति पत्नीर्नयन्नमस्तेऽम्बऽइति १२
मूलम्
वाचयति पत्नीर्नयन्नमस्तेऽम्बऽइति १२
विश्वास-प्रस्तुतिः
अश्वं त्रिस्त्रिः परियन्ति पितृवन्मध्ये गणानां प्रियाणां निधीनामिति १३
मूलम्
अश्वं त्रिस्त्रिः परियन्ति पितृवन्मध्ये गणानां प्रियाणां निधीनामिति १३
विश्वास-प्रस्तुतिः
प्रक्षालितेषु महिष्यश्वमुपसंविशत्याऽहमजानीति १४
मूलम्
प्रक्षालितेषु महिष्यश्वमुपसंविशत्याऽहमजानीति १४
विश्वास-प्रस्तुतिः
अधीवासेन प्रच्छादयति स्वर्गे लोकऽइति १५
मूलम्
अधीवासेन प्रच्छादयति स्वर्गे लोकऽइति १५
विश्वास-प्रस्तुतिः
अश्वशिश्नमुपस्थे कुरुते वृषा वाजीति १६
मूलम्
अश्वशिश्नमुपस्थे कुरुते वृषा वाजीति १६
विश्वास-प्रस्तुतिः
उत्सक्थ्याऽइत्यश्वं यजमानोऽभिमन्त्रयते १७
मूलम्
उत्सक्थ्याऽइत्यश्वं यजमानोऽभिमन्त्रयते १७
विश्वास-प्रस्तुतिः
अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारः कुमारीपत्नीभिः संवदन्ते यकाऽसकाविति दशर्चस्य द्वाभ्यां द्वाभ्यां हये हयेऽसावित्यामन्त्र्यामन्त्र्य १८
मूलम्
अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारः कुमारीपत्नीभिः संवदन्ते यकाऽसकाविति दशर्चस्य द्वाभ्यां द्वाभ्यां हये हयेऽसावित्यामन्त्र्यामन्त्र्य १८
विश्वास-प्रस्तुतिः
सानुचर्यः प्रत्याहुः १९
मूलम्
सानुचर्यः प्रत्याहुः १९
विश्वास-प्रस्तुतिः
अनुचर्यऽएकेषाम् २०
मूलम्
अनुचर्यऽएकेषाम् २०
विश्वास-प्रस्तुतिः
महिषीमुत्थाप्य पुरुषा दधिक्राव्णऽइत्याहुः २१
मूलम्
महिषीमुत्थाप्य पुरुषा दधिक्राव्णऽइत्याहुः २१