विश्वास-प्रस्तुतिः
प्रातरुक्थ्यः १
मूलम्
प्रातरुक्थ्यः १
विश्वास-प्रस्तुतिः
महिमानौ गृह्णाति सौवर्णेन पूर्वं हिरण्यगर्भ इति द्वितीयं राजतेन यः प्राणत इति २
मूलम्
महिमानौ गृह्णाति सौवर्णेन पूर्वं हिरण्यगर्भ इति द्वितीयं राजतेन यः प्राणत इति २
विश्वास-प्रस्तुतिः
बहिष्पवमानाय सर्पणमश्वमालम्भ्य ३
मूलम्
बहिष्पवमानाय सर्पणमश्वमालम्भ्य ३
विश्वास-प्रस्तुतिः
वडवां दर्शयत्यभिरसति तत्स्तोत्रम् ४
मूलम्
वडवां दर्शयत्यभिरसति तत्स्तोत्रम् ४
विश्वास-प्रस्तुतिः
स्तुवीरन्वा ५
मूलम्
स्तुवीरन्वा ५
विश्वास-प्रस्तुतिः
शतमानं ददाति ६
मूलम्
शतमानं ददाति ६
विश्वास-प्रस्तुतिः
अश्वेनाऽऽक्रमयन्त्यास्तावम् ७
मूलम्
अश्वेनाऽऽक्रमयन्त्यास्तावम् ७
विश्वास-प्रस्तुतिः
ऐकादशिनानुपाकृत्याऽश्वादींश्च ८
मूलम्
ऐकादशिनानुपाकृत्याऽश्वादींश्च ८
विश्वास-प्रस्तुतिः
होतरश्वमभिष्टुहीति प्रेष्यति ९
मूलम्
होतरश्वमभिष्टुहीति प्रेष्यति ९
विश्वास-प्रस्तुतिः
युनक्त्येनं युञ्जन्ति ब्रध्नामिति १०
मूलम्
युनक्त्येनं युञ्जन्ति ब्रध्नामिति १०
विश्वास-प्रस्तुतिः
इतरांश्च युञ्जन्त्यस्येति ११
मूलम्
इतरांश्च युञ्जन्त्यस्येति ११
विश्वास-प्रस्तुतिः
अश्वाः सौवर्णालङ्काराः १२
मूलम्
अश्वाः सौवर्णालङ्काराः १२
विश्वास-प्रस्तुतिः
रथश्च १३
मूलम्
रथश्च १३
विश्वास-प्रस्तुतिः
अपो यात्वाऽवगाढेषु वाचयति यद्वात इति १४
मूलम्
अपो यात्वाऽवगाढेषु वाचयति यद्वात इति १४
विश्वास-प्रस्तुतिः
आयाय विमुक्तमश्वं महिषी वावाता परिवृक्ताऽऽज्येनाभ्यञ्जन्ति पूर्वकायमध्याऽपरकायान् यथादेशं वसवस्त्वेति प्रतिमन्त्रम् १५
मूलम्
आयाय विमुक्तमश्वं महिषी वावाता परिवृक्ताऽऽज्येनाभ्यञ्जन्ति पूर्वकायमध्याऽपरकायान् यथादेशं वसवस्त्वेति प्रतिमन्त्रम् १५
विश्वास-प्रस्तुतिः
अभ्रंश्यमानान्मणीन्त्सौवर्णनेकशतमेकशतं केसरपुच्छेष्वावयन्ति भूर्भुवः स्वरिति प्रतिमहाव्याहृति १६
मूलम्
अभ्रंश्यमानान्मणीन्त्सौवर्णनेकशतमेकशतं केसरपुच्छेष्वावयन्ति भूर्भुवः स्वरिति प्रतिमहाव्याहृति १६
विश्वास-प्रस्तुतिः
अनुचर्यश्च तूष्णीमेकेषाम् १७
मूलम्
अनुचर्यश्च तूष्णीमेकेषाम् १७
विश्वास-प्रस्तुतिः
अश्वाय रात्रिहुतशेषं प्रयच्छति लाजींश्छाचीश्निति १८
मूलम्
अश्वाय रात्रिहुतशेषं प्रयच्छति लाजींश्छाचीश्निति १८
विश्वास-प्रस्तुतिः
अप्स्ववहरणमखादति १९
मूलम्
अप्स्ववहरणमखादति १९
विश्वास-प्रस्तुतिः
ब्रह्मा पृच्छति होतारं यूपमभितः कः स्विदेकाकीति २०
मूलम्
ब्रह्मा पृच्छति होतारं यूपमभितः कः स्विदेकाकीति २०
विश्वास-प्रस्तुतिः
सूर्यऽइत्याचष्टे २१
मूलम्
सूर्यऽइत्याचष्टे २१
विश्वास-प्रस्तुतिः
होता ब्रह्माणं का स्विदासीदिति २२
मूलम्
होता ब्रह्माणं का स्विदासीदिति २२
विश्वास-प्रस्तुतिः
द्यौरिति प्रत्याह २३
मूलम्
द्यौरिति प्रत्याह २३