विश्वास-प्रस्तुतिः
मृतादर्शनयोरन्यस्य रशनादानादि करोत्यश्वयुक्तम् १
मूलम्
मृतादर्शनयोरन्यस्य रशनादानादि करोत्यश्वयुक्तम् १
विश्वास-प्रस्तुतिः
पश्वालम्भनाद्याऽऽध्वरदीक्षणीयायाः कृत्वा चत्वार्योद्ग्रभणानि जुहोत्याध्वरिकाणि २
मूलम्
पश्वालम्भनाद्याऽऽध्वरदीक्षणीयायाः कृत्वा चत्वार्योद्ग्रभणानि जुहोत्याध्वरिकाणि २
विश्वास-प्रस्तुतिः
काय स्वाहेति चाऽश्वमेधिकानि त्रीणि ३
मूलम्
काय स्वाहेति चाऽश्वमेधिकानि त्रीणि ३
विश्वास-प्रस्तुतिः
कृष्णाजिनदीक्षाऽतः ४
मूलम्
कृष्णाजिनदीक्षाऽतः ४
विश्वास-प्रस्तुतिः
अध्वरदीक्षणीयायाश्चत्वारि त्रीणि त्रीणि चाऽश्वमेधिकानि ५
मूलम्
अध्वरदीक्षणीयायाश्चत्वारि त्रीणि त्रीणि चाऽश्वमेधिकानि ५
विश्वास-प्रस्तुतिः
कृष्णाजिनान्तमन्वहम् । प्राकृतव्रतोऽकृतत्वात् ६
मूलम्
कृष्णाजिनान्तमन्वहम् । प्राकृतव्रतोऽकृतत्वात् ६
विश्वास-प्रस्तुतिः
आग्निके च सप्तम्यां निर्वपति ७
मूलम्
आग्निके च सप्तम्यां निर्वपति ७
विश्वास-प्रस्तुतिः
अभ्यञ्जनप्रभृति करोति ८
मूलम्
अभ्यञ्जनप्रभृति करोति ८
विश्वास-प्रस्तुतिः
षडाग्निकानि चतुःस्थाने ९
मूलम्
षडाग्निकानि चतुःस्थाने ९
विश्वास-प्रस्तुतिः
दशमं विश्वो देवस्येति १०
मूलम्
दशमं विश्वो देवस्येति १०
विश्वास-प्रस्तुतिः
कृष्णाजिनाद्या समिदाधानात्कृत्वा आ ब्रह्मन्निति जपति ११
मूलम्
कृष्णाजिनाद्या समिदाधानात्कृत्वा आ ब्रह्मन्निति जपति ११
विश्वास-प्रस्तुतिः
उत्सर्गकाल एके १२
मूलम्
उत्सर्गकाल एके १२
विश्वास-प्रस्तुतिः
दीक्षा द्वादशोपसदश्च १३
मूलम्
दीक्षा द्वादशोपसदश्च १३
विश्वास-प्रस्तुतिः
नित्योदकं देवयजनं पुरस्तात् १४
मूलम्
नित्योदकं देवयजनं पुरस्तात् १४
विश्वास-प्रस्तुतिः
आद्योऽग्निर्द्विगुणस्त्रिगुण एकविंशतिविधो वा १५
मूलम्
आद्योऽग्निर्द्विगुणस्त्रिगुण एकविंशतिविधो वा १५
विश्वास-प्रस्तुतिः
एकादशिनीवदेकविंशतिर्यूपाः १६
मूलम्
एकादशिनीवदेकविंशतिर्यूपाः १६
विश्वास-प्रस्तुतिः
राज्जुदालो मध्ये १७
मूलम्
राज्जुदालो मध्ये १७
विश्वास-प्रस्तुतिः
अभितः पैतुदारवौ १८
मूलम्
अभितः पैतुदारवौ १८
विश्वास-प्रस्तुतिः
षट् षड् बैल्वखादिरपालाशाः १९
मूलम्
षट् षड् बैल्वखादिरपालाशाः १९
विश्वास-प्रस्तुतिः
त्रयस्त्रयोऽभितः २०
मूलम्
त्रयस्त्रयोऽभितः २०
विश्वास-प्रस्तुतिः
प्रतियूपमग्नीषोमीयाः २१
मूलम्
प्रतियूपमग्नीषोमीयाः २१
विश्वास-प्रस्तुतिः
प्रातरग्निष्टोमः २२
मूलम्
प्रातरग्निष्टोमः २२
विश्वास-प्रस्तुतिः
एकादशिन्यौ सवनीयाः पशवो भवन्ति २३
मूलम्
एकादशिन्यौ सवनीयाः पशवो भवन्ति २३
विश्वास-प्रस्तुतिः
मध्यम आग्नेयौ २४
मूलम्
मध्यम आग्नेयौ २४
विश्वास-प्रस्तुतिः
उत्तरयोश्च २५
मूलम्
उत्तरयोश्च २५
विश्वास-प्रस्तुतिः
उत्तमे गावो बहुरूपाः २६
मूलम्
उत्तमे गावो बहुरूपाः २६
विश्वास-प्रस्तुतिः
विजयमध्याद्धोतुः प्राची दिक् दक्षिणा ब्रह्मणोऽध्वर्योः प्रतीच्युद्गातुरुदीची २७
मूलम्
विजयमध्याद्धोतुः प्राची दिक् दक्षिणा ब्रह्मणोऽध्वर्योः प्रतीच्युद्गातुरुदीची २७
विश्वास-प्रस्तुतिः
तृतीयं तृतीयमन्वहं ददाति भूमिपुरुषब्राह्मणस्ववर्जम् २८
मूलम्
तृतीयं तृतीयमन्वहं ददाति भूमिपुरुषब्राह्मणस्ववर्जम् २८
विश्वास-प्रस्तुतिः
तृतीयसवनं उक्थ्यं गृहीत्वाऽऽग्निमारुतकाले त्रैधं विगृह्णाति २९
मूलम्
तृतीयसवनं उक्थ्यं गृहीत्वाऽऽग्निमारुतकाले त्रैधं विगृह्णाति २९
विश्वास-प्रस्तुतिः
तच्चमसाननु होमभक्षौ ३०
मूलम्
तच्चमसाननु होमभक्षौ ३०
विश्वास-प्रस्तुतिः
वसतीवरीर्गृहीत्वा गृहीत्वा प्रतिदिशं समासिच्य परिहरति ३१
मूलम्
वसतीवरीर्गृहीत्वा गृहीत्वा प्रतिदिशं समासिच्य परिहरति ३१
विश्वास-प्रस्तुतिः
आज्यसक्तुधानालाजानामेकैकं जुहोति प्राणाय स्वाहेति प्रतिमन्त्रं सर्वरात्रमावर्तम् ३२
मूलम्
आज्यसक्तुधानालाजानामेकैकं जुहोति प्राणाय स्वाहेति प्रतिमन्त्रं सर्वरात्रमावर्तम् ३२
विश्वास-प्रस्तुतिः
व्युष्ट्या इति व्युष्टायाम् ३३
मूलम्
व्युष्ट्या इति व्युष्टायाम् ३३
विश्वास-प्रस्तुतिः
स्वर्गायेत्युदिते ३४
मूलम्
स्वर्गायेत्युदिते ३४