विश्वास-प्रस्तुतिः
हैव होतरिति प्रतिगृणाति १
मूलम्
हैव होतरिति प्रतिगृणाति १
विश्वास-प्रस्तुतिः
तदन्ते प्रेष्यति वीणागणगिनो राजर्षिभिर्यजमानं सङ्गायतेति २
मूलम्
तदन्ते प्रेष्यति वीणागणगिनो राजर्षिभिर्यजमानं सङ्गायतेति २
विश्वास-प्रस्तुतिः
दक्षिणाग्नौ जुहोति हिङ्गाराय स्वाहेति प्रक्रमान् ३
मूलम्
दक्षिणाग्नौ जुहोति हिङ्गाराय स्वाहेति प्रक्रमान् ३
विश्वास-प्रस्तुतिः
आहवनीयेऽस्तमिते चतस्रो धृतीरिह रन्तिरिति ४
मूलम्
आहवनीयेऽस्तमिते चतस्रो धृतीरिह रन्तिरिति ४
विश्वास-प्रस्तुतिः
वावातासम्वेशनसावित्र्युत्तरमन्द्रा गानपारिप्लवधृतीः संवत्सरम् ५
मूलम्
वावातासम्वेशनसावित्र्युत्तरमन्द्रा गानपारिप्लवधृतीः संवत्सरम् ५
विश्वास-प्रस्तुतिः
अर्धमासमासत्रैमास्यषण्मास्यानि चैके ६
मूलम्
अर्धमासमासत्रैमास्यषण्मास्यानि चैके ६
विश्वास-प्रस्तुतिः
वीणागाथिभ्यां पृथक्शते ददाति ७
मूलम्
वीणागाथिभ्यां पृथक्शते ददाति ७
विश्वास-प्रस्तुतिः
राजर्षिभिः सङ्गायनमा दीक्षणीयायाः ८
मूलम्
राजर्षिभिः सङ्गायनमा दीक्षणीयायाः ८
विश्वास-प्रस्तुतिः
दीक्षान्ते देवैरौपवसथ्यात् ९
मूलम्
दीक्षान्ते देवैरौपवसथ्यात् ९
विश्वास-प्रस्तुतिः
पश्वादौ प्रजापतिना सुत्यासु १०
मूलम्
पश्वादौ प्रजापतिना सुत्यासु १०
विश्वास-प्रस्तुतिः
अन्ते च ११
मूलम्
अन्ते च ११
विश्वास-प्रस्तुतिः
अश्वापदीज्या चरुभिः सावित्र्यन्ते १२
मूलम्
अश्वापदीज्या चरुभिः सावित्र्यन्ते १२
विश्वास-प्रस्तुतिः
पौष्णः स्रामे १३
मूलम्
पौष्णः स्रामे १३
विश्वास-प्रस्तुतिः
सौर्योऽक्ष्यामये १४
मूलम्
सौर्योऽक्ष्यामये १४
विश्वास-प्रस्तुतिः
वारुणोऽप्सु मृते १५
मूलम्
वारुणोऽप्सु मृते १५
विश्वास-प्रस्तुतिः
भूमिकपालो वैश्वानरोऽरिष्ट्यामये १६
मूलम्
भूमिकपालो वैश्वानरोऽरिष्ट्यामये १६
विश्वास-प्रस्तुतिः
लोष्टकपालं जातूकर्ण्यो भेदात् १७
मूलम्
लोष्टकपालं जातूकर्ण्यो भेदात् १७
विश्वास-प्रस्तुतिः
नाशे तन्त्रेण द्यावापृथिव्यः पयो वायव्यं सौर्यः १८
मूलम्
नाशे तन्त्रेण द्यावापृथिव्यः पयो वायव्यं सौर्यः १८
विश्वास-प्रस्तुतिः
अन्यत्राऽपि १९
मूलम्
अन्यत्राऽपि १९
विश्वास-प्रस्तुतिः
प्रजाते वायव्यम् २०
मूलम्
प्रजाते वायव्यम् २०