विश्वास-प्रस्तुतिः
सोऽअर्वन्तमिति वाचयति १
मूलम्
सोऽअर्वन्तमिति वाचयति १
विश्वास-प्रस्तुतिः
वेतसकटेनाऽधोऽश्वं प्लावयति परो मर्त इति २
मूलम्
वेतसकटेनाऽधोऽश्वं प्लावयति परो मर्त इति २
विश्वास-प्रस्तुतिः
अग्निसमीपमानीयाऽग्नये स्वाहेति जुहोत्यनुवाकेन प्रतिमन्त्रम् ३
मूलम्
अग्निसमीपमानीयाऽग्नये स्वाहेति जुहोत्यनुवाकेन प्रतिमन्त्रम् ३
विश्वास-प्रस्तुतिः
सहस्रं वाऽवर्तम् ४
मूलम्
सहस्रं वाऽवर्तम् ४
विश्वास-प्रस्तुतिः
आऽश्वस्रवणविरमणाद्वा ५
मूलम्
आऽश्वस्रवणविरमणाद्वा ५
विश्वास-प्रस्तुतिः
द्वादश कपालान्निर्वपति भिन्नतन्त्राञ्छतमानदक्षिणान्मध्यमस्य राजतः सवित्रे प्रसवित्रे सवित्रऽआसवित्रे सवित्रे सत्यप्रसवायेति ६
मूलम्
द्वादश कपालान्निर्वपति भिन्नतन्त्राञ्छतमानदक्षिणान्मध्यमस्य राजतः सवित्रे प्रसवित्रे सवित्रऽआसवित्रे सवित्रे सत्यप्रसवायेति ६
विश्वास-प्रस्तुतिः
प्रयाजेषु दक्षिणतो ब्राह्मणो यजमानस्य यज्ञदानयुक्ताः स्वयङ्कृतास्तिस्रो गाथा गायत्युत्तरमन्द्रा याम् ७
मूलम्
प्रयाजेषु दक्षिणतो ब्राह्मणो यजमानस्य यज्ञदानयुक्ताः स्वयङ्कृतास्तिस्रो गाथा गायत्युत्तरमन्द्रा याम् ७
विश्वास-प्रस्तुतिः
राजन्यो धृतिषु युद्धजययुक्ताः ८
मूलम्
राजन्यो धृतिषु युद्धजययुक्ताः ८
विश्वास-प्रस्तुतिः
अध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतो विभूर्मात्रेति ९
मूलम्
अध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतो विभूर्मात्रेति ९
विश्वास-प्रस्तुतिः
पशुबदुत्सर्जनं निरष्टेऽश्वशते १०
मूलम्
पशुबदुत्सर्जनं निरष्टेऽश्वशते १०
विश्वास-प्रस्तुतिः
देवा आशापाला इति रक्षिणोऽऽस्याऽदिशत्यनुचरीजातीयांस्तावतस्तावतः कवचिनिषङ्गिकलापिदण्डिनो यथासङ्ख्यम् ११
मूलम्
देवा आशापाला इति रक्षिणोऽऽस्याऽदिशत्यनुचरीजातीयांस्तावतस्तावतः कवचिनिषङ्गिकलापिदण्डिनो यथासङ्ख्यम् ११
विश्वास-प्रस्तुतिः
वडवाभ्यो वारणम् १२
मूलम्
वडवाभ्यो वारणम् १२
विश्वास-प्रस्तुतिः
प्रस्नेयाच्चोदकात् १३
मूलम्
प्रस्नेयाच्चोदकात् १३
विश्वास-प्रस्तुतिः
ब्राह्मणोऽश्वमेधेऽविद्वान्वृत्तिः स वः १४
मूलम्
ब्राह्मणोऽश्वमेधेऽविद्वान्वृत्तिः स वः १४
विश्वास-प्रस्तुतिः
पक्वान्नं च सर्वेषु १५
मूलम्
पक्वान्नं च सर्वेषु १५
विश्वास-प्रस्तुतिः
रथकारगृहवासाश्च १६
मूलम्
रथकारगृहवासाश्च १६
विश्वास-प्रस्तुतिः
अभिषेक्या भविष्यत समाप्नुवन्त इत्याह राजपुत्रान् १७
मूलम्
अभिषेक्या भविष्यत समाप्नुवन्त इत्याह राजपुत्रान् १७
विश्वास-प्रस्तुतिः
दक्षिणतो वेदेर्हिरण्यमयेषूपविशन्ति १८
मूलम्
दक्षिणतो वेदेर्हिरण्यमयेषूपविशन्ति १८
विश्वास-प्रस्तुतिः
अध्वर्युयजमानौ कूर्चयोः १९
मूलम्
अध्वर्युयजमानौ कूर्चयोः १९
विश्वास-प्रस्तुतिः
फलकयोर्वा २०
मूलम्
फलकयोर्वा २०
विश्वास-प्रस्तुतिः
होतृब्रह्मोद्गातारः कशिपुषु २१
मूलम्
होतृब्रह्मोद्गातारः कशिपुषु २१
विश्वास-प्रस्तुतिः
होतर्भूतान्याचक्ष्व भूतेष्विमं यजमानमध्यूहेति पारिप्लवं प्रेष्यति २२
मूलम्
होतर्भूतान्याचक्ष्व भूतेष्विमं यजमानमध्यूहेति पारिप्लवं प्रेष्यति २२