(अश्वमेधयज्ञः)
विश्वास-प्रस्तुतिः
राजयज्ञोऽश्वमेधः सर्वकामस्य १
मूलम्
राजयज्ञोऽश्वमेधः सर्वकामस्य १
विश्वास-प्रस्तुतिः
अष्टम्यां नवम्यां वा फाल्गुनीशुक्लस्य २
मूलम्
अष्टम्यां नवम्यां वा फाल्गुनीशुक्लस्य २
विश्वास-प्रस्तुतिः
ग्रीष्म एके ३
मूलम्
ग्रीष्म एके ३
विश्वास-प्रस्तुतिः
बह्मौदनं पचति चतुर्णां पात्राणामञ्जलिप्रसृतानां च ४
मूलम्
बह्मौदनं पचति चतुर्णां पात्राणामञ्जलिप्रसृतानां च ४
विश्वास-प्रस्तुतिः
अक्त्वैनमाद्यर्त्विग्भ्यः प्रयच्छति ५
मूलम्
अक्त्वैनमाद्यर्त्विग्भ्यः प्रयच्छति ५
विश्वास-प्रस्तुतिः
तेभ्यश्चत्वारि सहस्राणि ददाति शतमानांश्च तावतः ६
मूलम्
तेभ्यश्चत्वारि सहस्राणि ददाति शतमानांश्च तावतः ६
विश्वास-प्रस्तुतिः
अक्त्वाऽऽज्यशेषेण रशनां द्वादशारत्निं त्रयोदशारत्निं वा निदधाति ७
मूलम्
अक्त्वाऽऽज्यशेषेण रशनां द्वादशारत्निं त्रयोदशारत्निं वा निदधाति ७
विश्वास-प्रस्तुतिः
आदानकाले वाऽञ्जनम् ८
मूलम्
आदानकाले वाऽञ्जनम् ८
विश्वास-प्रस्तुतिः
निष्कं प्रतिमुञ्चन्वाचयति तेजोऽसीति ९
मूलम्
निष्कं प्रतिमुञ्चन्वाचयति तेजोऽसीति ९
विश्वास-प्रस्तुतिः
वाचं यच्छेति १०
मूलम्
वाचं यच्छेति १०
विश्वास-प्रस्तुतिः
आ वरदानाद्वाग्यमनम् ११
मूलम्
आ वरदानाद्वाग्यमनम् ११
विश्वास-प्रस्तुतिः
पत्न्यश्चाऽयन्त्यलङ्कृता निष्किण्यो महिषी वावाता परिवृक्ता पालागली सानुचर्यः शतेन शतेन १२
मूलम्
पत्न्यश्चाऽयन्त्यलङ्कृता निष्किण्यो महिषी वावाता परिवृक्ता पालागली सानुचर्यः शतेन शतेन १२
विश्वास-प्रस्तुतिः
राजदुहितरः प्रथमायाः १३
मूलम्
राजदुहितरः प्रथमायाः १३
विश्वास-प्रस्तुतिः
राजन्यानां द्वितीयायाः १४
मूलम्
राजन्यानां द्वितीयायाः १४
विश्वास-प्रस्तुतिः
सूतग्रामण्यां तृतीयायाः १५
मूलम्
सूतग्रामण्यां तृतीयायाः १५
विश्वास-प्रस्तुतिः
क्षात्रसङ्ग्रहीतृणां चतुर्थ्याः १६
मूलम्
क्षात्रसङ्ग्रहीतृणां चतुर्थ्याः १६
विश्वास-प्रस्तुतिः
अग्न्याधेयवत्प्रविश्य हुतेऽग्निहोत्रेऽपरेण गार्हपत्यमुदक्शिराः संविशत्यूर्वन्तरे वावाताया ब्रह्मचारी १७
मूलम्
अग्न्याधेयवत्प्रविश्य हुतेऽग्निहोत्रेऽपरेण गार्हपत्यमुदक्शिराः संविशत्यूर्वन्तरे वावाताया ब्रह्मचारी १७
विश्वास-प्रस्तुतिः
इतराश्चाऽन्वक् १८
मूलम्
इतराश्चाऽन्वक् १८
विश्वास-प्रस्तुतिः
प्रातराहुत्यां हुतायां पूर्णाहुत्यन्ते वरदानं ब्रह्मणे १९
मूलम्
प्रातराहुत्यां हुतायां पूर्णाहुत्यन्ते वरदानं ब्रह्मणे १९
विश्वास-प्रस्तुतिः
अध्वर्यवे च प्रतिमुक्तं निष्कम् २०
मूलम्
अध्वर्यवे च प्रतिमुक्तं निष्कम् २०
विश्वास-प्रस्तुतिः
पुरोडाशोऽग्नये पथिकृते २१
मूलम्
पुरोडाशोऽग्नये पथिकृते २१
विश्वास-प्रस्तुतिः
शतमानं दक्षिणा सौवर्णम् २२
मूलम्
शतमानं दक्षिणा सौवर्णम् २२
विश्वास-प्रस्तुतिः
हिरण्यपरिमाणेऽन्यत्रापि २३
मूलम्
हिरण्यपरिमाणेऽन्यत्रापि २३
विश्वास-प्रस्तुतिः
पौष्णं चरुं निर्वपति वासःशतं दक्षिणा २४
मूलम्
पौष्णं चरुं निर्वपति वासःशतं दक्षिणा २४
विश्वास-प्रस्तुतिः
देवस्य त्वेति रशनामादाय ब्रह्मन्नश्वं भन्त्स्यामीत्याह २५
मूलम्
देवस्य त्वेति रशनामादाय ब्रह्मन्नश्वं भन्त्स्यामीत्याह २५
विश्वास-प्रस्तुतिः
तं बधानेति ब्रह्माऽनुज्ञातोऽभिधाऽअसीति बध्नात्यश्वं त्रिरूपम् २६
मूलम्
तं बधानेति ब्रह्माऽनुज्ञातोऽभिधाऽअसीति बध्नात्यश्वं त्रिरूपम् २६
विश्वास-प्रस्तुतिः
सर्वरूपं वा २७
मूलम्
सर्वरूपं वा २७
विश्वास-प्रस्तुतिः
शीघ्रम् २८
मूलम्
शीघ्रम् २८
विश्वास-प्रस्तुतिः
दक्षिणधुर्यसमम् २९
मूलम्
दक्षिणधुर्यसमम् २९
विश्वास-प्रस्तुतिः
साहस्रम् ३०
मूलम्
साहस्रम् ३०
विश्वास-प्रस्तुतिः
ललामम् ३१
मूलम्
ललामम् ३१
विश्वास-प्रस्तुतिः
कृत्तिकाञ्जिं वा ३२
मूलम्
कृत्तिकाञ्जिं वा ३२
विश्वास-प्रस्तुतिः
पूर्वकायकृष्णं शुक्लाऽपरम् ३३
मूलम्
पूर्वकायकृष्णं शुक्लाऽपरम् ३३
विश्वास-प्रस्तुतिः
कृष्णसारङ्गं वा ३४
मूलम्
कृष्णसारङ्गं वा ३४
विश्वास-प्रस्तुतिः
स्थावरा अपो गत्वा प्रजापतये त्वेति प्रोक्षत्यश्वं प्रतिमन्त्रम् ३५
मूलम्
स्थावरा अपो गत्वा प्रजापतये त्वेति प्रोक्षत्यश्वं प्रतिमन्त्रम् ३५
विश्वास-प्रस्तुतिः
आयोगवमाह श्वानं चतुरक्षमभिहन्यस्वेति ३६
मूलम्
आयोगवमाह श्वानं चतुरक्षमभिहन्यस्वेति ३६
विश्वास-प्रस्तुतिः
पुँ श्चलूमेके ३७
मूलम्
पुँ श्चलूमेके ३७
विश्वास-प्रस्तुतिः
सिध्रकमुसलेनैनं हन्ति ३८
मूलम्
सिध्रकमुसलेनैनं हन्ति ३८