विश्वास-प्रस्तुतिः
अश्विना तेजसाऽश्विना पिबतामिति याज्याऽनुवाक्ये सशस्त्रस्य १
मूलम्
अश्विना तेजसाऽश्विना पिबतामिति याज्याऽनुवाक्ये सशस्त्रस्य १
विश्वास-प्रस्तुतिः
अनुवाचनप्रैषौ समस्याऽनुयाजप्रैषा देवं बर्हिरिति २
मूलम्
अनुवाचनप्रैषौ समस्याऽनुयाजप्रैषा देवं बर्हिरिति २
विश्वास-प्रस्तुतिः
याज्याश्च ३
मूलम्
याज्याश्च ३
विश्वास-प्रस्तुतिः
अग्निमद्येति सूक्तवाकप्रैषः ४
मूलम्
अग्निमद्येति सूक्तवाकप्रैषः ४
विश्वास-प्रस्तुतिः
प्राकृतं सूक्तवाकप्रभृति प्रागवभृथेष्टेः ५
मूलम्
प्राकृतं सूक्तवाकप्रभृति प्रागवभृथेष्टेः ५
विश्वास-प्रस्तुतिः
अनुक्तं च ६
मूलम्
अनुक्तं च ६
विश्वास-प्रस्तुतिः
इमं मे तत्त्वेत्येककपालस्य ७
मूलम्
इमं मे तत्त्वेत्येककपालस्य ७
विश्वास-प्रस्तुतिः
अग्नीवरुणयोस्त्वन्नः स त्वमिति ८
मूलम्
अग्नीवरुणयोस्त्वन्नः स त्वमिति ८
विश्वास-प्रस्तुतिः
आदित्यस्य सुत्रामाणं महीमु षु मातरमिति ९
मूलम्
आदित्यस्य सुत्रामाणं महीमु षु मातरमिति ९
विश्वास-प्रस्तुतिः
आ नः प्र बाहवेति पयस्यायाः १०
मूलम्
आ नः प्र बाहवेति पयस्यायाः १०
विश्वास-प्रस्तुतिः
वाजिनस्य शन्नो वाजे वाज इति ११
मूलम्
वाजिनस्य शन्नो वाजे वाज इति ११
विश्वास-प्रस्तुतिः
अनवानं याज्या १२
मूलम्
अनवानं याज्या १२
विश्वास-प्रस्तुतिः
वायोधसाऽप्रियः समिद्धोऽग्निः समिधेति १३
मूलम्
वायोधसाऽप्रियः समिद्धोऽग्निः समिधेति १३
विश्वास-प्रस्तुतिः
याज्याऽनुवाक्याश्च वपापुरोडाशपशूनां वसन्तेन ऋतुनेति १४
मूलम्
याज्याऽनुवाक्याश्च वपापुरोडाशपशूनां वसन्तेन ऋतुनेति १४