विश्वास-प्रस्तुतिः
सौत्रामण्यामिष्टिपशवो भिन्नतन्त्राः कालभेदात् १
मूलम्
सौत्रामण्यामिष्टिपशवो भिन्नतन्त्राः कालभेदात् १
विश्वास-प्रस्तुतिः
सप्तदश सामिधेन्यः २
मूलम्
सप्तदश सामिधेन्यः २
विश्वास-प्रस्तुतिः
वार्त्रघ्नावाज्यभागौ ३
मूलम्
वार्त्रघ्नावाज्यभागौ ३
विश्वास-प्रस्तुतिः
वृधन्वन्तौ वा पशुषु सान्नाय्यविकारात् ४
मूलम्
वृधन्वन्तौ वा पशुषु सान्नाय्यविकारात् ४
विश्वास-प्रस्तुतिः
आमिक्षायां च ५
मूलम्
आमिक्षायां च ५
विश्वास-प्रस्तुतिः
उपांशुदेवतेष्टिषु ६
मूलम्
उपांशुदेवतेष्टिषु ६
विश्वास-प्रस्तुतिः
विराजौ संयाज्ये अविशेषोपदेशात् ७
मूलम्
विराजौ संयाज्ये अविशेषोपदेशात् ७
विश्वास-प्रस्तुतिः
वसिष्ठशुनकानां नाराशंसः ८
मूलम्
वसिष्ठशुनकानां नाराशंसः ८
विश्वास-प्रस्तुतिः
अत्रीणां चैके ९
मूलम्
अत्रीणां चैके ९
विश्वास-प्रस्तुतिः
प्राकृताः प्रथमोत्तमयोः प्रयाजाऽनुयाजप्रैषाः १०
मूलम्
प्राकृताः प्रथमोत्तमयोः प्रयाजाऽनुयाजप्रैषाः १०
विश्वास-प्रस्तुतिः
ऐन्द्रा नेके प्रथमस्य वायोधसानुत्तमस्य ११
मूलम्
ऐन्द्रा नेके प्रथमस्य वायोधसानुत्तमस्य ११
विश्वास-प्रस्तुतिः
समिद्धऽइन्द्र इत्याप्रियः प्रथमस्य १२
मूलम्
समिद्धऽइन्द्र इत्याप्रियः प्रथमस्य १२
विश्वास-प्रस्तुतिः
याज्याऽनुवाक्याश्च वपापुरोडाशपशूनामायात्विन्द्र इति १३
मूलम्
याज्याऽनुवाक्याश्च वपापुरोडाशपशूनामायात्विन्द्र इति १३
विश्वास-प्रस्तुतिः
होता यक्षत्समिधाग्निमिति प्रयाजप्रैषास्त्रिपशोः १४
मूलम्
होता यक्षत्समिधाग्निमिति प्रयाजप्रैषास्त्रिपशोः १४
विश्वास-प्रस्तुतिः
आप्रियश्च समिद्धोऽअग्निरश्विनेति १५
मूलम्
आप्रियश्च समिद्धोऽअग्निरश्विनेति १५
विश्वास-प्रस्तुतिः
अश्विना हविरिति तिस्रो वपानां याज्यानुवाक्याः १६
मूलम्
अश्विना हविरिति तिस्रो वपानां याज्यानुवाक्याः १६
विश्वास-प्रस्तुतिः
प्रथमामनूच्य द्वितीया याज्या द्वितीयामनूच्य तृतीया याज्या तृतीयामनूच्य प्रथमा याज्या १७
मूलम्
प्रथमामनूच्य द्वितीया याज्या द्वितीयामनूच्य तृतीया याज्या तृतीयामनूच्य प्रथमा याज्या १७
विश्वास-प्रस्तुतिः
यऽइन्द्र इति पुरोडाशानां पूर्ववत् १८
मूलम्
यऽइन्द्र इति पुरोडाशानां पूर्ववत् १८
विश्वास-प्रस्तुतिः
अश्विना गोभिरिति च हविषाम् १९
मूलम्
अश्विना गोभिरिति च हविषाम् १९
विश्वास-प्रस्तुतिः
ग्रहाणां युवं सुरामं पुत्रमिवेति २०
मूलम्
ग्रहाणां युवं सुरामं पुत्रमिवेति २०
विश्वास-प्रस्तुतिः
पशुस्विष्टकृतो यस्मिन्नश्वासोऽहाव्यग्न इति २१
मूलम्
पशुस्विष्टकृतो यस्मिन्नश्वासोऽहाव्यग्न इति २१
विश्वास-प्रस्तुतिः
होता यक्षदश्विनाविति त्रयो वपानां याज्या यथालिङ्गम् २२
मूलम्
होता यक्षदश्विनाविति त्रयो वपानां याज्या यथालिङ्गम् २२
विश्वास-प्रस्तुतिः
ग्रहाणां चतुर्थः २३
मूलम्
ग्रहाणां चतुर्थः २३
विश्वास-प्रस्तुतिः
हविषामुत्तरे यथालिङ्गम् २४
मूलम्
हविषामुत्तरे यथालिङ्गम् २४
विश्वास-प्रस्तुतिः
उत्तमौ वनस्पतिस्विष्टकृतोः २५
मूलम्
उत्तमौ वनस्पतिस्विष्टकृतोः २५
विश्वास-प्रस्तुतिः
प्रतिगरिष्यत्युपविष्टेऽध्वर्यो शॐसावेत्याहूयाश्विना तेजसेत्यनुवाकं शंसति २६
मूलम्
प्रतिगरिष्यत्युपविष्टेऽध्वर्यो शॐसावेत्याहूयाश्विना तेजसेत्यनुवाकं शंसति २६
विश्वास-प्रस्तुतिः
त्रिः प्रथमान्त्ये २७
मूलम्
त्रिः प्रथमान्त्ये २७
विश्वास-प्रस्तुतिः
तृचादिष्वाहूय २८
मूलम्
तृचादिष्वाहूय २८
विश्वास-प्रस्तुतिः
उत्तमां शिष्ट्वा प्राङ् नवम्या दशम्या वा त्रयो देवा ति निवित्सप्तदशाऽवसानोङ्कार ऋगन्ते २९
मूलम्
उत्तमां शिष्ट्वा प्राङ् नवम्या दशम्या वा त्रयो देवा ति निवित्सप्तदशाऽवसानोङ्कार ऋगन्ते २९
विश्वास-प्रस्तुतिः
अन्त्येऽक्षरे स्वरप्रभृति प्रणवे लोपः ३०
मूलम्
अन्त्येऽक्षरे स्वरप्रभृति प्रणवे लोपः ३०
विश्वास-प्रस्तुतिः
तस्मिन्प्रणवान्तं चैके ३१
मूलम्
तस्मिन्प्रणवान्तं चैके ३१