विश्वास-प्रस्तुतिः
साम प्रेष्यति १
मूलम्
साम प्रेष्यति १
विश्वास-प्रस्तुतिः
ऐन्द्र यांबृहत्यां गायति २
मूलम्
ऐन्द्र यांबृहत्यां गायति २
विश्वास-प्रस्तुतिः
संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सर्वे निधनमुपयन्ति ३
मूलम्
संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सर्वे निधनमुपयन्ति ३
विश्वास-प्रस्तुतिः
सञ्जित्यै विजित्यै सत्यजित्यै जित्या इति क्षत्रियस्य ४
मूलम्
सञ्जित्यै विजित्यै सत्यजित्यै जित्या इति क्षत्रियस्य ४
विश्वास-प्रस्तुतिः
सम्यष्ट्यै पुष्ट्या इति वैश्यस्य ५
मूलम्
सम्यष्ट्यै पुष्ट्या इति वैश्यस्य ५
विश्वास-प्रस्तुतिः
यथाम्नातं वा सर्वेषाम् ६
मूलम्
यथाम्नातं वा सर्वेषाम् ६
विश्वास-प्रस्तुतिः
आस्ते प्रतिगरिष्यन् ७
मूलम्
आस्ते प्रतिगरिष्यन् ७
विश्वास-प्रस्तुतिः
त्रया देवा इति शस्त्रान्ते जुहोति ८
मूलम्
त्रया देवा इति शस्त्रान्ते जुहोति ८
विश्वास-प्रस्तुतिः
शेषमृत्विजः प्राणभक्षं भक्षयन्ति प्राणपा म इति ९
मूलम्
शेषमृत्विजः प्राणभक्षं भक्षयन्ति प्राणपा म इति ९
विश्वास-प्रस्तुतिः
प्रत्यक्षभक्षं यजमानो लोमानि प्रयतिरिति १०
मूलम्
प्रत्यक्षभक्षं यजमानो लोमानि प्रयतिरिति १०
विश्वास-प्रस्तुतिः
स्विष्टकृत्प्रभृत्या बर्हिर्होमात्कृत्वा परिस्रुत्क्षीरलिप्तान्यादायाऽवभृथवद्गमनम् ११
मूलम्
स्विष्टकृत्प्रभृत्या बर्हिर्होमात्कृत्वा परिस्रुत्क्षीरलिप्तान्यादायाऽवभृथवद्गमनम् ११
विश्वास-प्रस्तुतिः
आशूलाऽभिमन्त्रणात्कृत्वोदकाधिष्ठानप्रभृत्याऽवभृथेष्टेः १२
मूलम्
आशूलाऽभिमन्त्रणात्कृत्वोदकाधिष्ठानप्रभृत्याऽवभृथेष्टेः १२
विश्वास-प्रस्तुतिः
मासरकुम्भं प्लावयति यद्देवा इति १३
मूलम्
मासरकुम्भं प्लावयति यद्देवा इति १३
विश्वास-प्रस्तुतिः
पूर्ववन्मज्जनम् १४
मूलम्
पूर्ववन्मज्जनम् १४
विश्वास-प्रस्तुतिः
सुमित्रिया न इत्यपोऽञ्जलिनाऽऽदाय दुर्मित्रिया इति द्वेष्यं परि षिञ्चति द्वौ विक्रमा उदङ्गत्वा १५
मूलम्
सुमित्रिया न इत्यपोऽञ्जलिनाऽऽदाय दुर्मित्रिया इति द्वेष्यं परि षिञ्चति द्वौ विक्रमा उदङ्गत्वा १५
विश्वास-प्रस्तुतिः
अवभृथवत्स्नात्वा वासोऽपासनं द्रुपदादिवेति १६
मूलम्
अवभृथवत्स्नात्वा वासोऽपासनं द्रुपदादिवेति १६
विश्वास-प्रस्तुतिः
सोमवदुत्क्रमणमागमनं च १७
मूलम्
सोमवदुत्क्रमणमागमनं च १७
विश्वास-प्रस्तुतिः
आहवनीयमुपतिष्ठतेऽपोऽअद्येति १८
मूलम्
आहवनीयमुपतिष्ठतेऽपोऽअद्येति १८
विश्वास-प्रस्तुतिः
एधोऽसीति समिधमादायाऽऽहवनीयेऽभ्यादधाति समिदसीति १९
मूलम्
एधोऽसीति समिधमादायाऽऽहवनीयेऽभ्यादधाति समिदसीति १९
विश्वास-प्रस्तुतिः
जुहोति च समाववर्त्तीति २०
मूलम्
जुहोति च समाववर्त्तीति २०
विश्वास-प्रस्तुतिः
उदवसाय पयस्या मैत्रावरुणी २१
मूलम्
उदवसाय पयस्या मैत्रावरुणी २१
विश्वास-प्रस्तुतिः
तदन्ते पशुरिन्द्रा य वयोधसे २२
मूलम्
तदन्ते पशुरिन्द्रा य वयोधसे २२