विश्वास-प्रस्तुतिः
पशुपुरोडाशान्निर्वपत्यैन्द्रं सावित्रं वारुणं दशकपालम् १
मूलम्
पशुपुरोडाशान्निर्वपत्यैन्द्रं सावित्रं वारुणं दशकपालम् १
विश्वास-प्रस्तुतिः
एककपालं चाऽवभृथाय २
मूलम्
एककपालं चाऽवभृथाय २
विश्वास-प्रस्तुतिः
आसाद्यैनानाज्यभागौ यजत्यत्र स्विष्टकृद्वनस्पत्योः प्रैषदर्शनात् ३
मूलम्
आसाद्यैनानाज्यभागौ यजत्यत्र स्विष्टकृद्वनस्पत्योः प्रैषदर्शनात् ३
विश्वास-प्रस्तुतिः
यथोक्तं वा मन्त्राणामविधानात् ४
मूलम्
यथोक्तं वा मन्त्राणामविधानात् ४
विश्वास-प्रस्तुतिः
त्रयस्त्रिंशतं दक्षिणा ददात्यनुशिशुं च वडवधेनुम् ५
मूलम्
त्रयस्त्रिंशतं दक्षिणा ददात्यनुशिशुं च वडवधेनुम् ५
विश्वास-प्रस्तुतिः
एकादशिनिधर्माः पशुगणेषु ६
मूलम्
एकादशिनिधर्माः पशुगणेषु ६
विश्वास-प्रस्तुतिः
शमित्रनुशासनप्रभृति वनस्पत्यन्तं कृत्वा सोमासन्दीवदासन्दीं जानुमात्रपादीं वेद्योर्निदधाति क्षत्रस्य योनिरिति ७
मूलम्
शमित्रनुशासनप्रभृति वनस्पत्यन्तं कृत्वा सोमासन्दीवदासन्दीं जानुमात्रपादीं वेद्योर्निदधाति क्षत्रस्य योनिरिति ७
विश्वास-प्रस्तुतिः
कृष्णाजिनमस्यामास्तृणाति मा त्वेति ८
मूलम्
कृष्णाजिनमस्यामास्तृणाति मा त्वेति ८
विश्वास-प्रस्तुतिः
तस्मिन्नास्ते यजमानो निषसादेति ९
मूलम्
तस्मिन्नास्ते यजमानो निषसादेति ९
विश्वास-प्रस्तुतिः
पादयो रुक्मा उपास्यति राजतं सव्ये मृत्योरिति १०
मूलम्
पादयो रुक्मा उपास्यति राजतं सव्ये मृत्योरिति १०
विश्वास-प्रस्तुतिः
सौवर्णं शिरस्येके विद्योदिति ११
मूलम्
सौवर्णं शिरस्येके विद्योदिति ११
विश्वास-प्रस्तुतिः
खुरैर्वसाग्रहान्द्वात्रिंशतं जुहोति सीसेनेति प्रत्यृचम् १२
मूलम्
खुरैर्वसाग्रहान्द्वात्रिंशतं जुहोति सीसेनेति प्रत्यृचम् १२
विश्वास-प्रस्तुतिः
द्वौ द्वौ हुत्वा शेषान्त्सते करोति १३
मूलम्
द्वौ द्वौ हुत्वा शेषान्त्सते करोति १३
विश्वास-प्रस्तुतिः
सर्वसुरभ्युन्मृदितं शेषैरभिषिञ्चत्या मुखादवस्रावयन्प्रतिदिशं सर्वत्र सावित्रमश्विनोः सरस्वत्याऽइन्द्र स्येति प्रतिमन्त्रम् १४
मूलम्
सर्वसुरभ्युन्मृदितं शेषैरभिषिञ्चत्या मुखादवस्रावयन्प्रतिदिशं सर्वत्र सावित्रमश्विनोः सरस्वत्याऽइन्द्र स्येति प्रतिमन्त्रम् १४
विश्वास-प्रस्तुतिः
सर्वाभिश्चतुर्थम् १५
मूलम्
सर्वाभिश्चतुर्थम् १५
विश्वास-प्रस्तुतिः
महाव्याहृतिभिरेके १६
मूलम्
महाव्याहृतिभिरेके १६
विश्वास-प्रस्तुतिः
उत्तमेन वा १७
मूलम्
उत्तमेन वा १७
विश्वास-प्रस्तुतिः
उन्मर्दनमभिषेकेऽवनीयैके १८
मूलम्
उन्मर्दनमभिषेकेऽवनीयैके १८
विश्वास-प्रस्तुतिः
यजमानमालभते कोऽसीति १९
मूलम्
यजमानमालभते कोऽसीति १९
विश्वास-प्रस्तुतिः
सुश्लोकेत्यालब्धो ह्वयति २०
मूलम्
सुश्लोकेत्यालब्धो ह्वयति २०
विश्वास-प्रस्तुतिः
अङ्गानि चाऽलभते यथालिङ्गं शिरो मऽइति प्रतिमन्त्रम् २१
मूलम्
अङ्गानि चाऽलभते यथालिङ्गं शिरो मऽइति प्रतिमन्त्रम् २१
विश्वास-प्रस्तुतिः
उद्यच्छन्त्येनं शतरुद्रि यवत्प्रमाणेषु २२
मूलम्
उद्यच्छन्त्येनं शतरुद्रि यवत्प्रमाणेषु २२
विश्वास-प्रस्तुतिः
कृष्णाजिनेऽवरोहति प्रतिक्षत्र इति २३
मूलम्
कृष्णाजिनेऽवरोहति प्रतिक्षत्र इति २३
विश्वास-प्रस्तुतिः
त्रयस्त्रिंशं वसाग्रहं गृह्णाति यो भूतानामिति २४
मूलम्
त्रयस्त्रिंशं वसाग्रहं गृह्णाति यो भूतानामिति २४
विश्वास-प्रस्तुतिः
आज्यग्रहमाश्वत्थेनैके २५
मूलम्
आज्यग्रहमाश्वत्थेनैके २५