विश्वास-प्रस्तुतिः
विपृच स्थेति सौराणाम् १
मूलम्
विपृच स्थेति सौराणाम् १
विश्वास-प्रस्तुतिः
अभ्र्यादि करोति २
मूलम्
अभ्र्यादि करोति २
विश्वास-प्रस्तुतिः
आश्विनोऽजो ध्रूम्रः ३
मूलम्
आश्विनोऽजो ध्रूम्रः ३
विश्वास-प्रस्तुतिः
सारस्वतो मेषः ४
मूलम्
सारस्वतो मेषः ४
विश्वास-प्रस्तुतिः
ऐन्द्र ऋषभः ५
मूलम्
ऐन्द्र ऋषभः ५
विश्वास-प्रस्तुतिः
मध्ये यूपः ६
मूलम्
मध्ये यूपः ६
विश्वास-प्रस्तुतिः
दक्षिणोत्तरावैन्द्र वायोधससयोः ७
मूलम्
दक्षिणोत्तरावैन्द्र वायोधससयोः ७
विश्वास-प्रस्तुतिः
वपामार्जनान्ते ग्रहानादाय पूर्ववदनुवाचनं सुरासोमेभ्योऽनुब्रूहीति ८
मूलम्
वपामार्जनान्ते ग्रहानादाय पूर्ववदनुवाचनं सुरासोमेभ्योऽनुब्रूहीति ८
विश्वास-प्रस्तुतिः
सप्रैषं तु ९
मूलम्
सप्रैषं तु ९
विश्वास-प्रस्तुतिः
प्रस्थितमिति च १०
मूलम्
प्रस्थितमिति च १०
विश्वास-प्रस्तुतिः
त्रिपशोः सर्वम् ११
मूलम्
त्रिपशोः सर्वम् ११
विश्वास-प्रस्तुतिः
सुरावन्तमिति जुहोति १२
मूलम्
सुरावन्तमिति जुहोति १२
विश्वास-प्रस्तुतिः
पालाशैः सौरान्न मृन्मयमाहुतिमानश इति श्रुतेर्यस्त इति १३
मूलम्
पालाशैः सौरान्न मृन्मयमाहुतिमानश इति श्रुतेर्यस्त इति १३
विश्वास-प्रस्तुतिः
अध्वर्युः प्रतिप्रस्थाताऽग्नीद्यमश्विनेत्याश्विनं भक्षयन्ति द्विर्द्विरावर्त्तम् १४
मूलम्
अध्वर्युः प्रतिप्रस्थाताऽग्नीद्यमश्विनेत्याश्विनं भक्षयन्ति द्विर्द्विरावर्त्तम् १४
विश्वास-प्रस्तुतिः
होतृब्रह्ममैत्रावरुणाः सारस्वतमाश्विनवत् १५
मूलम्
होतृब्रह्ममैत्रावरुणाः सारस्वतमाश्विनवत् १५
विश्वास-प्रस्तुतिः
शेषं शेषमासिञ्चत्युत्तरे पूर्वस्य १६
मूलम्
शेषं शेषमासिञ्चत्युत्तरे पूर्वस्य १६
विश्वास-प्रस्तुतिः
ऐन्द्रं यजमानः १७
मूलम्
ऐन्द्रं यजमानः १७
विश्वास-प्रस्तुतिः
यदत्रेति सौरान्भक्षयन्ति यथाभक्षितं प्राचीनावीतिनो दक्षिणतः १८
मूलम्
यदत्रेति सौरान्भक्षयन्ति यथाभक्षितं प्राचीनावीतिनो दक्षिणतः १८
विश्वास-प्रस्तुतिः
प्राणभक्षमेके १९
मूलम्
प्राणभक्षमेके १९
विश्वास-प्रस्तुतिः
परिक्रीतो वा वैश्यराजन्ययोरन्यतरः २०
मूलम्
परिक्रीतो वा वैश्यराजन्ययोरन्यतरः २०
विश्वास-प्रस्तुतिः
अङ्गारेषु वा बहिष्परिधि दक्षिणतो जुहोत्याश्विनमुत्तरे मध्यमे सारस्वतमैन्द्रं दक्षिणे पितृभ्य इति प्रतिमन्त्रम् २१
मूलम्
अङ्गारेषु वा बहिष्परिधि दक्षिणतो जुहोत्याश्विनमुत्तरे मध्यमे सारस्वतमैन्द्रं दक्षिणे पितृभ्य इति प्रतिमन्त्रम् २१
विश्वास-प्रस्तुतिः
अक्षन्पितर इति प्रक्षालनेनोपसिञ्चति २२
मूलम्
अक्षन्पितर इति प्रक्षालनेनोपसिञ्चति २२
विश्वास-प्रस्तुतिः
पितरः शुन्धघ्वमिति जपति २३
मूलम्
पितरः शुन्धघ्वमिति जपति २३
विश्वास-प्रस्तुतिः
कुम्भीमासज्य कुम्भवत् शतवितृण्णां बालपवित्रहिरण्यान्यन्तर्धाय नवर्चं वाचयति पुनन्तु मेति २४
मूलम्
कुम्भीमासज्य कुम्भवत् शतवितृण्णां बालपवित्रहिरण्यान्यन्तर्धाय नवर्चं वाचयति पुनन्तु मेति २४
विश्वास-प्रस्तुतिः
सोमवतां बर्हिषदामग्निष्वात्तानां च २५
मूलम्
सोमवतां बर्हिषदामग्निष्वात्तानां च २५
विश्वास-प्रस्तुतिः
पूर्ववत्सोमातिपूतश्चेत् २६
मूलम्
पूर्ववत्सोमातिपूतश्चेत् २६
विश्वास-प्रस्तुतिः
ये समाना इति यजमानो जुहोति २७
मूलम्
ये समाना इति यजमानो जुहोति २७
विश्वास-प्रस्तुतिः
उत्तरे च यज्ञोपवीत्युत्तरया २८
मूलम्
उत्तरे च यज्ञोपवीत्युत्तरया २८
विश्वास-प्रस्तुतिः
अन्वारब्धेषु पयो जुहोति द्वे सृती इति २९
मूलम्
अन्वारब्धेषु पयो जुहोति द्वे सृती इति २९
विश्वास-प्रस्तुतिः
शेषं यजमानो भक्षयतीदं हविरिति चात्वाले मार्जयन्ते सपत्नीका हिरण्यमन्तर्धाय ३०
मूलम्
शेषं यजमानो भक्षयतीदं हविरिति चात्वाले मार्जयन्ते सपत्नीका हिरण्यमन्तर्धाय ३०