विश्वास-प्रस्तुतिः
वेदी मिमीते वरुणप्रघासवत् १
मूलम्
वेदी मिमीते वरुणप्रघासवत् १
विश्वास-प्रस्तुतिः
प्रक्रमतृतीयेनाऽवृत्तेनोत्तरां सोमवत् २
मूलम्
प्रक्रमतृतीयेनाऽवृत्तेनोत्तरां सोमवत् २
विश्वास-प्रस्तुतिः
तयोः पश्चात्खरौ करोति ३
मूलम्
तयोः पश्चात्खरौ करोति ३
विश्वास-प्रस्तुतिः
श्वः प्रणयनीयाऽधानादि करोत्याऽऽज्यासादनात् स्फ्यादि करोति दक्षिणस्यां वरुणप्रघासवत् ४
मूलम्
श्वः प्रणयनीयाऽधानादि करोत्याऽऽज्यासादनात् स्फ्यादि करोति दक्षिणस्यां वरुणप्रघासवत् ४
विश्वास-प्रस्तुतिः
सौरमेवाऽस्याम् ५
मूलम्
सौरमेवाऽस्याम् ५
विश्वास-प्रस्तुतिः
श्वभ्रं खात्वा खरमपरेण चर्माऽवधाय परिस्रुतमासिच्य कारोतरमवदधाति कारोतराद्वा चर्मणि मन्त्रलिङ्गात्पूतामादत्ते सिञ्चन्ति परि षिञ्चन्तीति ६
मूलम्
श्वभ्रं खात्वा खरमपरेण चर्माऽवधाय परिस्रुतमासिच्य कारोतरमवदधाति कारोतराद्वा चर्मणि मन्त्रलिङ्गात्पूतामादत्ते सिञ्चन्ति परि षिञ्चन्तीति ६
विश्वास-प्रस्तुतिः
सते पुनाति गोऽश्वबालधानेन पुनाति ते परिस्रुतमिति ७
मूलम्
सते पुनाति गोऽश्वबालधानेन पुनाति ते परिस्रुतमिति ७
विश्वास-प्रस्तुतिः
वायोः पूत इति सोमाऽतिपूतस्य ८
मूलम्
वायोः पूत इति सोमाऽतिपूतस्य ८
विश्वास-प्रस्तुतिः
प्राङिति तद्वामिनः ९
मूलम्
प्राङिति तद्वामिनः ९
विश्वास-प्रस्तुतिः
उत्तरस्यां पयो वैतसाऽजाविलोमपवित्रेण ब्रह्मक्षत्रमिति १०
मूलम्
उत्तरस्यां पयो वैतसाऽजाविलोमपवित्रेण ब्रह्मक्षत्रमिति १०
विश्वास-प्रस्तुतिः
ब्रह्मानुमन्त्रणमध्वर्यो अद्रि भिरिति ११
मूलम्
ब्रह्मानुमन्त्रणमध्वर्यो अद्रि भिरिति ११
विश्वास-प्रस्तुतिः
पयोग्रहान् गृह्णाति कुविदङ्गेति १२
मूलम्
पयोग्रहान् गृह्णाति कुविदङ्गेति १२
विश्वास-प्रस्तुतिः
पृथगुपयामयोनी १३
मूलम्
पृथगुपयामयोनी १३
विश्वास-प्रस्तुतिः
खरयोः सादनम् १४
मूलम्
खरयोः सादनम् १४
विश्वास-प्रस्तुतिः
आश्विनमाश्वत्थेन १५
मूलम्
आश्विनमाश्वत्थेन १५
विश्वास-प्रस्तुतिः
गोधूमकुवलचूर्णानि चाऽवपति तेजोऽसीति १६
मूलम्
गोधूमकुवलचूर्णानि चाऽवपति तेजोऽसीति १६
विश्वास-प्रस्तुतिः
सारस्वतमौदुम्बरेण १७
मूलम्
सारस्वतमौदुम्बरेण १७
विश्वास-प्रस्तुतिः
उपवाकबदरचूर्णानि च वीर्यमसीति १८
मूलम्
उपवाकबदरचूर्णानि च वीर्यमसीति १८
विश्वास-प्रस्तुतिः
ऐन्द्रं नैयग्रोधेन १९
मूलम्
ऐन्द्रं नैयग्रोधेन १९
विश्वास-प्रस्तुतिः
यवकर्कन्धुचूर्णानि च बलमसीति २०
मूलम्
यवकर्कन्धुचूर्णानि च बलमसीति २०
विश्वास-प्रस्तुतिः
स्थालीभिः सौरान्नाना हि वामिति व्यत्यासम् २१
मूलम्
स्थालीभिः सौरान्नाना हि वामिति व्यत्यासम् २१
विश्वास-प्रस्तुतिः
पयोग्रहान्वा पूर्वम् २२
मूलम्
पयोग्रहान्वा पूर्वम् २२
विश्वास-प्रस्तुतिः
सुराग्रहान् छ्रीणात्योजोऽसीति वृकव्याघ्रसिंहलोमभिः प्रतिमन्त्रं मिश्रैः २३
मूलम्
सुराग्रहान् छ्रीणात्योजोऽसीति वृकव्याघ्रसिंहलोमभिः प्रतिमन्त्रं मिश्रैः २३
विश्वास-प्रस्तुतिः
एके यथासङ्ख्यम् २४
मूलम्
एके यथासङ्ख्यम् २४
विश्वास-प्रस्तुतिः
सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते युगपत् २५
मूलम्
सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते युगपत् २५
विश्वास-प्रस्तुतिः
चतुर्भिर्वा पयोग्रहाञ्छेषेण सौरान् २६
मूलम्
चतुर्भिर्वा पयोग्रहाञ्छेषेण सौरान् २६
विश्वास-प्रस्तुतिः
दीक्षावत्पावयतोऽन्तःपात्ये श्येनपत्राभ्यां या व्याघ्रमिति २७
मूलम्
दीक्षावत्पावयतोऽन्तःपात्ये श्येनपत्राभ्यां या व्याघ्रमिति २७
विश्वास-प्रस्तुतिः
अग्निं प्रेक्षयति यदा पिपेषेति २८
मूलम्
अग्निं प्रेक्षयति यदा पिपेषेति २८
विश्वास-प्रस्तुतिः
पयोग्रहसम्मर्शनं सम्पृच स्थेति २९
मूलम्
पयोग्रहसम्मर्शनं सम्पृच स्थेति २९