विश्वास-प्रस्तुतिः
वातहोमान्जुहोत्यञ्जलिनाऽऽहृत्य पुरस्ताद्बहिर्वेदेरधो दक्षिणस्यां धुर्युत्तरतः उत्तरस्यां दक्षिणस्यां दक्षिणतः दक्षिणाप्रष्टेः समुद्रो ऽसीति प्रतिमन्त्रम् १
मूलम्
वातहोमान्जुहोत्यञ्जलिनाऽऽहृत्य पुरस्ताद्बहिर्वेदेरधो दक्षिणस्यां धुर्युत्तरतः उत्तरस्यां दक्षिणस्यां दक्षिणतः दक्षिणाप्रष्टेः समुद्रो ऽसीति प्रतिमन्त्रम् १
विश्वास-प्रस्तुतिः
योक्त्रपरिहरणं च सर्वत्र २
मूलम्
योक्त्रपरिहरणं च सर्वत्र २
विश्वास-प्रस्तुतिः
प्रगृह्याध्वर्योरावसथहरणम् ३
मूलम्
प्रगृह्याध्वर्योरावसथहरणम् ३
विश्वास-प्रस्तुतिः
दक्षिणाकालेऽध्वर्यवे ददाति ४
मूलम्
दक्षिणाकालेऽध्वर्यवे ददाति ४
विश्वास-प्रस्तुतिः
अश्वांश्च ५
मूलम्
अश्वांश्च ५
विश्वास-प्रस्तुतिः
नव जुहोति यास्त इति प्रतिमन्त्रम् ६
मूलम्
नव जुहोति यास्त इति प्रतिमन्त्रम् ६
विश्वास-प्रस्तुतिः
जानन्ब्राह्मणोक्ता जुहुयाद्वा ७
मूलम्
जानन्ब्राह्मणोक्ता जुहुयाद्वा ७
विश्वास-प्रस्तुतिः
हविर्धानप्रक्षालनाद्याग्नीध्रालम्भनात्कृत्वा धिष्ण्यांश्चिनोत्यष्टेष्टकाँ ल्लोकम्पृणाभिश्चतुःस्रक्तींस्तिरश्चो न्युप्य न्युप्य ८
मूलम्
हविर्धानप्रक्षालनाद्याग्नीध्रालम्भनात्कृत्वा धिष्ण्यांश्चिनोत्यष्टेष्टकाँ ल्लोकम्पृणाभिश्चतुःस्रक्तींस्तिरश्चो न्युप्य न्युप्य ८
विश्वास-प्रस्तुतिः
पृश्न्यश्मा चाग्नीध्रीये ९
मूलम्
पृश्न्यश्मा चाग्नीध्रीये ९
विश्वास-प्रस्तुतिः
सकृन्मन्त्रवचनम् १०
मूलम्
सकृन्मन्त्रवचनम् १०
विश्वास-प्रस्तुतिः
होत्रीये त्रिरेकविंशत्या ११
मूलम्
होत्रीये त्रिरेकविंशत्या ११
विश्वास-प्रस्तुतिः
ब्राह्मणाच्छंस्ये द्विरेकादशसु षण्मार्जालीये १२
मूलम्
ब्राह्मणाच्छंस्ये द्विरेकादशसु षण्मार्जालीये १२
विश्वास-प्रस्तुतिः
शेषा अष्टेष्टकाः १३
मूलम्
शेषा अष्टेष्टकाः १३
विश्वास-प्रस्तुतिः
यावदिष्टकं परिश्रितः परिनिधाय १४
मूलम्
यावदिष्टकं परिश्रितः परिनिधाय १४
विश्वास-प्रस्तुतिः
पुरीषं च तूष्णीम् १५
मूलम्
पुरीषं च तूष्णीम् १५
विश्वास-प्रस्तुतिः
अनुदेशाद्या पुरोडाशस्विष्टकृतोऽभिषेचनीयवत् १६
मूलम्
अनुदेशाद्या पुरोडाशस्विष्टकृतोऽभिषेचनीयवत् १६
विश्वास-प्रस्तुतिः
अग्नियोजनम्प्रातरनुवाकमुपाकरिष्यन्परिधीनालम्भ्य यथापूर्वमग्निं युनज्मीति प्रत्यृचम् १७
मूलम्
अग्नियोजनम्प्रातरनुवाकमुपाकरिष्यन्परिधीनालम्भ्य यथापूर्वमग्निं युनज्मीति प्रत्यृचम् १७
विश्वास-प्रस्तुतिः
अग्निमारुतस्तोत्रस्य पुरस्ताद्विमोचनं परिधिषन्ध्योर्दिवो मूर्धेति प्रत्यृचम् १८
मूलम्
अग्निमारुतस्तोत्रस्य पुरस्ताद्विमोचनं परिधिषन्ध्योर्दिवो मूर्धेति प्रत्यृचम् १८
विश्वास-प्रस्तुतिः
प्रायणीयातिरात्रे युक्त्वोदयनीये विमोकमेके १९
मूलम्
प्रायणीयातिरात्रे युक्त्वोदयनीये विमोकमेके १९
विश्वास-प्रस्तुतिः
अध्वरसमिष्टयजुरन्त इष्टो यज्ञ इति प्रत्यृचमपरे २०
मूलम्
अध्वरसमिष्टयजुरन्त इष्टो यज्ञ इति प्रत्यृचमपरे २०
विश्वास-प्रस्तुतिः
पशुपुरोडाशमन्वनूबन्धस्य देविकाहवींषि निर्वपति यजप्रैषाणि २१
मूलम्
पशुपुरोडाशमन्वनूबन्धस्य देविकाहवींषि निर्वपति यजप्रैषाणि २१
विश्वास-प्रस्तुतिः
अनुमतिराकासिनीवालीकुहूभ्यश्चरवो धात्रे द्वादशकपालः सर्वहुतः २२
मूलम्
अनुमतिराकासिनीवालीकुहूभ्यश्चरवो धात्रे द्वादशकपालः सर्वहुतः २२
विश्वास-प्रस्तुतिः
हृदयशूलान्ते स्रुवाहुतीर्जुहोति यदाकूतादिति प्रत्यृचमष्टौ २३
मूलम्
हृदयशूलान्ते स्रुवाहुतीर्जुहोति यदाकूतादिति प्रत्यृचमष्टौ २३
विश्वास-प्रस्तुतिः
चित्रोऽसीति चित्यनाम कृत्वोपतिष्ठते येऽअग्नय इति २४
मूलम्
चित्रोऽसीति चित्यनाम कृत्वोपतिष्ठते येऽअग्नय इति २४
विश्वास-प्रस्तुतिः
पयस्या मैत्रावरुणी तूपरमिथुनदक्षिणोदवसानीयाऽन्ते २५
मूलम्
पयस्या मैत्रावरुणी तूपरमिथुनदक्षिणोदवसानीयाऽन्ते २५
विश्वास-प्रस्तुतिः
वर्षत्यसरणमतः २६
मूलम्
वर्षत्यसरणमतः २६
विश्वास-प्रस्तुतिः
पक्ष्यभोजनम् २७
मूलम्
पक्ष्यभोजनम् २७
विश्वास-प्रस्तुतिः
सवर्णोपायी २८
मूलम्
सवर्णोपायी २८
विश्वास-प्रस्तुतिः
द्वितीये स्वामेव २९
मूलम्
द्वितीये स्वामेव २९
विश्वास-प्रस्तुतिः
तृतीये न काञ्चन ३०
मूलम्
तृतीये न काञ्चन ३०
विश्वास-प्रस्तुतिः
यावज्जीवं व्रतान्यविशेषात् ३१
मूलम्
यावज्जीवं व्रतान्यविशेषात् ३१
विश्वास-प्रस्तुतिः
संवत्सरं वा कालस्यानवस्थितत्वात् ३२
मूलम्
संवत्सरं वा कालस्यानवस्थितत्वात् ३२
विश्वास-प्रस्तुतिः
तद्व्रतश्रुतेश्च ३३
मूलम्
तद्व्रतश्रुतेश्च ३३
विश्वास-प्रस्तुतिः
चित्याशक्तौ पुनः सोमेज्यायां स्वयमातृण्णाविश्वज्योतिरृतव्यानामन्यतमाः ३४
मूलम्
चित्याशक्तौ पुनः सोमेज्यायां स्वयमातृण्णाविश्वज्योतिरृतव्यानामन्यतमाः ३४
विश्वास-प्रस्तुतिः
पुनश्चितिम् ३५
मूलम्
पुनश्चितिम् ३५
विश्वास-प्रस्तुतिः
अचयनं वाऽचित्यस्याऽहवनीयाऽभिसम्पत्तेः ३६
मूलम्
अचयनं वाऽचित्यस्याऽहवनीयाऽभिसम्पत्तेः ३६