विश्वास-प्रस्तुतिः
वसोर्धारां जुहोत्यीदुम्बर्या पञ्चगृहीतं सन्ततं यजमानोऽरण्येऽनूच्येऽग्निप्राप्ते वाजश्च म इत्यष्टानुवाकेन १
मूलम्
वसोर्धारां जुहोत्यीदुम्बर्या पञ्चगृहीतं सन्ततं यजमानोऽरण्येऽनूच्येऽग्निप्राप्ते वाजश्च म इत्यष्टानुवाकेन १
विश्वास-प्रस्तुतिः
हुत्वा स्रुक्प्रासनम् २
मूलम्
हुत्वा स्रुक्प्रासनम् २
विश्वास-प्रस्तुतिः
अग्नये स्वाहेति षट्पार्थानि जुहोति ३
मूलम्
अग्नये स्वाहेति षट्पार्थानि जुहोति ३
विश्वास-प्रस्तुतिः
वाजप्रसवीयानि वप्रावत्सम्भृत्य चमसवत्स्रुवेण वाजपेयिकानि वाजस्येममिति ४
मूलम्
वाजप्रसवीयानि वप्रावत्सम्भृत्य चमसवत्स्रुवेण वाजपेयिकानि वाजस्येममिति ४
विश्वास-प्रस्तुतिः
आग्निकानि च वाजस्य न्विति ५
मूलम्
आग्निकानि च वाजस्य न्विति ५
विश्वास-प्रस्तुतिः
स्रुवं प्रास्य परिश्रित्स्पृक्कृष्णाजिनमास्तीर्य पुच्छादुत्तरं शेषेऽपः कृत्वा ६
मूलम्
स्रुवं प्रास्य परिश्रित्स्पृक्कृष्णाजिनमास्तीर्य पुच्छादुत्तरं शेषेऽपः कृत्वा ६
विश्वास-प्रस्तुतिः
अभिषेक सामर्थ्यात् ७
मूलम्
अभिषेक सामर्थ्यात् ७
विश्वास-प्रस्तुतिः
क्षीरोदके वा वाजपेयिकानीति श्रुतेः ८
मूलम्
क्षीरोदके वा वाजपेयिकानीति श्रुतेः ८
विश्वास-प्रस्तुतिः
तत्राभिषिच्यते ब्रह्मवर्चसकामश्चित्यन्वारब्धो देवस्य त्वेति ९
मूलम्
तत्राभिषिच्यते ब्रह्मवर्चसकामश्चित्यन्वारब्धो देवस्य त्वेति ९
विश्वास-प्रस्तुतिः
तिष्ठन्वुभूषुः १०
मूलम्
तिष्ठन्वुभूषुः १०
विश्वास-प्रस्तुतिः
भूत उपविष्टः ११
मूलम्
भूत उपविष्टः ११
विश्वास-प्रस्तुतिः
बस्तचर्मणि पुष्टीच्छुः १२
मूलम्
बस्तचर्मणि पुष्टीच्छुः १२
विश्वास-प्रस्तुतिः
उभयेच्छुरुभयोः १३
मूलम्
उभयेच्छुरुभयोः १३
विश्वास-प्रस्तुतिः
एके दक्षिणतश्चित्ये वा १४
मूलम्
एके दक्षिणतश्चित्ये वा १४
विश्वास-प्रस्तुतिः
प्रास्य चमसमिन्द्रा य स्वाहेति षड् जुहोति प्रतिमन्त्रम् १५
मूलम्
प्रास्य चमसमिन्द्रा य स्वाहेति षड् जुहोति प्रतिमन्त्रम् १५
विश्वास-प्रस्तुतिः
द्वादशगृहीतं विग्राहं जुहोत्यृताषाडिति प्रतिस्वाहाकारं राष्ट्रभृतो वाट्कारान्तः पूवः पूर्वो मन्त्रः १६
मूलम्
द्वादशगृहीतं विग्राहं जुहोत्यृताषाडिति प्रतिस्वाहाकारं राष्ट्रभृतो वाट्कारान्तः पूवः पूर्वो मन्त्रः १६
विश्वास-प्रस्तुतिः
पञ्चगृहीतं च रथशिरस्यघ्याहवनीयं ध्रियमाणे पञ्चकृत्वः स नो भुवनस्येति १७
मूलम्
पञ्चगृहीतं च रथशिरस्यघ्याहवनीयं ध्रियमाणे पञ्चकृत्वः स नो भुवनस्येति १७
विश्वास-प्रस्तुतिः
प्रदक्षिणं रथनीडपरिहारः १८
मूलम्
प्रदक्षिणं रथनीडपरिहारः १८
विश्वास-प्रस्तुतिः
पुरुषाहुतिवद्वा १९
मूलम्
पुरुषाहुतिवद्वा १९
विश्वास-प्रस्तुतिः
अध्वर्युरभिमुखो रथशिरः २०
मूलम्
अध्वर्युरभिमुखो रथशिरः २०