विश्वास-प्रस्तुतिः
क्रमध्वमग्निनेति चेत्यगारोहन्ति १
मूलम्
क्रमध्वमग्निनेति चेत्यगारोहन्ति १
विश्वास-प्रस्तुतिः
स्वयमातृण्णामध्यग्निं धारयञ्छुक्लवत्सापयसाऽभिजुहोति कृष्णा या दोहनेन स्वयमातृण्णामवसिञ्चन्नक्तोषासेति २
मूलम्
स्वयमातृण्णामध्यग्निं धारयञ्छुक्लवत्सापयसाऽभिजुहोति कृष्णा या दोहनेन स्वयमातृण्णामवसिञ्चन्नक्तोषासेति २
विश्वास-प्रस्तुतिः
पैतुदारवाद्यत्रैके ३
मूलम्
पैतुदारवाद्यत्रैके ३
विश्वास-प्रस्तुतिः
तस्यामग्निं निदधाति सुपर्णोऽसीति वषट्कारेण ४
मूलम्
तस्यामग्निं निदधाति सुपर्णोऽसीति वषट्कारेण ४
विश्वास-प्रस्तुतिः
नित्ये च ५
मूलम्
नित्ये च ५
विश्वास-प्रस्तुतिः
समिदाधानं शामीलीवैकङ्कत्यौदुम्बर्यस्तां सवितुरिति प्रत्यृचमुत्तमा सकर्णका ६
मूलम्
समिदाधानं शामीलीवैकङ्कत्यौदुम्बर्यस्तां सवितुरिति प्रत्यृचमुत्तमा सकर्णका ६
विश्वास-प्रस्तुतिः
कर्णकाऽभावे दधिद्र प्साक्ता ७
मूलम्
कर्णकाऽभावे दधिद्र प्साक्ता ७
विश्वास-प्रस्तुतिः
स्रुवाहुती जुहोत्यग्ने तमद्येति च प्रत्यृचम् ८
मूलम्
स्रुवाहुती जुहोत्यग्ने तमद्येति च प्रत्यृचम् ८
विश्वास-प्रस्तुतिः
पूर्णाहुतिं च सप्त त इति ९
मूलम्
पूर्णाहुतिं च सप्त त इति ९
विश्वास-प्रस्तुतिः
तिष्ठन्त्समिधः सर्वत्र मध्ये १०
मूलम्
तिष्ठन्त्समिधः सर्वत्र मध्ये १०
विश्वास-प्रस्तुतिः
अन्तेष्वाहुतीरुपविश्य ११
मूलम्
अन्तेष्वाहुतीरुपविश्य ११
विश्वास-प्रस्तुतिः
अत्र पञ्चम्याः सप्तर्चोपस्थानं सर्वोपधानात् १२
मूलम्
अत्र पञ्चम्याः सप्तर्चोपस्थानं सर्वोपधानात् १२
विश्वास-प्रस्तुतिः
धिष्ण्यान्वा चित्त्वोत्तसंयोगात् १३
मूलम्
धिष्ण्यान्वा चित्त्वोत्तसंयोगात् १३
विश्वास-प्रस्तुतिः
अभिमृशेदिच्छन्त्संवत्सरोऽसीति १४
मूलम्
अभिमृशेदिच्छन्त्संवत्सरोऽसीति १४
विश्वास-प्रस्तुतिः
एवं यथाचिति १५
मूलम्
एवं यथाचिति १५
विश्वास-प्रस्तुतिः
वैश्वानरमारुतान्निर्वपति यथोक्तम् १६
मूलम्
वैश्वानरमारुतान्निर्वपति यथोक्तम् १६
विश्वास-प्रस्तुतिः
वैश्वानरमधिश्रित्य दक्षिणोत्तरौ मारुतौ १७
मूलम्
वैश्वानरमधिश्रित्य दक्षिणोत्तरौ मारुतौ १७
विश्वास-प्रस्तुतिः
पश्चाच्च सङ्कृष्टतरौ १८
मूलम्
पश्चाच्च सङ्कृष्टतरौ १८
विश्वास-प्रस्तुतिः
एवमपरौ १९
मूलम्
एवमपरौ १९
विश्वास-प्रस्तुतिः
पश्चादरण्येऽनूच्यम् २०
मूलम्
पश्चादरण्येऽनूच्यम् २०
विश्वास-प्रस्तुतिः
होमासादनयोश्च २१
मूलम्
होमासादनयोश्च २१
विश्वास-प्रस्तुतिः
पुच्छादपरान् कुशानास्तीर्याहवनीयसहितान्वा तत्रासादनम् २२
मूलम्
पुच्छादपरान् कुशानास्तीर्याहवनीयसहितान्वा तत्रासादनम् २२
विश्वास-प्रस्तुतिः
वैश्वानरेण प्रचर्य सर्वहुतेन हस्तेन मारुतान् जुहोत्युपविश्य वैश्वानरे वा वैश्वानरं पृथु कृत्वा शुक्रज्योतिरिति प्रतिमन्त्रम् २३
मूलम्
वैश्वानरेण प्रचर्य सर्वहुतेन हस्तेन मारुतान् जुहोत्युपविश्य वैश्वानरे वा वैश्वानरं पृथु कृत्वा शुक्रज्योतिरिति प्रतिमन्त्रम् २३
विश्वास-प्रस्तुतिः
विमुखेनारण्येऽनूच्यम् २४
मूलम्
विमुखेनारण्येऽनूच्यम् २४
विश्वास-प्रस्तुतिः
इन्द्रं दैवीरिति जपति २५
मूलम्
इन्द्रं दैवीरिति जपति २५
विश्वास-प्रस्तुतिः
इमं स्तनमिति वाचयति वा २६
मूलम्
इमं स्तनमिति वाचयति वा २६