विश्वास-प्रस्तुतिः
चित्यं परिषिञ्चत्यग्नीद्दक्षिणे निकक्षेऽद्रिं कृत्वाऽश्मन्नूर्जमित्यद्रे रधि १
मूलम्
चित्यं परिषिञ्चत्यग्नीद्दक्षिणे निकक्षेऽद्रिं कृत्वाऽश्मन्नूर्जमित्यद्रे रधि १
विश्वास-प्रस्तुतिः
अश्मंस्ते क्षुदित्यद्रौ कुम्भं कृत्वा मयि त ऊर्गित्यादाय २
मूलम्
अश्मंस्ते क्षुदित्यद्रौ कुम्भं कृत्वा मयि त ऊर्गित्यादाय २
विश्वास-प्रस्तुतिः
एवं द्विरपरम् ३
मूलम्
एवं द्विरपरम् ३
विश्वास-प्रस्तुतिः
तावत्प्रतिपर्येति ४
मूलम्
तावत्प्रतिपर्येति ४
विश्वास-प्रस्तुतिः
कुम्भेऽद्रिं कृत्वा दक्षिणस्यां वेदिश्रोणौ प्राङ् तिष्ठन् दक्षिणाऽस्यति यं द्विष्म इति ५
मूलम्
कुम्भेऽद्रिं कृत्वा दक्षिणस्यां वेदिश्रोणौ प्राङ् तिष्ठन् दक्षिणाऽस्यति यं द्विष्म इति ५
विश्वास-प्रस्तुतिः
अभिन्ने भेत्तवै ब्रूयात् ६
मूलम्
अभिन्ने भेत्तवै ब्रूयात् ६
विश्वास-प्रस्तुतिः
कुम्भे भेदनं सामर्थ्यात् ७
मूलम्
कुम्भे भेदनं सामर्थ्यात् ७
विश्वास-प्रस्तुतिः
अश्मनि वाऽर्थवादात् ८
मूलम्
अश्मनि वाऽर्थवादात् ८
विश्वास-प्रस्तुतिः
वाच्यत्वाच्च ९
मूलम्
वाच्यत्वाच्च ९
विश्वास-प्रस्तुतिः
अनपेक्षमेत्योदङ्प्राङ् तिष्ठन्नात्मन उपरि प्रापणान्ते जपतीमा मऽ इति १०
मूलम्
अनपेक्षमेत्योदङ्प्राङ् तिष्ठन्नात्मन उपरि प्रापणान्ते जपतीमा मऽ इति १०
विश्वास-प्रस्तुतिः
मण्डूकावकावेतसशाखा वेणौ बद्ध्वाऽवकर्षति मन्त्रकृष्टवत्समुद्र स्य त्वेति प्रत्यृचम् ११
मूलम्
मण्डूकावकावेतसशाखा वेणौ बद्ध्वाऽवकर्षति मन्त्रकृष्टवत्समुद्र स्य त्वेति प्रत्यृचम् ११
विश्वास-प्रस्तुतिः
पक्षपुच्छानि चाभ्यात्ममग्ने पावक रोचिषेति १२
मूलम्
पक्षपुच्छानि चाभ्यात्ममग्ने पावक रोचिषेति १२
विश्वास-प्रस्तुतिः
अन्त्यमुत्तरम् १३
मूलम्
अन्त्यमुत्तरम् १३
विश्वास-प्रस्तुतिः
वेणुमुत्करे कृत्वा चित्यमालभ्य तिष्ठन् १४
मूलम्
वेणुमुत्करे कृत्वा चित्यमालभ्य तिष्ठन् १४