(चयनम्)
विश्वास-प्रस्तुतिः
शतरुद्रि यहोम उत्तरपक्षस्याऽपरस्यां स्रक्त्यां परिश्रित्स्वर्कपर्णेनाऽर्ककाष्ठेन शातयन्त्सन्ततं जर्तिलमिश्रान्गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ् नमस्त इत्यध्यायेन १
मूलम्
शतरुद्रि यहोम उत्तरपक्षस्याऽपरस्यां स्रक्त्यां परिश्रित्स्वर्कपर्णेनाऽर्ककाष्ठेन शातयन्त्सन्ततं जर्तिलमिश्रान्गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ् नमस्त इत्यध्यायेन १
विश्वास-प्रस्तुतिः
त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे २
मूलम्
त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे २
विश्वास-प्रस्तुतिः
पञ्चान्ते च नाभिमात्रे ३
मूलम्
पञ्चान्ते च नाभिमात्रे ३
विश्वास-प्रस्तुतिः
प्राक्च प्रत्यवरोहेभ्यो मुइखमात्रे ४
मूलम्
प्राक्च प्रत्यवरोहेभ्यो मुइखमात्रे ४
विश्वास-प्रस्तुतिः
प्रतिलोमं प्रत्यवरोहाञ्जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम् ५
मूलम्
प्रतिलोमं प्रत्यवरोहाञ्जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम् ५
विश्वास-प्रस्तुतिः
हवने प्रास्यति चात्वाले ६
मूलम्
हवने प्रास्यति चात्वाले ६