१२

विश्वास-प्रस्तुतिः

नाकसदोऽनूकेसू पूर्ववर्जमृतव्यावेलायामाश्विनीवद्र ज्ञ्यसीति प्रतिमन्त्रम् १

मूलम्

नाकसदोऽनूकेसू पूर्ववर्जमृतव्यावेलायामाश्विनीवद्र ज्ञ्यसीति प्रतिमन्त्रम् १

विश्वास-प्रस्तुतिः

पुरीषमोप्योपर्ययं पुर इति पञ्च चूडाः प्रतिमन्त्रम् २

मूलम्

पुरीषमोप्योपर्ययं पुर इति पञ्च चूडाः प्रतिमन्त्रम् २

विश्वास-प्रस्तुतिः

प्रतिदिशं यथालिङ्गम् ३

मूलम्

प्रतिदिशं यथालिङ्गम् ३

विश्वास-प्रस्तुतिः

पश्चिमोत्तमा ४

मूलम्

पश्चिमोत्तमा ४

विश्वास-प्रस्तुतिः

छन्दस्यास्तिस्रस्तिस्रोऽनूकान्तेषु पुरस्ताद्गायत्रीरग्निर्मूर्धेति प्रत्यृचम् ५

मूलम्

छन्दस्यास्तिस्रस्तिस्रोऽनूकान्तेषु पुरस्ताद्गायत्रीरग्निर्मूर्धेति प्रत्यृचम् ५

विश्वास-प्रस्तुतिः

उत्तराश्च ६

मूलम्

उत्तराश्च ६

विश्वास-प्रस्तुतिः

पुरस्तात्रिष्टुभो रेतःसिग्वेलायां भुवो यज्ञस्येति ७

मूलम्

पुरस्तात्रिष्टुभो रेतःसिग्वेलायां भुवो यज्ञस्येति ७

विश्वास-प्रस्तुतिः

जगतीश्च पश्चादयमिहेति ८

मूलम्

जगतीश्च पश्चादयमिहेति ८

विश्वास-प्रस्तुतिः

अपरास्ताभ्योऽनुष्टुभः सखायः सं व इति ९

मूलम्

अपरास्ताभ्योऽनुष्टुभः सखायः सं व इति ९

विश्वास-प्रस्तुतिः

अषाढावेलायाः पुरस्ताद् बृहतीरेना व इति १०

मूलम्

अषाढावेलायाः पुरस्ताद् बृहतीरेना व इति १०

विश्वास-प्रस्तुतिः

भद्रो न इति ककुभस्ताभ्यो बृहत्यन्तरश्रुतेर्मन्त्रक्रमेण ११

मूलम्

भद्रो न इति ककुभस्ताभ्यो बृहत्यन्तरश्रुतेर्मन्त्रक्रमेण ११

विश्वास-प्रस्तुतिः

उद्धृतान्यपकृष्येच्छन् १२

मूलम्

उद्धृतान्यपकृष्येच्छन् १२

विश्वास-प्रस्तुतिः

अपरा गायत्रीभ्य उष्णिहोऽग्ने वाजस्येति १३

मूलम्

अपरा गायत्रीभ्य उष्णिहोऽग्ने वाजस्येति १३

विश्वास-प्रस्तुतिः

अनूकान्ते दक्षिणे पङ्क्तीरग्निं तमिति १४

मूलम्

अनूकान्ते दक्षिणे पङ्क्तीरग्निं तमिति १४

विश्वास-प्रस्तुतिः

उत्तरे पदपङ्क्तीरग्ने तमद्येति १५

मूलम्

उत्तरे पदपङ्क्तीरग्ने तमद्येति १५

विश्वास-प्रस्तुतिः

पुरीषवत्याः पूर्वामतिच्छन्दसं प्राच्यौ पुरीषसहिते भद्रा रातिर्वृत्रतूर्येऽवस्थिराऽग्निं होतारमिति १६

मूलम्

पुरीषवत्याः पूर्वामतिच्छन्दसं प्राच्यौ पुरीषसहिते भद्रा रातिर्वृत्रतूर्येऽवस्थिराऽग्निं होतारमिति १६

विश्वास-प्रस्तुतिः

अग्ने त्वमित्यनूकान्तेऽपरे द्विपदाः १७

मूलम्

अग्ने त्वमित्यनूकान्तेऽपरे द्विपदाः १७

विश्वास-प्रस्तुतिः

मध्येऽष्टेष्टकं गार्हपत्यम् १८

मूलम्

मध्येऽष्टेष्टकं गार्हपत्यम् १८

विश्वास-प्रस्तुतिः

पुनश्चितिं चोपरि तद्वद्येन ऋषय इति प्रत्यृचम् १९

मूलम्

पुनश्चितिं चोपरि तद्वद्येन ऋषय इति प्रत्यृचम् १९

विश्वास-प्रस्तुतिः

पुच्छसन्धावेके २०

मूलम्

पुच्छसन्धावेके २०

विश्वास-प्रस्तुतिः

पूर्वार्धे वा गार्हपत्यं पुच्छसन्धौ कृत्वा २२

मूलम्

पूर्वार्धे वा गार्हपत्यं पुच्छसन्धौ कृत्वा २२

विश्वास-प्रस्तुतिः

ऋतव्ये तपश्च तपस्यश्चेति २३

मूलम्

ऋतव्ये तपश्च तपस्यश्चेति २३

विश्वास-प्रस्तुतिः

विश्वज्योतिषं परमेष्ठी त्वेति २४

मूलम्

विश्वज्योतिषं परमेष्ठी त्वेति २४

विश्वास-प्रस्तुतिः

दक्षिणांसात्प्रत्यगरत्निमात्रादधिलोकम्पृणाः पूर्ववत् २५

मूलम्

दक्षिणांसात्प्रत्यगरत्निमात्रादधिलोकम्पृणाः पूर्ववत् २५

विश्वास-प्रस्तुतिः

प्रच्छाद्य पुरीषेण विकर्णीस्वयमातृण्णे शर्करे संस्पृष्टे छिद्रे प्रोथदश्च इत्युत्तरां विकर्णीमायोष्ट्वेति स्वयमातृण्णाम् २६

मूलम्

प्रच्छाद्य पुरीषेण विकर्णीस्वयमातृण्णे शर्करे संस्पृष्टे छिद्रे प्रोथदश्च इत्युत्तरां विकर्णीमायोष्ट्वेति स्वयमातृण्णाम् २६

विश्वास-प्रस्तुतिः

सकृन्नित्ये २७

मूलम्

सकृन्नित्ये २७

विश्वास-प्रस्तुतिः

पुरुषाभिहोमवत्तिष्ठन्नग्निं प्रोक्षति हिरण्यशकलसहस्रेण शते द्वे द्वे प्रकिरति सहस्रस्येति प्रतिमन्त्रं सहस्रस्येति प्रतिमन्त्रम् २८

मूलम्

पुरुषाभिहोमवत्तिष्ठन्नग्निं प्रोक्षति हिरण्यशकलसहस्रेण शते द्वे द्वे प्रकिरति सहस्रस्येति प्रतिमन्त्रं सहस्रस्येति प्रतिमन्त्रम् २८