विश्वास-प्रस्तुतिः
चतुर्थ्यामनूकान्तेषु दक्षिणोत्तरे द्वे द्वे १
मूलम्
चतुर्थ्यामनूकान्तेषु दक्षिणोत्तरे द्वे द्वे १
विश्वास-प्रस्तुतिः
पूर्वाभ्यामपराश्चतुर्दश २
मूलम्
पूर्वाभ्यामपराश्चतुर्दश २
विश्वास-प्रस्तुतिः
ताभ्यः षट् ३
मूलम्
ताभ्यः षट् ३
विश्वास-प्रस्तुतिः
पूर्वदक्षिणेऽवान्तरदेश एके ४
मूलम्
पूर्वदक्षिणेऽवान्तरदेश एके ४
विश्वास-प्रस्तुतिः
उत्तरा वा दक्षिणाभ्याम् ५
मूलम्
उत्तरा वा दक्षिणाभ्याम् ५
विश्वास-प्रस्तुतिः
उत्तरां पूर्वयोराशुस्त्रिवृदिति ६
मूलम्
उत्तरां पूर्वयोराशुस्त्रिवृदिति ६
विश्वास-प्रस्तुतिः
दक्षिणामपरयोर्धरुणऽएकविंशऽइति ७
मूलम्
दक्षिणामपरयोर्धरुणऽएकविंशऽइति ७
विश्वास-प्रस्तुतिः
दक्षिणां दक्षिणयोर्भान्तः पञ्चदश इति ८
मूलम्
दक्षिणां दक्षिणयोर्भान्तः पञ्चदश इति ८
विश्वास-प्रस्तुतिः
दक्षिणामुत्तरयोर्व्योमा सप्तदश इति ९
मूलम्
दक्षिणामुत्तरयोर्व्योमा सप्तदश इति ९
विश्वास-प्रस्तुतिः
चतुर्दश प्रतिमन्त्रं प्रतूर्त्तिरष्टादश इति १०
मूलम्
चतुर्दश प्रतिमन्त्रं प्रतूर्त्तिरष्टादश इति १०
विश्वास-प्रस्तुतिः
दक्षिणां पूर्वयोरग्नेर्भाग इति ११
मूलम्
दक्षिणां पूर्वयोरग्नेर्भाग इति ११
विश्वास-प्रस्तुतिः
उत्तरामपरयोर्मित्रस्य भाग इति १२
मूलम्
उत्तरामपरयोर्मित्रस्य भाग इति १२
विश्वास-प्रस्तुतिः
उत्तरां दक्षिणयोर्नृचक्षसां भाग इति १३
मूलम्
उत्तरां दक्षिणयोर्नृचक्षसां भाग इति १३
विश्वास-प्रस्तुतिः
उत्तरामुत्तरयोरिन्द्र स्य भाग इति १४
मूलम्
उत्तरामुत्तरयोरिन्द्र स्य भाग इति १४
विश्वास-प्रस्तुतिः
षट् प्रतिमन्त्रं वसूनां भाग इति १५
मूलम्
षट् प्रतिमन्त्रं वसूनां भाग इति १५
विश्वास-प्रस्तुतिः
ऋतव्ये सहश्च सहस्यश्चेति १६
मूलम्
ऋतव्ये सहश्च सहस्यश्चेति १६
विश्वास-प्रस्तुतिः
रेतःसिग्वेलायां च सप्तदश सर्वतो नव दक्षिणेनानूकं सृष्टारेकयाऽस्तुवतेति प्रतिमन्त्रम् १७
मूलम्
रेतःसिग्वेलायां च सप्तदश सर्वतो नव दक्षिणेनानूकं सृष्टारेकयाऽस्तुवतेति प्रतिमन्त्रम् १७
विश्वास-प्रस्तुतिः
उत्तरांसादधि लोकम्पृणाः पूर्ववत् १८
मूलम्
उत्तरांसादधि लोकम्पृणाः पूर्ववत् १८