विश्वास-प्रस्तुतिः
द्वितीयायामाश्विनीः प्रतिदिशं रेतःसिग्वेलायाम् १
मूलम्
द्वितीयायामाश्विनीः प्रतिदिशं रेतःसिग्वेलायाम् १
विश्वास-प्रस्तुतिः
अनूकमुत्तरेण पूर्वां द्वितीये २
मूलम्
अनूकमुत्तरेण पूर्वां द्वितीये २
विश्वास-प्रस्तुतिः
दक्षिणां पूर्वेण ३
मूलम्
दक्षिणां पूर्वेण ३
विश्वास-प्रस्तुतिः
अपरां दक्षिणेन ४
मूलम्
अपरां दक्षिणेन ४
विश्वास-प्रस्तुतिः
उत्तरामपरेण ५
मूलम्
उत्तरामपरेण ५
विश्वास-प्रस्तुतिः
दक्षिणामुत्तरेण पञ्चमी ६
मूलम्
दक्षिणामुत्तरेण पञ्चमी ६
विश्वास-प्रस्तुतिः
वैश्वदेवीः ७
मूलम्
वैश्वदेवीः ७
विश्वास-प्रस्तुतिः
पूर्वां दक्षिणेन ८
मूलम्
पूर्वां दक्षिणेन ८
विश्वास-प्रस्तुतिः
दक्षिणामपरेण ९
मूलम्
दक्षिणामपरेण ९
विश्वास-प्रस्तुतिः
अपरामुत्तरेण १०
मूलम्
अपरामुत्तरेण १०
विश्वास-प्रस्तुतिः
उत्तरां पूर्वेण ११
मूलम्
उत्तरां पूर्वेण ११
विश्वास-प्रस्तुतिः
एवं वैश्वदेवीभ्यः प्राणभृतः १२
मूलम्
एवं वैश्वदेवीभ्यः प्राणभृतः १२
विश्वास-प्रस्तुतिः
प्राणभृद्भ्योऽपस्याः १३
मूलम्
प्राणभृद्भ्योऽपस्याः १३
विश्वास-प्रस्तुतिः
पूर्ववत्पञ्चम्यः सर्वासाम् १४
मूलम्
पूर्ववत्पञ्चम्यः सर्वासाम् १४
विश्वास-प्रस्तुतिः
आश्विनीध्रुवक्षितिरिति प्रतिमन्त्रम् १५
मूलम्
आश्विनीध्रुवक्षितिरिति प्रतिमन्त्रम् १५
विश्वास-प्रस्तुतिः
शुक्रश्च शुचिश्वेत्यृतव्ये पूर्वयोरुपरि १६
मूलम्
शुक्रश्च शुचिश्वेत्यृतव्ये पूर्वयोरुपरि १६
विश्वास-प्रस्तुतिः
उत्तराश्च १७
मूलम्
उत्तराश्च १७
विश्वास-प्रस्तुतिः
वैश्वदेवीः सजूरृतुभिरिति प्रतिमन्त्रम् १८
मूलम्
वैश्वदेवीः सजूरृतुभिरिति प्रतिमन्त्रम् १८
विश्वास-प्रस्तुतिः
उत्तराश्च १९
मूलम्
उत्तराश्च १९
विश्वास-प्रस्तुतिः
प्राणभृतः प्राणं म इति २०
मूलम्
प्राणभृतः प्राणं म इति २०
विश्वास-प्रस्तुतिः
अपः पिन्वेत्यपस्याः २१
मूलम्
अपः पिन्वेत्यपस्याः २१
विश्वास-प्रस्तुतिः
वयस्याः पञ्चपञ्चाऽनूकान्तेषु मूर्द्धा वय इति प्रतिमन्त्रम् २२
मूलम्
वयस्याः पञ्चपञ्चाऽनूकान्तेषु मूर्द्धा वय इति प्रतिमन्त्रम् २२
विश्वास-प्रस्तुतिः
चतस्रः पुरस्तात् २३
मूलम्
चतस्रः पुरस्तात् २३
विश्वास-प्रस्तुतिः
दक्षिणत उत्तरतः पश्चात् २४
मूलम्
दक्षिणत उत्तरतः पश्चात् २४
विश्वास-प्रस्तुतिः
दक्षिणश्रोणरेधि लोकम्पृणाः पूर्ववत् २५
मूलम्
दक्षिणश्रोणरेधि लोकम्पृणाः पूर्ववत् २५