०७

विश्वास-प्रस्तुतिः

चितिं पुरीषवतीमुपतिष्ठते वार्त्रहत्यायेति सप्तभिः १

मूलम्

चितिं पुरीषवतीमुपतिष्ठते वार्त्रहत्यायेति सप्तभिः १

विश्वास-प्रस्तुतिः

अष्टाभिरेके २

मूलम्

अष्टाभिरेके २

विश्वास-प्रस्तुतिः

दशभिर्वा ३

मूलम्

दशभिर्वा ३

विश्वास-प्रस्तुतिः

उपत्ससु पौर्वाह्रणिक्याऽऽपराह्रणिक्यन्तरे चयनपुरीषनिवपने ४

मूलम्

उपत्ससु पौर्वाह्रणिक्याऽऽपराह्रणिक्यन्तरे चयनपुरीषनिवपने ४

विश्वास-प्रस्तुतिः

त्रिरश्वं परिणीयोपास्तमयं पशुवदुत्सृज्य तावत्प्रतिपर्येति ५

मूलम्

त्रिरश्वं परिणीयोपास्तमयं पशुवदुत्सृज्य तावत्प्रतिपर्येति ५

विश्वास-प्रस्तुतिः

परिणयनमाऽग्निनिधानात् ६

मूलम्

परिणयनमाऽग्निनिधानात् ६

विश्वास-प्रस्तुतिः

त्र्युपसत्के द्वे प्रथमायां तिस्रो मध्यमायाम् ७

मूलम्

त्र्युपसत्के द्वे प्रथमायां तिस्रो मध्यमायाम् ७

विश्वास-प्रस्तुतिः

पञ्चगृहीताद्युत्तमा ८

मूलम्

पञ्चगृहीताद्युत्तमा ८

विश्वास-प्रस्तुतिः

उत्तरासु च ९

मूलम्

उत्तरासु च ९

विश्वास-प्रस्तुतिः

सपुरीषा षट्स्वेकैका १०

मूलम्

सपुरीषा षट्स्वेकैका १०

विश्वास-प्रस्तुतिः

द्वादशोपसत्के व्यत्यासं चितिपुरीषे ११

मूलम्

द्वादशोपसत्के व्यत्यासं चितिपुरीषे ११

विश्वास-प्रस्तुतिः

विकर्ण्याद्येकादश्याम् १२

मूलम्

विकर्ण्याद्येकादश्याम् १२

विश्वास-प्रस्तुतिः

चतुर्मासोपसत्के द्वादशाहशः १३

मूलम्

चतुर्मासोपसत्के द्वादशाहशः १३

विश्वास-प्रस्तुतिः

षट्त्रिंशदहशः षट्त्रिंशदहशः संवत्सरे १४

मूलम्

षट्त्रिंशदहशः षट्त्रिंशदहशः संवत्सरे १४

विश्वास-प्रस्तुतिः

तापश्चिते मासशश्चितिपुरीषे चतसृणाम् १५

मूलम्

तापश्चिते मासशश्चितिपुरीषे चतसृणाम् १५

विश्वास-प्रस्तुतिः

पञ्चम्यामसपत्ना विराजः प्रथमेऽहन् १६

मूलम्

पञ्चम्यामसपत्ना विराजः प्रथमेऽहन् १६

विश्वास-प्रस्तुतिः

स्तोमभागा अन्वहम् १७

मूलम्

स्तोमभागा अन्वहम् १७

विश्वास-प्रस्तुतिः

मासं पुरीषं तूष्णीम् १८

मूलम्

मासं पुरीषं तूष्णीम् १८

विश्वास-प्रस्तुतिः

नाकसत्प्रभृति मासम् १९

मूलम्

नाकसत्प्रभृति मासम् १९

विश्वास-प्रस्तुतिः

पुरीषं च २०

मूलम्

पुरीषं च २०

विश्वास-प्रस्तुतिः

उत्तमयोरहूतोर्विकर्ण्यादि पूर्वे २१

मूलम्

उत्तमयोरहूतोर्विकर्ण्यादि पूर्वे २१

विश्वास-प्रस्तुतिः

द्विसाहस्री प्रथमा लोकम्पृणानां पञ्चाशदूना २२

मूलम्

द्विसाहस्री प्रथमा लोकम्पृणानां पञ्चाशदूना २२

विश्वास-प्रस्तुतिः

उत्तराश्च २३

मूलम्

उत्तराश्च २३

विश्वास-प्रस्तुतिः

तिस्रसाहस्त्र्युत्तमा २४

मूलम्

तिस्रसाहस्त्र्युत्तमा २४

विश्वास-प्रस्तुतिः

वक्राऽलिखितानां दक्षिणोत्तरे मध्य इतरासाम् २५

मूलम्

वक्राऽलिखितानां दक्षिणोत्तरे मध्य इतरासाम् २५

विश्वास-प्रस्तुतिः

षट्त्रिंशच्छत्या वा तृतीयाऽष्टादशशत्या इतराः २६

मूलम्

षट्त्रिंशच्छत्या वा तृतीयाऽष्टादशशत्या इतराः २६

विश्वास-प्रस्तुतिः

गार्हपत्यलोकम्पृणाः प्रथमायाम् २७

मूलम्

गार्हपत्यलोकम्पृणाः प्रथमायाम् २७

विश्वास-प्रस्तुतिः

धिष्णीया उत्तमायाम् २८

मूलम्

धिष्णीया उत्तमायाम् २८

विश्वास-प्रस्तुतिः

अपरिमितेष्टको वा २९

मूलम्

अपरिमितेष्टको वा २९

विश्वास-प्रस्तुतिः

प्रथमोत्तमयोः पादमात्रीरतिरिक्ता ३०

मूलम्

प्रथमोत्तमयोः पादमात्रीरतिरिक्ता ३०

विश्वास-प्रस्तुतिः

दशगणाधिका भित्त्वोत्करे कुर्यात् ३१

मूलम्

दशगणाधिका भित्त्वोत्करे कुर्यात् ३१